संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|अरण्यकांडम्| काव्य २५१ ते ३०० अरण्यकांडम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ३९० अरण्यकांडम् - काव्य २५१ ते ३०० अरण्यकाण्डम् या प्रकरणातील श्लोकातील तीसरे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य २५१ ते ३०० Translation - भाषांतर एवं ज नककन्यायां ब्रुवयां स महाबलः प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः. ॥२५१॥‘ लोका य स्मादिभे त्रस्ताः सदेवासुरमानुषाः अहं स रावणो नाम सीते ! रक्षोगणेश्वरः. ॥२५२॥रुचि रा क्षीं सुवर्णां त्वां श्रुत्वा दृष्ट्वातिसुंदरीम्, रुचिं स्वकेषु दारेषु नाधिगच्छाम्यनिंदिते ! ॥२५३॥ उत्त म स्त्रीसहस्राणामाहृतानामितस्ततः सर्वासामेव, भद्रं ते, ममाग्रमहिषी भव. ॥२५४॥ लंका ज लधिना सीते परिक्षिप्ता पुरी मम,तस्यामुपवने साकं मया त्वं विचरिष्यसि. ॥२५५॥भार्या य दि त्वं भवसि मम सद्रत्नभूषिताः दास्यः परिचरिष्यंति त्वां पंचाशच्छतान्ययि. ’ ॥२५६॥तं सा ज नकजोवाच, ‘ शार्दूलात्वोर्यदंतरम्यत्तार्क्ष्यकाकयो राज्ञस्तस्य ते च तदंतरम्. ॥२५७॥रक्षो य दंतरं लोके स्पष्टं सिंहसृगालयोःतदंतरं राघवस्य तव च क्षुद्र ! किं त्वया ? ॥२५८॥स्थिते रा जीवनयने रामे नाथे धनुर्धरे हृताप्यहं त्वया पाप ! गमिष्ये नैव ते वशम्. ’ ॥२५९॥इति म न्युमती सीता तमुक्त्वा रजनीचरम् वेपमाना बभौ तन्वी प्रवाते कद्दलीव सा. ॥२६०॥दृष्ट्वा श्री जानकीं भीत्या वेपमानां दशाननः स्वरूपं कालरूपाभं भेजे भृशभयंकरम्. ॥२६१॥ दिक्शि रा विंशतिभुजो नीलजीमोतसन्निभः रक्तांबरधरः प्रेक्ष्य मैथिलीं रावणोऽब्रवीत्. ॥२६२॥ ‘ सीते ! म नोरथस्ते चेत्त्रिषु लोकेषु विश्रुतम् मामाश्रय वरारोहे ! तवाहं सदृशः पतिः. ॥२६३॥ आत्म ज स्तेन राज्ञा स स्वपदे स्थापितः प्रियः मंदवीर्यस्ततो ज्येष्ठः सुतः प्रस्थापितो वनम्. ॥२६४॥तेना य ताक्षि ! किं राज्यच्युतेन गतचेतसा करिष्यसि वरारोहे ! तापसेन वितेजसा ? ॥२६५॥निःस्वे रा मे पितृत्यक्ते तपस्विनि मितायुषि कैर्गुणैरनुरक्तासि मूढे ! पंडितमानिनि ? ॥२६६॥त्यक्त्वा म हीं स्त्रीवचसा योऽस्मिन्वसति कानने स्नेहः कस्तत्र दुर्बुद्धौ मयि भावोऽस्तु ते चिरम्. ’ ॥२६७॥ एवं ज नकजामुक्त्वा स वामेन करेण ताम् केशेषु दक्षिणेनोर्वोः परिजग्राह साहसी. ॥२६८॥ आदा य सीतामंकेन रथमारोपयत्तदा, प्राद्रवन्मृत्युसंकाशं तं दृष्ट्वा वनदेवताः. ॥२६९॥परि ज ग्राह स यदा दारुणः प्रसभेन सा अतिचुक्रोश, ‘ हा राम ! हा रामे’ति भृशातुरा. ॥२७०॥आदा य तां विचेष्टंतीं पन्नगेंद्रवधूमिवसकाम आश्रमात्तस्मादुत्पपात स तार्क्ष्यवत्. ॥२७१॥सीता रा क्षसराजेन हियमाणा विहायसा भृशं चुक्रोश मत्तेव, ‘ सौमित्रे ! किं न पासि माम् ? ॥२७२॥कथं म हाभुज त्वंमां ह्रियमाणां न रक्षसा जानीषे तात ! सौमित्रे ! गुरुचित्तप्रसादक ! ॥२७३॥कथं श्री मन् प्राप्तकलं शासनं न करोष्यरौ ? ननु नामाविनीतानां विनेतासि परंतप ! ॥२७४॥पाप ! रा क्षस ! कर्मैतत्कुरुषे कालमोहितः जीवितांतकरं घोरं रामाद्वयसनमाप्नुहि. ॥२७५॥ यः का म स्ते स कैकेयि ! सिद्धोऽद्य सुखमाप्नुहि,आमंत्रये जनस्थानं वंदे गोदावरीं नदीम्. ॥२७६॥ देवा ज नस्थानगता ये मृगास्तरवोऽद्रयःनमस्करोमि तेभ्योऽद्य शरणं यामि तानहम्. ॥२७७॥रामा य शंसत क्षिप्रं दुरात्मा रावणो बलात् मामकामां हरत्येष व्याघ्रो बालमृगीमिव. ॥२७८॥मां त्व रा वान्महातेजाः परलोकगतां प्रभुः आनेष्यति प्रियां भार्यां वैवस्वतहृतामपि. ’ ॥२७९॥एवं भ हीजा करुणं विलपंती सुदुःखिता वनस्पतिगतं गृध्रं दृष्ट्वोवाचायतेक्षणा. ॥२८०॥‘ हं हो ज टायो ! पश्यार्य ! ह्रियमाणां बलेन माम् वधूमनाथामिव ते रक्षसानेन पापिना. ॥२८१॥ आर्या य मद्य नो शक्यः क्रूरो वारयितुं त्वया सत्त्ववान् न्नितकाशी च सायुधश्चापि दुर्भतिः. ॥२८२॥सरो ज लोचनायेदं रामाय हरणं मम. आख्यातव्यमशेषेण लक्ष्मणाय च धीमते. ’ ॥२८३॥महा य शाः स सुप्तोऽपि शुश्रुवेतां वधूगिरम् ददर्श रावणं गृध्रो वैदेहीं च स्नुषां निजाम्. ॥२८४॥स तं रा त्रिंचराधीशं व्याजहार शुभां गिरम्,‘ शृणु भ्रातर्द्शग्रीव ! जटायुर्नाम विश्रुतः ॥२८५॥अह म स्य वनस्येशो गृध्रराजः पुरातनः सख्युर्दशरथस्येयं स्नुषः मम च धर्मतः. ॥२८६॥रामः श्री मान् सर्वलोकराजः सर्वहिते रतः तस्यैषा दयिता साध्वी मुंचैनां मानयं कुरु. ॥२८७॥ इमां रा क्षसराज ! त्वं मयि त्रातरि जीवति न नयिष्यसि रामस्व्य प्रियां गीतामलंक्रियाम्. ॥२८८॥कार्यं म या प्रियं सर्वं तस्यावश्यं महात्मनः जीवितेनापि रामस्य तथा दशरथस्य च. ॥२८९॥अहं ज राग्रस्ततनुः शक्तिहीनश्चिरंतनःषष्टिर्वर्षसहस्राणि जातस्य मम रावण ! ॥२९०॥त्वं व य स्यद्य मध्येऽसि रथी खङ्गी शरासनी तथापि कुशली सीतामादाय न गमिष्यसि. ’ ॥२९१॥इति रा क्षसराजः स श्रुत्वा क्रुद्धः खगेश्वरम् अभिदुद्राव निःसीमः समरोऽभूत्तयोर्द्वयोः. ॥२९२॥सोऽत्य म र्षणमुग्रेषून् पक्षाभ्यां प्रविधूय तम् रावणं विरथं चक्रे शक्रेष्वशनिभंगदम्. ॥२९३॥बभं ज कार्मुकं तस्य चरणाभ्यां खगेश्वरः द्वितीयं च, नखैस्तस्य व्रणान् गात्रे चकार सः. ॥२९४॥तत्का य त्राणमपि च व्यधुनोद् गृध्रसत्तमः अंकेनादाय वैदेहीं पपात भुवि रावणः. ॥२९५॥अंड ज प्रवरं दृष्ट्वा जरया श्रांतमाशु सः उत्पपात पुनर्हृष्टो मैथिलीं गृह्य राक्षसः. ॥२९६॥निधा य जानकीमंके खङ्गशेषं दशाननम् गच्छंतं स समुत्पत्य तमावार्याब्रवीद्रुषा. ॥२९७॥‘ तस्क रा चरितो मार्गो नैष वीरनिषेवितः स्त्रीरत्नमेतद्बडिशं त्वं मीनो राक्षसाधनम ! ’ ॥२९८॥उक्त्वा म त्तं मनस्व्येवं तत्पृष्ठं विददार श अधिरूढो गजारोहो यथा स्याद्दुष्टावारणम्. ॥२९९॥पुनः श्री मान् स प्रहारान् दुःसहानकरोद्भृशम् केशांश्चोत्पाटयामास नखपक्षमुखायुधः. ॥३००॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP