द्वितीय सर्ग - श्लोक ८१ ते ९३
श्रीविद्यारण्यस्वामिविरचितः
तज्ज्ञातिबन्धुसुहृदिष्टजन ङ्गनास्ता -
स्तं सूतिकागृहनिविष्टमथो निदध्युः ॥
सोपायनास्तमभिवीक्ष्य यथा निदाघे
चन्द्रं मुदं ययुरतीव सरोजवक्त्रम् ॥८१॥
तत्सूतिकागृहमवैक्षत नप्रदीपं
तत्तेजसा यदवभातमभूत्क्षपायाम् ॥
आश्चर्यमेतदजनिष्ट समस्तजन्तो -
स्तन्मन्दिरं वितिमिरं यदभूददीपम् ॥८२॥
यत्पशतां शिशुरसौ कुरुते शमग्य्रं
तेनाकृतास्य जनकः किल शंकराख्याम् ॥
यद्वा चिराय किल शंकरसंप्रसादा -
ज्जातस्ततो व्यधित शंकरनामधेयम् ॥८३॥
सर्वं विदन्सकलशक्तियुतोऽपि बालो
मानुश्यजातिमनुसृत्य चचार तद्वत् ॥
बालः शनैर्हसितुमारभत क्रमेण
स्रप्तुं शशाक गमनाय पदाम्बुजाभ्याम् ॥८४॥
बालेऽथ मञ्चे किल शायितेऽस्मि -
न्सतां प्रसनं हृदयं बभूव ॥
संवीक्षमाणे मनिगुच्छवर्यं
विद्वन्मुखं हन्त विनीलमासीत् ॥८५॥
संताडयन्हन्त शनैः पदाभ्यां
पर्यङ्कवर्यं कमनीयशय्यम् ॥
बिभेद सद्यः शतधा समूहा -
न्विभेदवादीन्द्रमनोरथानाम् ॥८६॥
द्वित्राणि वर्णानि वदत्यमुष्मि -
न्द्वैतिप्रवीरा दधुरेव मौनम् ॥
मुदा चलत्यङ्घ्रिसरोरुहाभ्यां
दिशः पलायन्त दशापि सद्यः ॥८७॥
उदचारयदर्भको गिरः
पदचारानतनोदनन्तरम् ॥
विकलोऽभवदादिमात्तयोः
पिकलोकश्चरमान्मरालकः ॥८८॥
नवविद्रुमपल्लवास्तृता -
मिव काश्मीरपरागपाटलाम् ॥
रचयन्नचलां पदत्विषा
स चचारेन्दुनिभः शनैः शनैः ॥८९॥
मूर्धनि हिमकरचिह्नं निटले नयनाङ्कमंसयोः शूळम् ।
वपुषि स्फटिकसवर्ण प्राज्ञास्तं मेनिरे शंभुम् ॥९०॥
राज्यश्रीरिव नयकोविदस्य राज्ञो
विद्येव व्यसनदवीयसो बुधस्य ॥
शुभ्रांशोश्छविरिव शारदस्य पित्रोः
संतोषैः सह ववृधे तदीयमूर्तिः ॥९१॥
नागेनोरसि चामरेण चरणे बालेन्दुना फालके
पाण्योश्चक्रगदाधनुर्डमरुकैर्मूर्ध्नि त्रिशूलेन च ॥
तत्तस्याधुतमाकलय्य ललितं लेखाक्रुते लाञ्छितं
चित्रं गात्रममंस्त तत्र जनता नेत्रैर्निमेषोज्झितैः ॥९२॥
सर्गे प्राथमिके प्रयाति विरतिं मार्गे स्थिते दौर्गते
स्वर्गे दुर्गमतामुपेयुषि भृशं दुर्गेऽपवर्गे सति ॥
वर्गे देहभृतां निसर्गमलिने जातोपसर्गेऽखिले
सर्गे विश्वसृजस्तदीयवपुषा भर्गोऽवतीर्नो भुवि ॥९३॥
इति श्रीमाधवीये तदवतारकथापरः ।
संक्षेपशंकरजये सर्गः पूर्णो द्वितीयकः ॥२॥
N/A
References : N/A
Last Updated : May 17, 2017
TOP