संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|पञ्चलम्बको नाम त्रयोदशो लम्बकः| पञ्चलम्बको नाम पञ्चलम्बको नाम त्रयोदशो लम्बकः सावित्र्याख्यायिका वेगवतीप्राप्तिः गन्धर्वदत्ताप्राप्तिः भगीरथयशःप्राप्तिकथा प्रभावतीप्राप्तिकथा अजिनावतीप्राप्तिकथा गोमुखकथा मरुभूतिकथा हरिशिखकथा मानसवेगाधिवधः पञ्चलम्बको नाम पञ्चलम्बको नाम क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत पञ्चलम्बको नाम Translation - भाषांतर विद्याधरवरोद्याने दयिताभिः पिबन्मधु । विजहार ततः श्रीमान्वयस्यैर्नरवाहनः ॥२२७॥ गौरीमुण्डस्य तनयां कान्तां मन्दिरिकाभिधाम् । परिणीयामितगतिप्रमुखैः सेवितो बभौ ॥२२८॥अत्रान्तरे विदित्वासौ चारैः समरसंमुखम् । जेतुं मन्दरदेवाख्यं चक्रे मनसि विक्रम अमम ॥२२९॥स स्म्नद्धबलाम्भोधिर्निर्गतो नरवाहनः । चक्रवर्ती परां प्राप्य स्वसारं तस्य सुन्दरीम् ॥२३०॥तस्याः सख्यश्चतस्रो या विद्याधरनृपात्मजाः । समं विवाहः कर्तव्यः संवित्तासामभूदिति ॥२३१॥एकैव परिणिताभूत्त्वां(?)वि.....विमुखाः क्षणम् । तद्वैमुस्या(?) विजहार दयितां नरवाहनः ॥२३२॥कालकूटाधिनाथस्य तनयां कालिकाभिधाम् । महादंष्ट्रस्य तु सुतां विद्युत्फुल्लां मृगीदृशम् ॥२३३॥ मद्वरस्यात्मजामिन्दुवदनां वरमतङ्गिनीम् । चित्रकूटेश्वरस्यापि पुत्रीं पद्मप्रभामिति ॥२३४॥तद्वाक्यात्ताः सखीस्तस्याः परिणीयाभवत्सुखी । तद्विलासरसावासनवयौवनमण्डितः ॥२३५॥अथ रिपुवधयात्रायातसेनासमुद्रः प्रतिहतघनभेरीघोषसंपूरिताशः । त्रिनयनवरलक्ष्मीं प्राप्तसिद्धिप्रसिद्धः पणिरिव तनु यायात्स्वां पुरीं राजपुत्रः ॥२३६॥इति श्रीक्षेमेन्द्रविरचितायां बृहत्कथामञ्जर्यां पञ्चलम्बको नाम त्रयोदशो लम्बकः । N/A References : N/A Last Updated : October 27, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP