श्रीसूक्तविधानम् - अथ न्यासविचारः
श्रीसूक्तविधानम्
‘ देवो भूत्वा यजेद्देवं नादेवो देवमर्चयेत् । न्यासेन तु भवेत्सोऽपि स्वयमेव दनार्दनः । ’ इति तथा तंत्रान्तरे - ‘ ततो मूलस्य ऋष्यादिन्यासं कुर्याद्यथाविधि । मूलविद्यामविन्यस्य स्वांगे साधकपुंगवः ॥ न फलं प्राप्नुयात्सम्यक् कृतस्यापि तु कर्मणः । ऋष्यादिराद्यस्तत्र स्याद्बीजादिस्तु द्वितीयकः ॥ करन्यासस्तृतीयः स्यादंगन्यासश्चतुर्थकः । एवं चतुर्विधो न्यासः सर्वमंत्रेषु वै भवेत् ॥ ’ न्यासहेतुराह तत्रैव - ‘ करस्तु न्यासयोगेन मंत्रात्मत्वाद्विशुद्ध्यति । ततः पूजाजपादौ तु विनियुक्तः फलप्रदः ॥ अंगण्यासमृते विघ्नभूतैर्भूयोऽभिभूयते । तस्मादंगन्यासयोगाद्रक्षणं सर्वतो भवेत् ॥ ’ इति ॥
तत्र न्यासो नाम - ‘ तत्तन्मंत्रस्थं वर्णं पदं पादादि वा यथोपदिष्टमुच्चार्य तत्तदंगावयवेषु अंगुल्यादिना विहितमुद्रया स्पर्शः । ’
तत्रादौ ऋष्यादिन्यासः - तन्नासे शिरःप्रभृतिस्थानान्युक्तानि तंत्रान्तरे - ‘ ऋषिर्गुरुत्वाच्छिरसि ध्येयत्वाद्देवता हृदि । छंदोक्षरत्वाद्वदने न्यस्तव्यं मंत्रवित्तमैः । छंदःस्थानं मुखं योग्यं देवता हृदि संस्थिता ॥ बीजवर्णात्मना दृष्टाः पूर्वं मंत्रा महर्षिभिः ॥ तस्मात्तन्मंत्रबीजं वै मंत्रकारणभावतः ॥ मंत्रः सामर्थ्यरूपेण फलदाने सशक्तिकः । बीजस्थानं गुह्यमिति तत्र बीजं प्रविन्यसेत् ॥शक्तिस्तु गमने दृष्टा तेन शक्तिस्तु पादयोः । नाभौ प्राणः कीलितो वै तस्मात्तत्र तु कीलकम् ॥ ’ इति । न्यासकाले ऋष्यादिपदं चतुर्थ्यंतं नमोन्तं उच्चार्य तत्तत्स्थानेषु न्यसेत् । तथा न्यासे शिरोमुखादिस्थानवाचकानां पदानां सप्तम्यंतत्वेन उच्चारः कार्य इत्येके, नेत्यन्ये । तदेवं - ऋषिभ्यो नमः शिरसि इत्यादि । अत्र मुद्राप्रकार इत्थम् - मध्यमा तर्जनी अंगुष्ठश्चेति च । अग्रतः संहतं कृत्वा शिरोदेशे स्पृशेत् छंदोभ्यो नमः मुखे इत्युक्त्वा अनामिकांगुष्ठकनिष्ठाग्रत्रयसंहननेन मुखस्पर्शः । देवताभ्यो नमो हृदि इत्युक्त्वा पंचांगुव्यग्रसंगमनकरतलेन हृदि स्पर्शः । बीजेभ्यो नमो गुह्ये इत्युक्त्वा गुह्यस्पर्शः । शक्तिभ्यो नमः पादयोः इत्युक्त्वा व्यत्यस्तहस्ताभ्यां पादयोः स्पर्श इति । अनुक्तन्यासमुद्राविधाने ‘ अंगुष्ठानामिकाभ्यां तु न्यासः सर्वत्र संमतः ’ ( न्या. वि. चंद्रिका ) । कचिच्छक्तिबीजानि स्तनयोर्न्यसेत् तत्र शक्तीनां दक्षिनस्तने बीजानां वामस्तने न्यास इत्युक्तम् । क्कचित् कीलकविनियोगयोर्न्यासः मुद्रा चोक्ता । तद्यथा - अंजलिं प्रसार्य शीर्षादिपादान्तं तेन अंजलिना स्पर्श इति कीलकमुद्रा । ‘ विनियोगस्य मुद्रा स्यात् हृदये त्वंजलिक्रिया ’ इति ऋष्यादिन्यासः ।
अथ करन्यासः - तत्तन्मंत्रपदं मंत्रवर्णं वा उच्चार्य हस्तयोः अंगुष्ठाद्यंगुलिषु उक्तविधया स्पर्शः करन्यास इति ।
अत्र मुद्राप्रकारः - ‘ तर्जनीपृष्ठसंस्पर्शोंऽगुष्ठेनांगुष्ठमुद्रिका । तर्जन्यादिपुरोभागेष्वामूलाग्रं स्पृशिक्रिया ॥ अंगुष्ठाग्रेण विज्ञेयास्तर्जन्यादिचतुष्टये । करयोस्तलपृष्ठाभ्यां व्यत्यासेन परस्परम् ॥ संस्पर्शाद्भवतो मुद्रे करयोस्तलपृष्ठयोः ॥ ’ इति च ।
अथ हृदयादिषडंगः - अंगन्यासे तु हृदयादिषडंगः, पंचांगः, पंचदशांगः, षोडशांगन्यासश्चेति प्रकारा उक्ता ग्रंथांतरे । हृदयादिषडंगे - हृदयं, शिरः , शिखा, कवचं, नेत्रम्, अस्त्रमिति । ‘ पंचांगे नेत्रसंत्याग ’ इति वचनात् हृदयं, शिरः, शिखा, कवचम्, अस्त्रं चेति पंचांगानि । पंचदशांगानि तु श्रीसूक्तन्यासे वक्ष्यंते । षोडशांगानि पुरुषसूक्तन्यासादौ प्रसिद्धानि । सविधानब्रह्मणस्पतिसूक्तग्रंथेऽस्माभिरुक्तानि । बहुविधेऽपि न्यासप्रकारे सांप्रतं प्रायः बहवोऽगुष्ठादि षडंगं च हृदयादिषडंगं मुख्यत्वात् कुर्वन्ति । ‘ हृदयादिषडंगे च प्रोच्यंते जातयोऽथ षट् । हृदयाय नमश्चेति शिरसे स्वाहया युतम् । शिखायै वषडंतं च कवचाय च हुमिति । नेत्रत्रयाय वौषट् स्यात् अस्त्रायफडितीरितम् ॥ ’ तथा स्पर्शमुद्राप्रकारः - हृद्यंगुलित्रयं न्यस्येत्तर्जनादिद्वयं तु के । शिखाप्रदेशं स्पर्शः । तर्जनीमध्यमाभ्यां त्रिः वामकरतलसंताडनेन अस्त्रमिति सौभाग्यकल्पद्रुमे । ‘ अंगुष्ठतर्जनीशब्दो मुद्रा स्वाच्छोटिकाह्वया ’ - इति छोतिकामुद्रया दिग्बंधं कारयेत् ।
एवं सामान्यतः सर्वकर्मसु विहितस्य करादिषडंगन्यासस्य प्रकार उक्तः ।
N/A
References : N/A
Last Updated : March 29, 2017
TOP