सूर्यप्रभो
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
इति वीतभयाख्येन कथितां सुहृदा कथाम्
सूर्यप्रभो निशम्यैव प्रीतो निद्रां समाययौ ॥२३१॥
ततः प्रभाते संनद्धः स्नातः कृतजयोचितः ।
अवाप्य संग्रामभुवं दिव्यं व्यूहमकल्पयत् ॥२३२॥
अथ स्वयं शक्रमुखास्त्रिदशा दैत्यदानवैः ।
अयुध्यन्त सुसंरब्धाः श्रुतिशर्मजयैषिणः ॥२३३॥
ततो विनिहताः पेतुर्विद्याधरवरा भुवि ।
रत्नांशुभासुराकाराः क्षीणपुण्या इव ग्रहा ॥२३४॥
स्मयं सूर्यप्रभस्तत्र ध्यात्वा देवं पिनाकिनम् ।
व्यधात्पाशुपतं घोरं शस्त्रमस्त्रविदां वरः ॥२३५॥
तेन बद्ध्वा सहामात्यं श्रुति(त)शर्माणमाहवे ।
हरहुंकारविध्वस्तान्देवान्सूर्यप्रभोऽजयत् ॥२३६॥
ततः शिवाज्ञया सख्यं विधाय श्रुति(त)शर्मणा ।
स जयश्रियमासाद्य न््द सह दानवैः ॥२३७॥
प्रह्लादतनयां तत्र कामचूदामणिं ततः ।
परिणीयाभिषेकाय स प्रायादृषभाचलम् ॥२३८॥
साक्षाद्विलोक्य हेरम्बं प्रणतो विघ्ननायकम् ।
गौरीपतिं च सानन्दो लेभे निर्वृतिमुत्तमाम् ॥२३९॥
सुमेरुप्रमुखैस्तत्र विद्याधरधराधिपैः ।
शक्रादिभिः सुरवरैर्भयमुख्यैर्महासुरैः ॥२४०॥
मुनिभिः कश्यपमुखैरभिषिक्तो यथाविधि ।
सूर्यप्रभश्चक्रवर्तिश्रियं भेजे सुहृद्वृतः ॥२४१॥
कान्ताभिः सह सर्वाभिः संभोगसुरतोत्सवे ।
कृतकृत्यो रतिं प्राप साक्षादिव स मन्मथः ॥२४२॥
इति सूर्यप्रभेणाप्ता विद्याभिश्चक्रवर्तिता ।
त्वत्पुत्रोऽप्यधिकं देव लप्स्यते नरवाहनः ॥२४३॥
अवाप्तविद्यमचिराद्विजितारातिमण्डलम् ।
एवं पुनः समेष्यामीत्युक्त्वा सूर्यप्रभो ययौ ॥२४४॥
सूर्यप्रभस्येति निशम्य वृत्तं वत्सेश्वरो हर्षसुधाभिषिक्तः ।
एवीमुखाम्भोजनिविष्टदृष्टिः पस्पर्श पुत्रस्य करं करेण ॥२४५॥
इति क्षेमेन्द्रविरचिते बृहत्कथासारे सूर्यप्रभो नाम षष्ठो लम्बकः ॥
N/A
References : N/A
Last Updated : October 11, 2017
TOP