संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|विषमशीलनामा दशमो लम्बकः| राजपुत्रीद्वयलाभः विषमशीलनामा दशमो लम्बकः टेण्टाकरालाख्यायिका खण्डकापालिकवधः यक्षीसमागमकथा कन्याचतुष्टयप्राप्तिः शबरराजपुत्रीलाभः गजवराहशापमुक्तिः राजपुत्रीद्वयलाभः विषमशीलनामा राजपुत्रीद्वयलाभः क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत राजपुत्रीद्वयलाभः Translation - भाषांतर अत्रान्तरे दिनारम्भे कन्यायुगमदृश्यत । रूपयौवनलावण्यविलासकुलमन्दिरम् ॥१९३॥ ततस्तदनुगाः पृष्टा मया कौतुकशालिना । ऊचुः कटाहद्वीपेशसुतेयं कमलेक्षणा ॥१९४॥ सप्तद्वीपपतेर्भार्या भाविनी भुवि विश्रुता । अस्याश्च मातुलसुता द्वितीयेयं मृगेक्षणा ॥१९५॥गुरुभ्यां प्रहिते चैते विक्रमादित्यभूभुजे । अब्धौ भग्ने प्रवहणे निगीर्णे जलचारिणा ॥१९६॥विधातुरानुकूल्याच्च मुक्ते धीवरदारितात् । मत्स्यादयं स देवः श्रीविक्रमादित्य एव किम् ॥१९७॥ इत्युक्तस्तत्परिजनैरहं तानवदत्तदा । अयमेव स भूपालः श्रीमान्कमललोचनः । यत्कृते यूयमायाता राजकन्यायुगानुगाः ॥१९८॥ इति मन्द्वचनं श्रुत्वा ते प्रणम्य महीभुजे । ददुर्विषमशीलाय हृष्टा राजसुताद्वयम् ॥१९९॥ इति राजपुत्रीद्वयलाभः ॥७॥ N/A References : N/A Last Updated : October 25, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP