संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|सूर्यप्रभनामा षष्ठो लम्बकः| कालकजापकाख्यायिका सूर्यप्रभनामा षष्ठो लम्बकः कालकजापकाख्यायिका गुणशर्माख्यायिका सूर्यप्रभो कालकजापकाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत कालकजापकाख्यायिका Translation - भाषांतर प्रथमो गुच्छः । देवो भवः स भवतां भवताद्विभूत्यै यस्यावहन्त्यसितभूषणभोगिभोगः । नेत्रनलाकलितकालकलेवरोत्थ - पर्यत्सुधूमपटलीवलनाविनोदम् ॥१॥ ततः कदाचिद्वत्सेशे सर्वास्थानसभास्थिते । तप्तकाञ्चनसच्छायमदृश्यत नभस्थलम् ॥२॥ गगनादवतीर्णोऽथ स्रग्वी रुचिरकुण्डलः । द्वितीय इव मार्तन्डः सभां विद्याधरोऽविशत् ॥३॥ स नेत्रानन्दसंदोहशशाङ्को रुचिराम्बरः । पूजितो वत्सराजेन पृष्टः प्राहाश्रितासनः ॥४॥ राजन्नशेशभुवनोद्यानचन्द्रोदयश्रिया । त्वत्कीर्या मानसोल्लासः कस्य नाम न जायते ॥५॥ सर्वविद्याधरेन्द्राणां चक्रवर्ती तवात्मजः । भविता शंकरादिष्टस्तमहं द्रष्टुमागतः ॥६॥ अथ प्राप्तनिजौत्साहमेनं वन्दामहे वयम् । जनैरभ्यधिकानन्दैर्बालेन्दुरभिनम्यते ॥७॥ शिखरे वज्रकूटाख्ये तुषारधरिणीभृतः । राजा वज्रप्रभाख्योऽहं विद्याभिर्वज्रविग्रहः ॥८॥ विद्याधरश्रियं पूर्णां शासतः शिवसेविनः । स्वप्रभावात्प्रणमतो जाता कल्पत्रयी मम ॥९॥ त्वत्पुत्रोऽस्मत्प्रभुः कल्पं चक्रवर्ती भविष्यति । नरवाहनदत्तोऽसौ पुरा सूर्यप्रभो यथा ॥१०॥ इति श्रुत्वा प्रहृष्टेन सादरं वत्सभूभुजा । पृष्टः सूर्यप्रभकथां प्राह विद्याधराधिपः ॥११॥ देवीभ्यां सहितो देवः सुहृद्भिर्मन्त्रिभिस्तथा । श्रृणु प्राप्ता मनुष्येण यथा विद्याधरेन्द्रता ॥१२॥ मद्रेषु शाकलपुरे राजा चन्द्रप्रभोऽभवत् । इन्द्रस्थाने सुरस्त्रीभिर्गीयते यत्पराक्रमः ॥१३॥ सर्वभोगसमृद्धेन प्रोक्ष्याज्यं ज्वलिताग्निना । यज्ञेनाथर्वणोक्तेन यो रुद्रं समतोषयत् ॥१४॥ तस्य कान्तिमती नाम कान्तिकल्लोलिनी प्रिया । रुचिभ्रमभ्रमद्द्वीचिरभूत्सौभाग्यवारिधीः ॥१५॥ तस्य स्कन्द इएशस्य जयन्त इव वज्रिणः । सूर्यप्रभोऽभवत्सूनुः प्रतापाक्रान्तभूधरः ॥१६॥ बभूवुः सचिवास्तस्य समग्रगुणदर्पणाः । महार्थश्च प्रभावश्च भासः सिद्धार्थकस्तथा ॥१७॥ चन्द्रप्रभो ददौ तस्मै यौवराज्यं मुदान्वितः । स्वयमेवार्पिता धर्म्यैरन्वये श्रीर्विलोक्यते ॥१८॥ ततः कदाचित्स्थाने स पुत्रं तं नगरेश्वरम् । दानवाधिपतिः श्रीमान्मयः कार्यार्थमाययौ ॥१९॥ तमालश्यामलः शुभ्रदंष्ट्रांशुशबलच्छविः । बलाकावलयव्याप्तः प्रावृषेण्य इवाम्बुदः ॥२०॥ स्फुरत्कुण्डलकेयूरमौलिरत्नांशुसंचयः । नृत्यच्छिखण्ड्यवचयो नीलाद्रिरिव जङ्गमः ॥२१॥ स पूजितो नृपतिना भेजे स्फाटिकमासनम् । गजेन्द्र इव विस्फारं तुषारगिरिकन्दरम् ॥२२॥ नम्रेण भूभुजा पृष्टः प्राहागमनकारणम् । स्निग्धगम्भीरनिर्घोषो विवर्षिषुरिवाम्बुदः ॥२३॥ राजन्महेश्वरादिष्टः पुत्रं सूर्यप्रभं तव । प्राप्तः समस्तविद्यानां नेतुं भाजनतामहम् ॥२४॥ विजित्य श्रुतिशर्माणमेष विद्याधरेश्वरम् । विद्याभृतां चक्रवर्ती भविता शिवशासनात् ॥२५॥ पक्षे स्थिताः सुराः सर्वे सशक्राः श्रुतिशर्मणः । वयं च तव पुत्रस्य दानवाः पक्षमाश्रिताः ॥२६॥ इति तद्वचसा राजा हर्षपीयूषनिर्भरः । उवाच त्वत्प्रसादेन सर्वमेतद्भविष्यति ॥२७॥ धन्यः सुतो मे यस्य त्वं श्रेयसे स्वयमुद्यतः । त्वादृशां दर्शनेनापि भवन्तीप्सितसिद्धयः ॥२८॥ इति ब्रुवाणं भूपालं तमथामन्त्र्य तद्गिरा । सूर्यप्रहं स सुचिरं पातालमनयत्प्रभुः ॥२९॥ तत्र तस्मै ददौ विद्यां सानुगाय यथाविधिः । भूतासनं विमानं च स्वयमेव विनिर्मितम् ॥३०॥ प्राप्तविद्यो विमानेन तूर्णमेत्य रसातलात् । ववन्दे राजतनयो जननीं जनकं तथा ॥३१॥ इतस्ततो विमानेन विचरन्पितुराज्ञया । दिक्षु स्मराकृतिः प्राप्य स कन्याः स्वयमागताः ॥३२॥ गान्धर्वेण विवाहेन भेजे पूर्वं सुलोचनाम् । लावानकपतेः पुत्रीं पौरवस्य महीभृतः ॥३३॥ राज्ञो वीरभटाख्यस्य ताम्रलिप्तापतेः सुताम् । लेभे मदनसेनाख्यां मदनोद्यानमञ्जरीम् ॥३४॥ चीनकोट्टाधिनाथस्य सुरम्भाख्यस्य चात्मजाम् । संफूर्णचन्द्रवदनां विद्युन्मालामवाप्तवान् ॥३५॥ सुभटाख्यस्य तनयां कौङ्कणाधिपतेस्तथा । आससाद सुधासादिसौन्दर्यां चन्द्रिकावतीम् ॥३६॥ जनमेजयपुत्रीं च कौशाम्बीं हरिणेक्षणाम् । परपुष्टाभिधां प्राप जित्वा विघ्नार्थमुद्यताम् ॥३७॥ खेचरं हरिणा साक्षात्समरे परिपालितम् । दामोदराभिधं वीरं माषार्थपुरवासिनम् ॥३८॥ राज्ञो रम्भाभिधानस्य सुतां वज्रपुरप्रभोः । प्राप तारावलीं नाम श्यामां शीतांशुसुन्दरः ॥३९॥ तेषां महीभुजां गत्वा सानुगो गगनाग्रगः । पुराणि क्रमतो भेजे ताभिः परिणयोत्सवम् ॥४०॥ स ताभिः सह कान्ताभिः संनिवृत्तोत्सवोऽभितः । भेजे निजां पुरीं प्राप्य वाहिनीभिरिवाम्बुधिः ॥४१॥ ततः कदाचिदास्थानसभां पित्रा समाश्रिताम् । समेत्य पूजितः प्राह श्रीमान्मयमहासुरः ॥४२॥ राजपुत्र रिपुध्वंसे किमद्यापि विलम्बसे । प्रतापः कुण्ठतां सत्यं यात्यनुद्योगमन्थरः ॥४३॥ मानिनां सत्त्वमहतां वीराणां शौर्यवर्तिनाम् । उत्साहारम्भमात्रेण वर्धन्ते सर्वसंपदः ॥४४॥ इति तद्वचसा क्षिप्रं राजसूनुर्जयोन्मुखः । नृपेभ्यः प्राहिणोद्दूतं तूर्णमागम्यतामिति ॥४५॥ राज्ञासृष्टेषु दूतेषु सुहृत्संबन्धिबन्धुषु । सूर्यप्रभः सहामात्यो बभूव समरोत्सुकः ॥४६॥ अत्रान्तरे सुरमुनिः प्रभापिञ्जरिताम्बरः । तां सभां नारदोऽप्यायाद्विसृष्टः शतमन्युना ॥४७॥ स प्रविश्याप्तसत्कारः संप्राप्य कनकासनम् । शनैरुवाच राजानं दानवाधिपसंनिधौ ॥४८॥ अभिधत्ते सहस्राक्षः क्ष्मापते त्वां प्रमादिनम् । रुद्रयज्ञोद्धतः किं त्वं ममाप्यप्रियमीहसे ।४९॥ कुलक्रमागतो राजा श्रुतशर्मा महाबलः । विद्याधराणां तस्य त्वं प्रतिपक्षदशां श्रितः ॥५०॥ तस्य सर्वे वयं युद्धे विजयाशंसिनः स्वयम् । रुद्रयज्ञकृताश्वासः किं वृथा नृप माद्यसि ॥५१॥ एकयज्ञोद्धतो राजन्सहस्रशतयाजिभिः । स्पर्धां दधानस्त्रिदशैः कथमेको न लज्जसे ॥५२॥ बलवद्भिर्विरोधो हि हास्यायैव न सिद्धये । विफलो दुर्गतस्येव धनिकस्पर्धयोत्सवः ॥५३॥ नारदेनेति कथिते जातक्रोधे च भूपतौ । मयः प्राह स्फुरत्कोपकम्पव्याकुलकुण्डलः ॥५४॥ भगवन्न परिज्ञाय वीर्यसत्त्वबलाबलम् । संदिष्टं सुरराजेन रुद्रयज्ञावमानिना ॥५५॥ सहस्राक्षमुखा यस्य गीर्वाणाः पक्षमाश्रिताः । स खेचरश्रियं भुङ्क्ते श्रुतशर्मा किमद्भुतम् ॥५६॥ किं नु सूर्यप्रभजये स रुद्रः स्वयमुद्यतः । यदिच्छामात्रसंपत्तिर्जगतः प्रलयादयः ॥५७॥ शक्रः क्रतुशतावाप्तसत्त्वः सत्यं तदुच्यते । तत्र ब्रूमः क्रतुर्नाम बाह्यद्रविणडम्बरः ॥५८॥ किं यज्ञैर्विपुलायासैः किं व्रतैः कायशोषणैः । निर्व्याजसेवा सुभगा भक्तिर्येषां महेश्वरे ॥५९॥ पक्षपाते स्थिता यूयमस्मद्वैरिकुलेषु यत् । तन्न शङ्कास्पदं युष्मत्प्रभावो विदितो हि नः ॥६०॥ छलेन वञ्चितो यश्च बलिस्तत्कस्य मानसम् । प्रीणाति यच्च तेनैव ते वृत्रप्रमुखा हताः ॥६१॥ मयस्येति वचः श्रुत्वा समामन्त्र्य नृपं ययौ । भगवान्नारदो व्योम्ना चन्द्रराशिरिवोज्ज्वलः ॥६२॥ ततश्चन्द्रप्रभो राजा दूतैः संबन्धिनो नृपान् । आनिनाय मयेनोक्तः पुत्रस्य जयसिद्धये ॥६३॥ सुरम्भः पौरवो वीरः प्रभटो जनमेजयः । रम्भोदयश्च ते वीरास्ततस्तूर्णं समाययुः ॥६४॥ सूर्यप्रभं हरादिष्टः सानन्द नन्दिकेश्वरः । समेत्याह स्म दिव्यां त्वं स्वां श्रियं प्राप्स्यसीत्यथ ॥६५॥ इरावतीचन्द्रभागासंगमे व्रतदीक्षितम् । कृत्वा चन्द्रप्रभं हृष्टः सपुत्रमवदन्मयः ॥६६॥ भार्याः सूर्यप्रभस्यैता भूपते जनकैः सह । तिष्ठन्त्विहैव पातालं प्रविशामो वयं नृप ॥६७॥ इति दानवनाथेन निर्दिष्टो वसुधाधिपः । चन्द्रप्रभस्तथा कृत्वा सभार्यः ससुतोऽविशत् ॥६८॥ सूर्यप्रभे प्रविष्टेऽथ पित्रा सह रसातलम् । श्रुतशर्मा समभ्यायान्नभसा गुटिकाधरः ॥६९॥ स राजपुत्रदयितास्ता जहार बहिः स्थितः । मायया मोहयित्वशु तान्नृपान्युद्धसंमुखान् ॥७०॥ सुतावियोगशोकेन व्याकुला वसुधाधिपाः । ते भर्तुमुद्यतास्तत्र शुश्रुवुर्नभसो वचः ॥७१॥ रक्षिताः शंकरेणाप्ता राजपुत्रस्य वल्लभाः । श्रुतशर्मा न शक्तोऽसावेतन्मुखनिरीक्षणे ॥७२॥ दुःखं भजत मा यूयं जित्वा सूर्यप्रभा रिपून् । करिष्यत्येव कान्तानां बन्दिग्रहविमोक्षणम् ॥७३॥ इति व्योम्नि वचः श्रुत्वा राजानस्ते धृतिं श्रिताः । जहुः शोकं च मोहं च बबन्धुश्च जये मनः ॥७४॥ चन्द्रप्रभादयस्तेऽपि सानुगाः स्वप्रभोज्ज्वलम् । पातालगृहमासाद्य शुश्रुवुर्मयभाषितम् ॥७५॥ यूयं विपुलसन्त्वाद्यां पृथक्कर्मसहं वपुः । भजध्वं वज्रकठिनं तुल्यं दानवभूभुजाम् ॥७६॥ अत्र भावोऽसुसंदेहः स्मृत्याहं भावविभ्रमे । इयं देहपरवृत्तिश्चन्द्रावरणसंनिभा ॥७७॥ वासनानुगतो देही गृहाद्गृहमिवागतः । शरीरान्तरमासाद्य भुङ्क्ते कर्म शुभाशुभम् ॥७८॥ देहान्तरे स्वदेहे वा नायं नश्यति सर्वदा । धेनुस्वर्णादिदानानां फलभोगः कुतोऽन्यथा ॥७९॥ जपध्यानमयं योगं राजेन्द्र भज सांप्रतम् । भोगापव्र्गसंकल्पकल्पवृक्षो यतो जपः ॥८०॥ अत्रैव श्रूयतां राजन्पौराणीं जपिनः कथाम् । बभूव कालको नाम द्विजातिर्जपतत्परः ॥८१॥ वरं गृहाणेत्यवदत्तं कालेन प्रजापतिः । भूत्वा स निश्चलध्यानो जप इत्यवदच्च सः ॥८२॥ तस्यान्यवरवैमुख्यात्प्रवृद्धे जपिनः फले । भीताः शतक्रतुमुखास्तद्विघ्नं समचिन्तयन् ॥८३॥ तत्प्रभावाग्निसंतप्तैरपि देवैः पुरस्थितैः । पुनः पुनः प्रार्थ्यमानो नाग्रहात्प्रचचाल सः ॥८४॥ ततस्तदर्थितः प्रायात्तुहिनाचलकन्दरम् । भवन्तु मन्दसंतापास्त्रिदशा इति शीतलम् ॥८५॥ जपन्तं तत्र भूपालो ब्रह्मणा प्रेरितोऽथ तम् । उवाचेक्ष्वाकुरभ्येत्य गृहाण द्विज मद्वरम् ॥८६॥ भवान्ददातु वा मह्यमिति श्रुत्वा स जापिकः । मानी राजानमवदद्ददाम्येवास्मि तद्वरम् ॥८७॥ इति विप्रवचः श्रुत्वा सहसा क्षितिपोऽभ्यधात् । प्रयच्छ मे जपस्यार्धमित्युक्त्वानुशयं ययौ ॥८८॥ सहस्रांशुकुले जातः कथं नु पृथिवीपतिः । उत्तानपाणिर्निर्लज्जः सहे याचकतामिति ॥८९॥ ततो यदृच्छयायातौ विवादाकुलितौ द्विजौ । तत्रैव न्यायमिक्ष्वाकुनृपं पप्रच्छतुर्मिथः ॥९०॥ एकः पप्रच्छ नृपतिं गौरनेन समर्पिता । प्रतिप्रदत्तां गृह्णाति नायमित्युद्धताशयः । दत्तं नैव पुनर्ग्राह्यमित्यन्योऽप्यवदद्द्विजः ॥९१॥ अत्र न्यायं नृपः पृष्टो विचार्येक्ष्वाकुरब्रवीत् । दीयमानं न गृह्णीयात्स तु दुर्नयवानिति ॥९२॥ ततो देवा नृपं प्राहुस्त्वमप्येवंविधो नृप । दत्तं यो नैव गृह्णति जपस्यार्धं द्विजन्मनः ॥९३॥ परोपदेशे सर्वो हि सदा भवति पण्डितः । इति राजा सुरगिरा जपार्धं फलमग्रहीत् ॥९४॥ ततो दिव्यविमानेन प्रययौ शिवमच्युतम् । धाम भूमिपतिर्वन्द्यं सुरासुरनमस्कृतम् ॥९५॥ व्ययीकृतं च संपूर्य जपस्यार्धमथ द्विजः । स बभूव ततः क्षिप्रं तेजः परममाश्रितः ॥९६॥ इत्येवं जपयोगेन दुर्लभं प्राप्यते नृप । तस्माद्भवानपि क्षिप्रं जपतां जपमुत्तम म् ॥९७॥ इति कालकजापकाख्यायिका ॥१॥ N/A References : N/A Last Updated : October 11, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP