संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|तृतीयो गुच्छः| कुसुमायुधाख्यायिका तृतीयो गुच्छः कुसुमायुधाख्यायिका केसटाख्यायिका कलिङ्गसेनालाभवर्णनम् शशाङ्कवतीलम्बको नाम कुसुमायुधाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत कुसुमायुधाख्यायिका Translation - भाषांतर ततो मुनीन्द्रमामन्त्र्य विलङ्घ्य विकटाटवीम् । बहूपवाससंतप्ताः प्राप्ता वयमिमां भुवम् ॥१॥ इहाप्यस्य तरोर्भुक्त्वा फलानि फलतां गताः । मुक्तास्त्वद्दर्शनात्सर्वे पश्यामस्त्वामनामयम् ॥२॥ व्याघ्रसेनेन कथितां कथां श्रुत्वेति विस्मितः । मृगाङ्कदत्तः प्रययौ नत्वा हेरम्बपादपम् ॥३॥ विन्ध्याटवीमतिक्रम्य श्रुतधिप्रमुखैः सह । विन्ध्यशैलं परित्यज्य तथा गन्धवतीं नदीम् ॥४॥ करवीरं समासाद्य भूतवेतालसंकुलम् । महाकालं प्रणम्याशु ददर्शोज्जयिनीम निशि ॥५॥ पूर्णेन्दुविहितालोकैस्तां पुरीं वीक्ष्य दुर्गमाम् । दुर्गयन्त्रायुधोपेतां सुभटैः परिपालिताम् ॥६॥ संकल्पैरप्यनाधृष्यामलङ्घ्यां मारुतैरपि । अचिन्तयत्स सचिवैस्तां शशाङ्कवतीं स्मरन् ॥७॥ राजा कन्दर्पसेनोऽयं रक्तामात्यो महाधनः । इयं पुरी च दुर्भेद्या नात्रोपायः प्रगल्भते ॥८॥ अयं मे विपुलः क्लेशः प्रायो निष्फलतां गतः । अधन्यैः प्राप्यते नाम सा शशाङ्कवती कथम् ॥९॥इति ध्यात्वा नृपसुतः स्मरशोकाकुलोऽभवत् । ततः सस्मार वेतालं तत्र विक्रमकेसरी ॥१०॥ [उपस्थितः स वै ध्यातः किं करोमीत्यभाषत । कथयामास च पुनः कथमाश्चर्यशालिनीम् ॥११॥ सखे मन्दर्पनामाहं विप्रो रत्नपु.................. । प्रावषेण्यधनश्यामे काले यातो महाटवीम् ॥१२॥ तत्राथ मतिचक्रेण केलिसङ्केतमानिना । स प्रासादं विलोक्यैव नीतोऽहं व्योमगामिना ॥१३॥ क्कचिद्द्विजालयोपान्ते मां विधाय गतास्तथा । देवीषु द्विजकन्यायास्तत्रोद्वाहमहोत्सवे ॥१४॥ लग्ने पूर्वाशके प्राप्ते वरे दैवाङ्गनागते । सह्यो विभूषणजुषे मह्यं कन्यां ददुर्द्विजाः ॥१५॥ अहं स मानसां नाम तामवापं मनोभुवः । हरनेत्राग्निदग्धस्य निर्बापणनदीमिव ॥१६॥ तया प्रणयशालिन्या यावत्प्राप्तोऽस्मि निर्वृतिम् । समेत्य मतिचक्रेण नीतस्तावद्विहायसा ॥१७॥ द्वितीये देवताचक्रे व्योमप्राप्तेऽथ तत्पुरः । संप्रवृत्ते च तद्युद्धे पतितोऽहं त्वदन्तिकात् ॥१८॥ न जाने चन्दवदना सा क्कस्ते का च भूरियम् ।अत्युक्त्वा बाष्पसंपूर्णलोचनस्तं मुहुर्मुहुः । समाश्वास्य ययौ प्रातस्तेनैव सहितः शनैः ॥१९॥ ततो दूरतरं गत्वा मीनान्ददृशतुर्जनैः । विनिकृतान्महाकायान्निर्गतान्तौ वराङ्गनाम् ॥२०॥ संत्रासविह्वलां बालां तां दृष्ट्वा हरिणेक्षणाम् । प्रत्यभिज्ञाय कन्दर्पः पप्रच्छाशु सुमानसाम् ॥२१॥ किमिदं चन्द्रवदने स्वप्नतुल्यं विचेष्टितम् । इति पृष्टावदद्बाला कन्दर्पं सा विलज्जिता ॥२२॥ अयि त्वयि हृते नाथ तदा तैः खेचरेर्गणैः । इयं विरहदुःखार्ता निमग्ना वाहिनीजले ॥२३॥ निगीर्णा तेन मत्स्येन ततः केनाद्य मोचिता । कथं वेत्ति न जानेऽहं प्रमाणमधुना भवान् ॥२४॥ इति श्रुत्वेव सोत्कण्ठां कण्ठे जग्राह तां प्रियाम् । कन्दर्प इव कन्दर्पो विललास रतिं.................. ॥२५॥ सुमानसायास्त्द्देशनिवासी मातुलो द्विजः । यक्षस्वामी निनायाशु हृष्टस्तां स्वगृहं ततः ॥२६॥ दयितासंगतं दृष्ट्वा कन्दर्पं तत्र केसटः । विश्वस्य तां रूपवतीं सस्मार विरहातुरः ॥२७॥ यज्ञस्वामी तमालोक्य वियोगं त्वङ्गतापितम् । उवाच मा कृथाः शोकमचिरात्प्राप्स्यसि प्रियाम् ॥२८॥ अभूच्चण्डपुरे विप्रः सोमस्वामीति विश्रुतम् । बभूव तनया तस्य दक्षा कमललोचना ॥२९॥ दृष्टिबद्धानुरागैव सा सौन्दर्यविशेषकम् ।कुसुमायुधनामानं द्विजपुत्रमचिन्तयत् ॥३०॥ सा तं सखीमुखेनाह मामद्यैव निशामुखे । तयान्यथाह तातेन वितीर्णा.............तद्वशा ॥३१॥ इत्यर्थितस्तया हृष्टो मित्रमश्वतयीसुतम् । स विसृज्य जहाराशु गूढां कमललोचनाम् ॥३२॥ अविनीताभिधानोऽथ नीत्वा तां स्तबकस्तनीम् । मित्रद्रोहोद्यतः प्राह तां मन्मथशराहताम् ॥।३३॥ भज मामनवद्याङ्गि विक्लीबं कुसुमायुधम् । मद्वाहुबलमाश्रित्य स सर्वत्र प्रगल्भते ॥३४॥ इति सा सहसैवोक्ता तेन.............. । प्रच्छाद्य प्राह कोदोषस्त्वं ममाभ्यधिकः प्रियः ॥३५॥ किंतूचितविधानेन त्वयोद्वाहमहं भजे । आनयोत्सवसामग्रीं त्वं विक्रीयाङ्गुलीयकम् ॥३६॥ इति श्रुत्वा गते तस्मिंस्ततः कमललोचना । विवेश त्रासात्स्वधिया मालाकारनिवेशनम् ॥३७॥ सोऽपि प्रतिनिवृत्तोऽथ तामदृष्ट्वा विषण्णधीः । कुसुमायुधमभ्येत्य सानायातेत्यभाषत ॥३८॥ ततो विरहसंतप्तो दुःखितः कुसुमायुधः । बभ्राम विपुलोच्छ्वासो विवशेनेव वक्षितः (?) ॥३९॥ ततः कदाचिदुद्याने मालाकारगृहान्तिके । तां कान्तां प्रत्यभिज्ञाय कृतोद्वाहो मुदं ययौ ॥४०॥ स तां रतिमिव प्राप्य प्रहृष्टः कुसुमायुधः । नवसंभोगसाम्राज्यं भेजे लीलावतीसखः ॥४१॥ इति कुसुमायुधाख्यायिका ॥२९॥ N/A References : N/A Last Updated : October 25, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP