श्रीसूक्तविधानम् - पुरश्चरणात्प्राक् कर्तव्यम्
श्रीसूक्तविधानम्
अथ पुरश्चरणारंभात्प्राक् कर्तव्यामाह - विश्वामित्रकल्पे ‘ नृसिंहार्कवराहाणां वैदिकं तांत्रिकं तथा । विना जप्त्वा तु गायत्रीं तत्सर्वं निष्फलं भवेत् ॥ यस्यकस्यापि मंत्रस्य पुरश्चरणमारभेत् । पंचप्रणवसंयुक्तां गायत्रीं चायुतं जपेत् ॥ मंत्रं संशोध्य यत्नेन पुरश्चरणतत्परः । स्त्रीशूद्रपतितानां च मंत्रं श्रुत्वा यथाविधि ॥ अतः कारणाद्विप्रेन्द्र मंत्रशोधनमुत्तमम् । दशप्रणवसंयुक्तां गायत्रीं चायुतं जपेत् ॥ ’ इति । मंत्रशोधनात्पूर्वमात्मशोधनमवश्यं कार्यम् । आत्मशोधनं नाम आत्मनः शुद्धिः शरीरशुद्धिरिति यावत् । तदुक्तं ग्रंथान्तरे ‘ आत्मशुद्धिं विना कर्तुं जपहोमादिकाः क्रियाः । निष्फलास्तास्तु विज्ञेया कारणं श्रुतिचोदितम् ॥ तपसा शोषयेद्देहं पितॄन् देवांश्च तर्पयेत् तपसा स्वर्गमाप्नोति तपसा विंदते महत् ॥ अतः कारणात् विप्रेन्द्र तपः कुर्यात्प्रयत्नतः । शोधयेद्विधिवद्देहं कृच्छ्रचांद्रायणादिभिः ॥ एकेन ( कृच्छ्रेण ) शुद्धिमाप्नोति द्वाभ्यां पापैः प्रमुच्यते । त्रिभिर्मंत्राश्च सिद्ध्यंति मुच्यते चोपपातकैः ॥ ’ दशप्रणवसंयुक्तां शताक्षरां सहस्राक्षरां वा गायत्रीं जपेत् । अन्यच्च - ‘ केशश्मश्रुलोमनखान्वापयित्वा प्लुतः शुचिः । तिशःठेदहनि रात्रौ तु शुचिरासीत वाग्यतः ॥ सत्यवादी पवित्राणि जपेद्व्याहृतयस्तथा । ओंकाराद्यास्तु ता जप्त्वा सावित्रीं तदितित्तृचम् । आपोहिष्ठेति सूक्तं तु शुद्धवत्योऽघमर्षणम् । शंवत्यः स्वस्तिमत्यश्च पावमान्यस्तथैव च । सर्वत्रैतत्प्रयोक्तव्यं आदावंते च कर्मणाम् । आसहस्रादाशताद्वा द्वादशादथ वा जपेत् । ओंकारव्याहृतीस्तिस्रः सावित्रीमथवायुताम् । तर्पयित्वाद्भिराचार्यान् ऋषीञ् छंदांसि देवताः । ’ इति । एवं यथाविधि यथाशक्ति आत्मशुद्धिं विधाय यस्यकस्यापि मंत्रस्य पुरश्चरणं कुर्यात् । तांत्रिकमंत्रे तु एतादृशो विधिरवश्यं विधेयः । वैदिकमंत्रे षडब्दशोधनादि नावश्यकं, कृते तु फलविशेषः । इति विश्वामित्रकल्प उक्तम् । पुरश्चरणाद्यनुष्ठानारंभात्प्राक् सहस्रायुतादिगायत्रीजपं शरीरशुद्ध्यर्थं कृच्छ्रादिप्रायश्चित्तं च यथासंभवं विधाय आपोहिष्ठेत्यादि शुद्धिमंत्रैः पावमानीभिश्चात्मानं पावयित्वा उक्तकाले शुभदिने ब्राह्मणैरभ्यनुज्ञातः पुरश्चरणारंभं महारुद्रस्वाहाकाराद्यनुष्ठानादेः प्रारंभ च कुर्यात् ॥ इति ।
पंचप्रवनगायत्रीलक्षणम् ।
तदुक्तं विश्वामित्रकल्पे - ‘ ओंकारपूर्वमुच्चार्य भूर्भुवः स्वस्तथव च । गायत्रीं प्रणवांतां च मध्ये त्रिः प्रणवां तथा ॥ इति । ’ तथा हि - पुरश्चरणाद्यनुष्ठानारंभदिनात्प्राक् शुभदिने तत्कर्माधिकारार्थं - आचमनादिदेशकालौ स्मृत्वा ‘ मम इह जन्मनि जन्मांतरे वाड्मनःकायकृतानां महापातकोपपातकानां रहसि वा कृतानां सकृदसकृदभ्यासविषयाणां ज्ञानाज्ञानमूलानां सर्वेषां पातकानां निरासार्थं सर्वप्रायश्चित्तार्थं करिष्यमाणेऽमुकानुष्ठानेऽधिकारार्थं च यथाकालं पंचप्रणवसंयुक्तगायत्र्या अयुतसंख्याकं जपमहं करिष्ये ’ इति संकल्प्य तत्र संकल्पितसंख्यापूर्तौ अद्य ( शक्त्यनुसारं ) अमुकसंख्याकं गायत्रीजपं करिष्ये, तत्रादौ नि. गणपतिस्मरणं कृत्वा गायत्र्या षडङ्गन्यासं विधाय ‘ मुक्ताविद्रुमेति ’ देवीं ध्यात्वा जपेत् । ( ॐ तत्सवितुर्हृदयाय नमः इत्यादि षडंगः ) यथा - ॐ भूर्भुवःस्वः ॐ तत्सवितुर्वरेण्यं ॐ भर्गो देवस्य धीमहि ॐ धियो यो नः प्रचोदयात् ॐ इति पंचप्रणवागायत्रीलक्षणम् ।
अथ दशप्रणवाया लक्षणम् - सव्याहृतिकां सप्रणवां गायत्रीं शिरसा सह इति । यथा - ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् । ॐ तत्सवितु० प्रचोदयात् ॐ आपोज्योती० ब्रह्मभूर्भुवःस्वरोम् इति ॥ शताक्षरायाः स्वरूपमुच्यते - ॐतत्सवितुरिति संपूर्णा गायत्री, जातवेदसे इति ऋचा, त्र्यंबकं यजामह इत्यनया च ऋचा सहितो गायत्रीमंत्रः शताक्षरो वा गायत्रीं आत्मशोधनार्थं मंत्रशोधनार्थं च जप्त्वा शुभदिने संकल्पितानुष्ठानारंभं कुर्यात् । प्रकृते तु श्रीसूक्तानुष्ठानारंभः कार्यः ।
यद्यपि पुरश्चरणविधौ तंत्रशास्त्रे भूमिशोधनकूर्मावलोकनादयो बहवः पदार्था निरूपितास्तथापि ते तांत्रिकमंत्रानुष्ठान एव विशेषेणापेक्षिताः न वैदिकमंत्रानुष्ठाने इति विश्वामित्रकल्पे, अत एवात्र श्रीसूक्तस्य वैदिकत्वात् भूमिशोधनादिकं नावश्यकमिति कृत्वा नोच्यते ।
N/A
References : N/A
Last Updated : March 29, 2017
TOP