यक्षीसमागमकथा
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
इत्यहं तेन भूपालमौलिलीढाङ्घ्रिणा स्वयम् ।
रक्षिता वल्लभं प्राप्य परां निर्वृतिमागता ॥१३३॥
साहं कीर्तिपताकेव राज्ञस्तस्य यशोनिघेः ।
त्रैलोक्यचारिणी नित्यमस्मिन्यक्षपुरे स्थिता ॥१३४॥
सिंहलेन्द्रेण तनयां वितीर्णां शौर्यशालिनीम् ।
ज्ञात्वा विषमशीलाय सर्वे म्लेच्छशकाभिधाः ॥१३५॥
हर्तुमभ्युद्यताः पापा विधेयं तत्र यत्क्षम म् ।
इत्यस्मिन्भक्तिचिन्तैशा स च तान्निहनिष्यति ॥१३६॥
यक्षाङ्गनायामुक्त्वेति विगतायामदृश्यतामामम ।
तद्दिव्यकान्तायुगलं स च हेमकुरङ्गकः ॥१३७॥
तद्वृत्तान्तं मया पृष्टा सा यक्षी प्राह मां पुनः ।
पुरा घण्टनिघण्टाख्यौ दानवेन्द्रौ बभूवतुः ॥१३८॥
त्रैलोक्यकण्टकौ मत्वा दुर्जयौ तौ प्रजापतिः ।
असृजत्कान्तिसर्वस्वमिमे त्रिदशकन्यके ॥१३९॥
एतद्दर्शनसंजातगाढमन्मथपावकौ ।
ममैवेति ममैवेति भेदादिति गतौ क्षयम् ॥१४०॥
त्यक्तं वैश्रवणायैते कान्ते कमलयोनिना ।
उचिताय प्रदातव्ये विधायेत्यथ संविदम् ॥१४१॥
माणिभद्रगृहे न्यस्ते कुबेरेण ततः स्वयम् ।
पालयाम्यहभेवैते गुणैः को न वशीकृतः ॥१४२॥
एतयोर्विक्रमादित्यो देव एवोचितः पतिः ।
अयं च हेमहरिणो योग्यस्तस्यैव हर्षदः ॥१४३॥
नक्षत्रं मृगशीर्षं तु कर्षन्तं केलिकौतुकात् ।
दृष्ट्वा जयन्तं तनयं शक्रश्चिन्तापरोऽभवत् ॥१४४॥
स ध्यात्वा तद्विनोदाय काञ्चनं विश्वकर्मणा ।
अकारयन्मणिमृगं पीयूषावाप्तजीवितम् ॥१४५॥
सोऽयं पुरा दशास्येन विजित्य त्रिदशालयम् ।
सार्धमिन्द्रजिता नीतो लङ्कां रत्नाङ्कतोरणाम् ॥१४६॥
कालेन निहते तस्मिन्रणे रामेण रावणे ।
दत्तो बिभीषणेनायं मह्यमुत्सवसंगमे ॥।१४७॥
तमिमं रत्नसारङ्गं कन्ये चेने सुलोचने ।
विक्रमादित्यदेवाय नयेत्युक्त्वैव सा ददौ ॥१४८॥
ततस्तामहमामन्त्र्य प्राप्तो वैदर्भभूपतिम् ।
त्वच्छासनव्रतं वीरं सर्वं चास्मै न्यवेदयम् ॥१४९॥
इति यक्षीसमागमकथा ॥३॥
N/A
References : N/A
Last Updated : October 25, 2017
TOP