संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीमच्छंकरदिग्विजयः ।|अथ द्वितीयः सर्गः| श्लोक ६१ ते ८० अथ द्वितीयः सर्गः श्लोक १ ते २० श्लोक २१ ते ४० श्लोक ४१ ते ६० श्लोक ६१ ते ८० श्लोक ८१ ते ९३ द्वितीय सर्ग - श्लोक ६१ ते ८० श्रीविद्यारण्यस्वामिविरचितः Tags : booksanskritपुस्तकविद्यारण्यसंस्कृत श्लोक ६१ ते ८० Translation - भाषांतर तां दौहृदं भृशमबाधत दुःशरारिःप्रायः परं किल न मुञ्चति मुञ्चतेऽपि ॥आनीतदुर्लभमपोहति याचतेऽन्य - त्तच्चाप्यपोह्य पुनरर्दति साऽन्यवस्तु ॥६१॥तां बन्धुताऽऽगमदुपश्रुतदोहदार्ति - रादाय दुर्लभमनर्घ्यमपूर्ववस्तु ॥आस्वाद्य बन्धुजनदत्तमसौ जहर्षहा हन्त गर्भधरणं खलु दुःखहेतुः ॥६२॥मानुष्यधर्ममनुसृत्य मयेदमुक्तं काऽपि व्यथा शिवमहोभरणे न वध्वाः ॥सर्वव्यथाव्यतिकरं परिहर्तुकामा देवं भजन्त इति तत्त्वविदां प्रवाध ॥६३॥उक्ष्णा निसर्गधवलेन महीयसा सा स्वात्मानमैक्षत समूढमुपात्तनिद्रा ॥संगीयमानमपि गीतविशारदाढ्यै - र्विद्याधरप्रभृतिभिर्विनयोपयातैः ॥६४॥आकर्णयज्जय जयेति वरं दधानारक्षेति शब्दमवलोकय मा दृशेति ॥आकर्ण्य नोत्थितवती पुनरुक्तशब्दंसा विस्मिता किल शृणोति निरीक्षमाणा ॥६५॥नर्मोक्तिकृतामपि स्विद्यमानाकिंचापि चञ्चत्तरमञ्चरोहे ॥जित्वा मुदाऽन्यानतिहृद्यविद्या - सिंहासनेऽसौ स्थितिमीक्षते स्म ॥६६॥समाxxसात्त्विकवृत्तिभाजांविरागता वैषयिकप्रवृत्तौ ॥तस्याः स्त्रिया गर्भगपुत्रचित्र - चरित्रशंसिन्यजनिष्ट चेष्टा ॥६७॥तद्रोमवल्ली रुरुचे कुचाद्रया - वृण्वत्प्रभाधुन्युरुशैवलालिः ॥यत्नाछिशोरस्य कृते प्रशस्तोन्यस्तो विधात्रेव नवीनवेणुः ॥६८॥पयोधरद्वंद्वमिषादमुष्याःपयःपिबत्य्र्थविधानयोग्यौ ॥कुम्भौ नवीनामृतपूरितौ द्वा - वम्भोजयोनिः कलयांबभूब ॥६९॥द्वैतप्रवादं कुचकुम्भमध्येमध्ये पुनर्माध्यमिकं मतं च ॥सुभ्रूमणेर्गर्भग एव सोऽर्भोद्राग्गर्हयामास महात्मगर्ह्यम् ॥७०॥लग्ने शुभे शुभयुते सुषुवे कुमारं श्रीपार्वतीव सुखिनी शुभवीक्षिते च ॥जाया सती शिवगुरोर्निजतुङ्गसंस्थे सूर्ये कुजे रविसुते च गुरौ च केन्द्रे ॥७१॥दृष्ट्वा सुखं शिवगुरुं शिववारिराशौः मग्नोऽपि शक्तिमनुसृत्य जले न्यमाङ्क्षीत् ॥व्यश्रामयद्बहु धनं वसुधाश्च गाश्च जन्मोक्तकर्मविधये द्विजपुंगवेभ्यः ॥७२॥तस्मिन्दिने मृगकरीन्द्रतरक्षुसिंह - सर्पाखुमुख्यबहुजन्तुगणा द्विषुन्तः ॥वैरं विहाय सह चेरुरतीव हृष्टाः कण्डूमपाकृषत साधुतया निघृष्टाः ॥७३॥वृक्षा लताः कुसुमराशिफलान्यमुञ्च - न्नद्यः प्रसन्नसलिला निखिलास्तथैव ॥जाता मुहुर्जलधरोऽपि निजं विकारंभूभृद्गणादपि जलं सहसोत्पपात ॥७४॥अद्वैतवादिविपरीतमतावलम्बि - हस्ताग्रवर्तिवरपुस्तकमप्यकस्मात् ॥उच्चैः पपात जहसुः श्रुतिमस्तकानिश्रीव्यासचित्तकमलं विकची बभूव ॥७५॥सर्वाभिराशाभिलं प्रसेदे वातैरभाव्यद्भुतदिव्यगन्धैः ॥प्रजज्वलेऽपि ज्वलनैस्तदानीं प्रदक्षिणीभूतविचित्रकीलैः ॥७६॥सुमनोहरगन्धिनी सतांसुमनोवद्विमला शिवंकरी ॥ सुमनोनिकरप्रचोदिता सुमनोवृष्टिरभूत्तदाऽधुतम् ॥७७॥लोकत्रयी लोकदृशेव भास्वता महीधरेणेव मही सुमेरुणा ॥विद्या विनीत्येव सती सुतेन सारराजं तत्तादृशराजतेजसा ॥७८॥सत्कारपूर्वमभियुक्तमुहूर्तवेदि - विप्राः शशंसुरभिवीक्ष्य सुतस्य जन्म ॥सर्वज्ञ एव भविता रचयिष्यते च शास्त्रं स्वतन्त्रमथ वागधिपांश्च जेता ॥७९॥कीर्तिं स्वकां भुवि विधास्यति यावदेषा किं बोधितेन बहुना शिशुरेष पूर्णः ॥ नापृच्छि जीवितमनेन च तैर्न चोक्तंप्रायो विदन्नपि न वक्त्यशुभं शुभज्ञः ॥८०॥ N/A References : N/A Last Updated : May 17, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP