संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|श्रीसूक्तविधानम्| श्रीसूक्तयंत्रप्रकारः श्रीसूक्तविधानम् विषयानुक्रमणिका प्रारंभ ऋषिदैवतच्छंदोविचारः अथ न्यासविचारः मानसपूजा श्रीसूक्तानुष्ठानोपयुक्तन्यासप्रकाराः अथ श्रीसूक्तपुरश्चरणविचारः पुरश्चरणस्य द्वैविध्यम् देशकालविचारः पुरश्चरणात्प्राक् कर्तव्यम् मालाविचारः सामान्यजपनियमाः अथ पूजाविधिः ( साधारणः ) पुरश्चरणात्प्राक् कर्तव्यविचारः अथ पुरश्चरणानुष्ठानप्रयोगः जपविधिः अथ होमः श्रीसूक्तस्य ऋक्पूरश्चरणानुष्ठानप्रयोगः सबीजं श्रीसूक्तविधानम् श्रीसूक्तयंत्रप्रकारः विविधानुष्ठानप्रकारः श्रीसूक्तयंत्रप्रकारः श्रीसूक्तविधानम् Tags : sanskritsooktaसंस्कृतसूक्त श्रीसूक्तयंत्रप्रकारः Translation - भाषांतर श्रीसूक्तविधानस्य लिखितमुद्रितेषु बहुषु श्रीसूक्तय्म्त्रं बहुविधं दृश्यते, तत्र हि प्रायः बहुभिर्ग्रंथकारैरादृतो यंत्रप्रकारो मया लिख्यते - तंत्रांतरे - प्रपंचसारे च - अथ यंत्रं प्रवक्ष्यामि सर्वाभीष्टफलप्रदम् । षट्कोणं वसुपत्रं च ततः षोडशपत्रकम् ॥ द्वात्रिंशद्दलपद्मं च तद्बहिश्च चतुर्दलम् । श्रींबीजं मण्डलाक्रान्तं शतं पंचाशदुत्तरैः ॥ सर्वमांगल्यसंयुक्ता साम्राज्यश्रीस्तु मंदिरे । पुंसो वृद्धिमती नित्यं सुस्थिरा वसति ध्रुवम् ॥ कर्णिकायां लिखेद्बीजं श्रींबीजं सुमनोहरम् । षट्कोणेषु षडंगानि व्युत्क्रमेण लिखेत् सुधीः ॥ततः षट्कोणांतरालप्रदेशेषु दलसंधिषु च वक्ष्यमाणानि कनकाभरणादीनि नामानि चतुर्थ्यंतानि प्रणवपूर्वकानि देव्याः प्राचीमारभ्य प्रादक्षिण्येन लिखेत् - तानि यथा - कनकाभरणा पूर्वं तथा मंगलरूपिका । सर्वरत्नमंडना च सर्वलोकप्रहर्षिणी ॥१॥ततः परा समुद्दिष्टा मुक्ताजालविभूषणा । अंतरालेषु संलेख्या चतुर्थ्यंताश्च संधिगाः ॥२॥श्रीलक्ष्मीर्वरदा चैव विष्णुपत्नी ततः स्मृता । नवकोटिप्रभेदा च सुप्रजा समुदीरिता ॥३॥हिरण्यवर्णाथ स्वर्णमालती चाष्टमी मता । अष्टपत्रेषु संलेख्या ततः संधिदले लिखेत् ॥४॥रत्नमाला समालेख्या ततश्चैव समालिखेत् । स्वर्णगृहा तथा स्वर्णप्राकारा पद्मवासिनी ॥५॥पद्मरागा पद्मप्रिया तथैश्वर्यविवर्धिनी । भुक्तिमुक्तिप्रदा चैव ततः षोढशपत्रके ॥६॥सन्मुक्तिदा विभूतिदा ऋद्धिदा च समृद्धिदा । तुष्टिदा पुष्टिदा चैव धनदा च धनेश्वरी ॥७॥श्रद्धा च भोगिनी चैव भोगदा धात्रिरेव च । विधात्री सिंधुजा ( सिद्धिदा ) चैव वरेण्या च ततः परं ॥८॥महालक्ष्मीर्दलेष्वेवं षोडशेषु लिखेदिमाः । ततः संधिदले लेख्यं शक्तीनां च कदंबकम् । कल्याणवर्धिनी चैव खगराजसुखेविता ॥९॥गणेशपूजिता चैव तथा घनरसप्लुता । स्कंदस्तुता ( कंजस्तुता ) चंद्रप्रभा तथा च च्छत्रमंडना ( मंडला ) ॥१०॥जयवर्धना झणरवा ( कल्याणरवा ) ज्ञानविज्ञानवर्धना । तिलकविभूषणा चैव ठकारवेष्टना ततः ॥११॥डिंडिमनादप्रिया च ठकारबीजपरा तथा । विद्युद्विलसिता ( विलसिनी ) चैव ततस्तोषविवर्धिनी ॥१२॥द्वात्रिंशद्दलमध्येषु तथैव विलिखेदिमाः । स्थूलसंशोभिता चैव देवराजसुसेविता ॥१३॥धनप्रदाथ नयनानंददा पद्मसंभवा । स्फुरद्रूपा बोधप्रदा भयहारिण्यतः परम् ॥१४॥मानसाह्लाददा चैव ततो यजनतुष्टका । रत्नसंशोभितालेखनाथसंसेविता ततः ॥१५॥वराहरूपा च शशि ( शिखा ) वासिनी परिकीर्तिता । षट्रपत्रसंस्थिता सर्वोत्साहवर्धनिका ततः ॥१६॥सर्वाढ्यानंदवर्धना साम्राज्यसत्प्रदा ततः । सर्वसंपत्तिदा चैव तथा सर्वप्रकाशिका ( सर्वप्रकाशरूपा च प्रोक्ता कनकरत्नभा ) ॥१७॥सर्वसन्मोलभूता च सर्वशक्तिस्वरूपिका । अणिमा महिमा चैव गरिमा लघिमा तथा ॥१८॥प्राप्तिः प्रकाम्य ईशित्वा वशित्वा च ततः परम् । श्रीसूक्तस्य ऋचा चार्धं ततः संधिदले लिखेत् ॥१९॥पुनराद्यऋचा चैव दलद्वये च संलिखेत् । ततस्चतुर्दले लेख्या दिशाश्चाशःटगजाः क्रमात् ॥२०॥ऐरावतः पुंडरीको वामनः कुमुदोञ्जनः । पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥२१॥तत्संनिधौ समालेख्य निधीनां द्वितयं क्रमात् । महापद्मश्च पद्मश्च शंखो मकरकच्छपौ ॥२२॥मुकुंदकुंदनीलाश्च खर्वश्च निधयो नव । ताराद्या निधिशब्दान्ता चतुर्थ्यंता नमोंतकाः ॥२३॥रमाबीजं सर्वबाह्ये शतैः पंचाशदुत्तरैः । लोकपालाश्च संलेख्या प्रादक्षिण्येन भूगृहे ॥२४॥द्वारदेशाद्बहिस्तेषामायुधानि प्रपूजयेत् । एतद्यंत्रं स्फुटं विद्धि श्रीसूक्तस्य विधानके ॥२५॥धार्यं पूज्यं प्रयत्नेन भूगृहस्य च मध्यगं । कृत्वा यत्नेन तत्र श्रीर्वसते सिद्धिसंयुता ॥२६॥सप्रत्ययं मया प्रोक्तं विशेषान्नृपमंदिरे । सुस्थिरा क्षोभनिर्मुक्ता सर्वमांगल्यवर्हिका ॥॒७॥सर्वसंपत्प्रदायुक्ता बाधापीडाविवर्जिता । रागद्वेषोऽथ कलहो वैरं चापि न तत्र हि ॥२८॥तद्गृहेनापि चोराग्निसर्पभूतादिजं भयम् । धनधान्यसमृद्धं च पुत्रपौत्रादिसंयुतं ॥२९॥नंदते तद्गृहं रम्यं यत्रैतत्तिष्ठति ध्रुवम् । किमत्र बहुधा चैव जल्पितेन पुनः पुनः ॥३०॥यद्यदिष्टतमं चित्ते तत्तद्भवति निश्चितम् । श्रीकामेन सदा पुंसा धार्यं पूज्यं सुखाप्तये ॥३१॥ N/A References : N/A Last Updated : April 01, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP