संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|बृहत्कथामञ्जरी|तृतीयो गुच्छः| शशाङ्कवतीलम्बको नाम तृतीयो गुच्छः कुसुमायुधाख्यायिका केसटाख्यायिका कलिङ्गसेनालाभवर्णनम् शशाङ्कवतीलम्बको नाम शशाङ्कवतीलम्बको नाम क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत शशाङ्कवतीलम्बको नाम Translation - भाषांतर इत्थं देवी प्रणयिना लब्ध्वा त्वं जगतीभुजा । तं पूर्वसाधितं प्राह स्वैरं विक्रमकेसरी ॥६३॥ ] कन्दर्पसेनतनयां गुप्तान्तःपुरसुन्दरीम् । सखे मृगाङ्कदत्ताय खेचर क्षिप्रमानय ॥६४॥ श्रुत्वेत्युवाच वेतालो महाकालाभिपालिते । देशे न प्रभवामोऽस्मिन्वयं तद्वरदुर्जये ॥६५॥ इति वादिनि वेताले तद्विसृष्टे तिरोहिते । मृगाङ्कदत्तः सचिवैः प्राप्तकालमचिन्तयत् ॥६६॥ स्वयं ततो महामात्यो गत्वा विन्ध्यनिवासिनः । दूरं दुर्गपिशाचस्य मातङ्गाधिपतेः पुरम् ॥६७॥ संगम्य मायाबटुना विधाय बलसंग्रहम् । ततः किरातमानाय्य सुहृदं शक्तिरक्षितम् ॥६८॥ दशयोजनविस्तारकटकं बन्धुबन्धुरः । पूर्वं ययाचे दूतेन सुतामुज्जयिनीपतिम् ॥६९॥ तं सामविमुखं ज्ञात्वा दृप्तं समरसंमुखम् । जेतुं राजसुथ सैन्यैः प्रतस्थे सागरोपमैः ॥७०॥ अवाप्यावन्तिविषयं विष्टभ्योज्जयिनीं ततः । मृगाङ्कदत्तः शुशुभे लङ्कामिव रघूद्वहः ॥७१॥ कोपात्कन्दर्पसेनेऽथ निर्गते युद्धदुर्मदे । ररास भूमिपालानां समरारम्भदुन्दुभिः ॥७२॥ करालकरवालोर्मिभीषणे रणसागरे । सावेगं शूरमकरा वाहिन्यां विविशुर्मिथः ॥७३॥ ततो वीरशिरःपद्मैराकीर्णाभूद्वसुंधरा । सरसीवास्तकल्लोला गजक्रीदानिपातिता ॥७४॥ स संप्रहारस्तुमुलो बभूव सुभटैः कृतः । लीलामहोत्सवो मृत्योरच्छिन्नो दिनपञ्चकम् ॥७५॥ ततः श्रुतधिरभ्येत्य गूढं वीक्ष्य रिपोः रिपोः पुरीम् । मृगाङ्कदत्तमवदन्नयोपायविचक्षणः ॥७६॥ अस्मिन्प्रवीरसंहारे जयो युद्धे ससंशयः । तस्माद्युक्तिमुपाश्रित्य यत्नः सिद्धौ विधीयताम् ॥७७॥ मया प्रच्छन्नवेषेण विचितेयं रिपोः पुरी । दृष्ट्वा च प्रमदोत्याने तां शशाङ्कवतीं स्वयम् । हृत्वा तामेव गच्छामस्तुरङ्गैः शीघ्रगामिभिः ॥७८॥ मृगाङ्कदत्तः श्रुत्वेति तथेति प्राह सादरः । धीमानेकः सहायोऽस्ति बहूनामुदयश्रिये ॥७९॥ अत्रान्तरे सखीवाक्यात्स्मररूपं नृपात्मजम् । श्रुत्वा तं राजतनया बभूव मदनातुरा ॥८०॥ सा मन्मथव्यथाक्रान्ता गत्वा गौरीवनं निजम् । निशि चन्द्रोदये चक्रे रमणाभिमुखं मनः ॥८१॥ स्वैरं मृगाङ्कदत्तोऽथ सचिवैः सह तां भुवम् । समेत्यालोकयामास सोत्कण्ठस्तां मृगीदृशम् ॥८२॥ वक्त्रौपम्येन शशिनः सौन्दर्येण मनोभुवः ।कान्त्या पुरसुधायाश्च सृजन्तीमिव जीवितम् ॥८३॥ कटाक्षशकलापातवशीकृतजगत्त्रयम् । आनाय्यासितचापस्य कामिन्येव जयश्रियम् ॥८४॥ बालां प्रवाललावण्यसोदरैरधरांशुभिः ।रागदीक्षामिव नवां दिशन्तीमनिशं दिशाम् ॥८५॥ तन्वीं स्तनस्तबकिनीमारक्तकरपल्लवाम् । श्यामां यौवनदर्पेण वसन्तेनेव भूषिताम् ॥८६॥ विलोकितैः कृष्णसारैः सभृङ्गैरिव केतकैः । सलीलरत्नहारैर्वा पूजयन्तीं दिगन्तरम् ॥८७॥ वहन्तीं त्रिवलीकूपे श्यामलां रोमवल्लरीम् । निजवक्रशशाङ्कस्य लक्ष्मरेखामिव च्युताम् ॥८८॥ रतिपर्यङ्कपट्टेन स्मरसिंहासनेन च । मदशैलनितम्बेन नितम्बेन विराजिताम् ॥८९॥ तामथ स्मरसंतापात्पाशं बद्धु समुद्यताम् । अदृश्या पार्वती प्राह पुत्रि मा साहसं कथाः ॥९०॥ आसन्न एव ते भर्ता धन्यः प्राग्जन्मवल्लभः । इति गौर्या कृताश्वासां राजपुत्रो जगाद ताम् ॥९१॥ अयि बाले कुरङ्गाक्षि मदनोद्यानचन्द्रिके । दृशा विकिर पीयूषं यातु चन्द्रो विलज्जताम् ॥९२॥ श्रुत्वेति लज्जिता तन्वी चरणेन लिलेख सा । महीं साचीकृतापाङ्गी वीक्ष्यमाणा नृपात्मजम् ॥९३॥ वशे तवैव मत्प्राणा वदन्तीमिव सुन्दरीम् । तां जहार ततः सोऽश्वैः संकल्पैरिव शीघ्रगैः ॥९४॥ मायाबटुपुरं प्राप्य सुहृद्भिः सहितोऽथ सः । पुलिन्दसुन्दरीवृन्दैर्हर्षादालोकितोऽविशत् ॥९५॥ कन्दर्पसेनस्तेनाथ विज्ञाय तनयां हृताम् । निष्कारणरणायासं वारयामास मन्दधीः ॥९६॥ ततः प्रतिनिवृत्तास्ते किरातेन्द्रमुखा नृपाः । मृगाङ्कदत्तमासाद्य न््दुर्जयशालिनः ॥९७॥ अथायोध्याधिनाथाय पित्रे भीमपराक्रम म् । स प्राहिणोत्कथयितुं निजवृत्तान्तमादरात् ॥९८॥ यदैव मन्त्रिवचसा तेन निर्वासितः पुरात् । ततस्तदैव सोऽज्ञासीन्मिथ्यादूषितमेव तम् ॥९९॥ स निगृह्य महामात्यं त्यक्त्वा राज्यसुखश्रियम् । नन्दिग्रामे स्थितिं चक्रे पुत्र संदर्शनाशया ॥१००॥ सोऽथ कालेन विज्ञाय सूनोः सुहृदमागतम् । पप्रच्छ हृष्टस्तद्वृत्तं सर्वं भीमपराक्रम म् ॥१०१॥ धीमानमरदत्तेन राज्ञा पृष्टो जगाद सः । मृगाङ्कदत्तचरितं संसारे विपुलाद्भुतम् ॥१०२॥ तदाकर्ण्य सहामात्यः स पुनः प्राप्य जीवितम् । राजा द्रष्टुं ययौ पुत्रं गजवाजिरथाकुलः ॥१०३॥ मायाबटुपुरं प्राप्य संप्राप्तविजयं सुतम् । शशाङ्कवत्या सहितं दृष्ट्वाश्चर्यमयोऽभवत् ॥१०४॥ मृगाङ्कदत्तो जनकं प्रणम्य सह राजभिः । स्थित्वा तत्रोत्सवव्यग्रः कंचित्कालं प्रियासखः ॥१०५॥ अयोध्यां प्रययौ हृष्टो विजयी सचिवैः सह । पुरा कपीन्द्रसहितः सीतां प्राप्येव राघवः ॥१०६॥ राजधानीं प्रविश्याथ पूजयन्निखिलान्नृपान् ।प्रणम्य मान्यान्विदुषो भेजे स विपुलोत्सवम् ॥१०७॥ तैरेकादशभिर्मित्रैः श्रुतधिप्रमुखैर्बभौ । दिवाकर इव श्रीमान्द्वादशात्मा नृपात्मजः ॥१०८॥ ततः कन्दर्पसेनेन विसृष्टस्तनयः स्वयम् । सुखेणाभ्याययौ कर्तुं स्वसुः परिणयोत्सवम् ॥१०९॥ सुवर्नरत्नशकटैर्गजेन्द्ररथवाजिभिः । स राजपुत्रो विदधे विपुलारम्भमुत्सवम् ॥११०॥ निर्वर्तितविवाहेऽस्य गौर्येव शशिशेखरः । शशाङ्कवत्या विहितो मृगाङ्कः पूर्णमङ्गलः ॥१११॥ ततो महोत्सवोत्साहसुभगां सोऽभजत्स्थितिम् । वल्लभानवसंभोगसंभावितमनोभवः ॥११२॥ तमामन्त्र्य प्रयातेषु पूजितेषु नृपेष्वथ । श्रीमानमरदत्तोऽपि संक्रामय्यात्मजे श्रियम् ॥११३॥ देव्या सह ययौ शंभोः प्रियां वाराणसीं पुरीम् । वैराग्यलक्ष्मेपर्यन्ते महतामेव जायते ॥११४॥ मृगाङ्कदत्तो निखिलां वीरो जित्वा वसुंधराम् । प्रियविलासरसिकः सार्वभौमोऽभवन्नृपः ॥११५॥ सा शशाङ्कवती श्यामा स्फुरत्तरलतारका । तस्य राजचकोरस्य बभूवानन्दनिर्भरा ॥११६॥ एवं मृगाङ्कदत्तेन प्राप्ता त्रैलोक्यसुन्दरी । त्वमपि प्राप्स्यसि क्षिप्रं रम्यां मदनमुञ्चुकाम् ॥११७॥ इति निशम्य पिशङ्गजटोदितां विपुलकौतुकहर्षमयीं कथाम् । प्रियतमापरिरम्भमनोरथे हृदि बबन्ध धृतिं नरवाहनः ॥११८॥ इति शशाङ्कवतीविवाहः ॥३१॥ इति श्रीक्षेमेन्द्रविरचितायां बृहत्कथायां शशाङ्कवतीलम्बको नाम नवमः समाप्तः । N/A References : N/A Last Updated : October 25, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP