मरुभूतिकथा

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


गोमुखेनेति कथितं मरुभूतिमभाषत ।
अस्म्यहं पातितस्तेन मूर्च्छितः शून्यकानने ॥१९९॥
सरितः शीतलाख्यायास्ततस्तीरे महामुनिम् ।
अपश्यं तेन चास्म्युक्तः शुभं ते न चिरादिति ॥२००॥
ततस्तत्तटिनीस्नाताः पीनोन्नतपयोधराः ।
कान्ता दृष्ट्वा मया पृष्टः प्रोवाच क्षुभितो मुनिः ॥२०१॥
एकस्या वस्त्रममलं वीरोपान्तात्त्वमानयः ।
ततो ज्ञास्यसि वृत्तान्तमिति श्रुत्वा हृतं मया ॥२०२॥
यातास्वन्यासु चैवैका हेमकुम्भोपमस्तनी ।
विस्तीर्णश्रोणिपुलिना नदीव प्राह रूपिणी ॥२०३॥
मम मुञ्चांशुकं क्षिप्रमहं विद्याधरी मया ।
शंभोर्वराच्चक्रवर्ती दृष्टव्यो नरवाहनः ॥२०४॥
इति श्रुत्वा प्रहृष्टोऽहं तया सुरतसंगतम् ।
तमपश्यं मुनिवरं दुर्निवारो हि मन्मथः ॥२०५॥
ततो विमुच्य सा गर्भं कदलीपल्लवाङ्गना ।
मुनिं प्राह स्वयं जित्वा भुक्तेन सिद्धिमाप्स्यसि ॥२०६॥
इति श्रुत्वा तथा कृत्वा भुङ्क्ष्वेदमिति सोऽवदत् ।
प्रत्याख्यातं मया सर्वं भुक्त्वा स त्रिदिवं ययौ ॥२०७॥
तस्य सिद्धिं परां दृष्ट्वा पश्चात्तापमहं गतः ।
तत्करभ्रष्टसिद्धान्नकणयुग्ममभक्षयम् ॥२०८॥
तेनाहं सततं तप्तकाञ्चनष्ठीवतां गतः ।
वराङ्गनागृहं यातः कस्य नोन्मादनं धनम् ॥२०९॥
सुवर्णष्ठीविनं दृष्ट्वा तत्र मां वृधकुट्टिनी ।
ग्रस्तलोकार्थविभवा कालजिह्वेव भीषणा ॥२१०॥
विधाय वमनद्रव्यं मम वान्तं ततोऽन्यया ।
तदन्नरत्नयुगलं निगीर्यालिङ्गितो ययौ ॥२११॥
ततो नष्टहिरण्योऽहं निर्गतो वञ्चितस्तया ।
श्वजिह्वाभिरिवं स्त्रीणां लीढः को नैति रिक्तताम् ॥२१२॥
आराध्य चण्डिकां देवी तद्वरादहमागतः ।
त्वत्पादमूलमानीतः सिद्धया तत्र विद्यया ॥२१३॥
इति मरुभूतिकथा ॥८॥

N/A

References : N/A
Last Updated : October 27, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP