संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|अरण्यकांडम्| काव्य २०१ ते २५० अरण्यकांडम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ३९० अरण्यकांडम् - काव्य २०१ ते २५० अरण्यकाण्डम् या प्रकरणातील श्लोकातील तीसरे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य २०१ ते २५० Translation - भाषांतर रुचि रा क्ष्या मृगं दृष्ट्वा तमत्यद्भुतदर्शनम्उत्सृज्य पुष्पावचयमाहू तौ रामलक्ष्मणौ. ॥२०१॥तौ रा म लक्ष्मणौ वीरावाहूतौ मंक्षु सीतया वीक्षमाणौ तु तं देशं रम्यं ददृशतुर्मृगम्. ॥२०२॥रामं ज गाद सौमित्रि ‘ र्नास्ति रत्नमयो मृगः तमेवैतमहं मन्ये मारीचं पापरूपिणम्. ॥२०३॥स्व मा य या विविधया चरंतो मृगयां वने अनेन हि हता राम राजानो बहवः पुरा. ’ ॥२०४॥तं सा ज नकजा वीरं प्रविवार्याशु लक्ष्मणम् उवाच रामं संहृष्टा छद्मना हृतचेतना, ॥२०५॥आन य त्वं मृगं धृत्वा क्रीडार्थं नो भविष्यति, आर्यपुत्राभिरामोऽसौ भृशं हरति मे मनः. ॥२०६॥सृम रा श्चमराश्चान्ये दृष्टा नानाविधा मृगाःनानेन सदृशो राजन् ! दृष्टपूर्वो मृगो मया. ॥२०७॥मृगो म मायं श्वश्रूणां भरतस्य तवापि च अंतःपुरे वसन्नित्यं विस्मर्थ जनयिष्यति. ॥२०८॥यदि श्री मान्न ग्रहणं जीवन्नभ्येत्ययं मृगः अजिनं नरशार्दूल रुचिरं तु भविष्यति. ’ ॥२०९॥इति रा भावचः श्रुत्वा रामो लक्ष्मणमब्रवीत्, ‘ वत्स ! त्वदुक्तं चेत्सत्यं कार्यो रक्षोवधो मया. ॥२१०॥अस्या म हान्महो नो चेद्गृहीतेनास्य वा त्वचा सीतां रक्षन् वसात्रैव यावदागमनं मम. ’ ॥२११॥एवं ज लजपत्राक्ष उक्त्वा खङ्गी धनुर्धरः मायामृगं सुचपलं त्वरयानुससार तम्. ॥२१२॥स भ य व्याकुलो राममापतंतं धनुर्धरम् बभूवांतर्हितो दृष्ट्वा पुनः संदर्शनेऽभवत्. ॥२१३॥ तमा रा न्निर्गतं दृष्ट्वा दृश्यादृश्यं वने मृगम् छिन्नाभ्रैरिव संवीतं शारदं चंद्रमंडलम् ॥२१४॥अरि म र्दनमुग्रेषुं चापे संधाय राघवः मुमोच ज्वलितं कोपादस्त्रं ब्रह्मविनिर्मितम्. ॥२१५॥भृशं ज वेन हृदयं तस्येषुर्निर्बिभेद सः तालमात्रमथोत्प्लुत्य न्यपतत्स भृशातुरः. ॥२१६॥सम य प्राप्तमाज्ञाय स चकार ततः स्वनम् सदृशं राघवस्येव ‘ हा ! सीते ! लक्ष्मणेति ’ च. ॥२१७॥तत्या ज मृगरूपं तन्मारीचो जीवितं च सः जगाम मनसा सीतां रामो भ्रातुर्वचः स्मरन्. ॥२१८॥सभ य स्तं स्वनं श्रुत्वा प्रभुरप्यभवद्वने अचिंतयत्कथं सीता लक्ष्मणश्च कथं भवेत्. ॥२१९॥ ससा रा श्रममेवान्यं निहत्य पृषतं प्रभुः तन्मांसं द्रुतमादाय भृशं मनसि शंकितः. ॥२२०॥ आर्तं म हास्वनं श्रुत्वा भर्तुर्ज्ञात्वा भयाकुला उवाच लक्ष्मणं सीता, ‘ गच्छ जानीहि राघवम्. ॥२२१॥ वशं श्री मंतमापन्नं राक्षसां त्रातुमर्हसि तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम् ॥२२२॥भर्तुं रा र्तस्य शब्दोऽलं क्रोशतोऽद्य श्रुतो मया न हि मे जीवितं स्थाने हृदयं वावतिष्ठते. ’ ॥२२३॥ जगा म न तथोक्तः स भ्रातुराज्ञाय शासनम् तमुवाच ततस्तत्र क्षुभिता जनकात्मजा. ॥२२४॥ ‘ न व्र ज स्याशु कस्मात्त्वं त्रातुं प्राणप्रियं मम सौमित्रं ! मित्ररूपेण भ्रातुः शत्रुरसि ध्रुवम्. ॥२२५॥ अस्यां य स्त्वमवस्थायां भ्रातरं नाभिपद्यसे इच्छसि त्वं विनश्यंतं रामं लक्ष्मण ! सत्कृते. ’ ॥२२६॥ तद्धी रा श्राव्यमाकर्ण्य सीतां सौमित्रिरब्रवीत्,‘ सुरासुरैरशक्यस्ते भर्ता जेतुं न संशयः. ॥२२७॥न त्वा म स्मिन् वने हातुमुत्सहे राघवं विना. अनिवार्यं बलं तस्य बलैर्बलवतामपि, ॥२२८॥ रामो ज गत्यवध्यास्तं प्रतियुध्येत कः पुमान् ? रक्षसः स स्वरो देवि ! नैवं त्वं वक्तुमर्हसि. ॥२२९॥ मृगं य मक्षयं नीत्वा शीघ्रं रामो महायशाः आगमिष्यति ते भर्ता यर्तायुर्द्विषतां मृधे. ॥२३०॥त्वं त्य ज त्रासमार्येण न्यस्तासि मयि मैथिलि ! रक्षसां वैरमस्माभिस्त्वां त्यक्तुं नोत्सहे वने. ’ ॥२३१॥क्रुद्धा य थार्थवाचं तमुवाचारक्तलोचना अनार्थकरुणारंभ ! नृशंस ! कुलपांसन ! ॥२३२॥ अहं रा मस्य मन्ये ते व्यसनं परमं प्रियम् नैव चित्रं सपत्नेषु पापं लक्ष्मण ! यद्भवेत्. ॥२३३॥रामं म त्कृत एवैकमेकोऽरण्येऽनुगच्छसि सुदुष्टस्त्वं प्रतिच्छन्नः प्रयुक्तो भरतेन वा. ॥२३४॥ रामं श्री मंतमाश्रित्य कामयेयं कथं परम् समक्षं तव सौमित्रे ! प्राणांस्त्यक्ष्याम्यसंशयम्. ’ ॥२३५॥निष्ठु रा णि वचांस्युक्तः सीतां प्रांजलिवब्रवीत्, ‘ उत्तरं नोत्सहे वक्तुं दैवतं भवती मम. ॥२३६॥वाक्य म प्रतिरूपं तु न चित्रं स्त्रीषु मैथिलि ! विमुक्तधर्माश्चपलास्तीक्ष्णा भेदकराः स्त्रियः ॥२३७॥वचो ज नककन्येऽहमीदृशं न सहे तव श्रोतयोरुभयोर्मध्ये तप्तनाराचसंनिभम् ॥२३८॥धिक्त्वां य दद्य मामेवं नश्यंती त्वं विशंकसे गमिष्ये यत्र काकुत्स्थः स्वस्ति तेऽस्तु वरानने ! ’ ॥२३९॥स दा रा नग्रजख्यार्तः प्रणम्य रचितांजलिः बहुशोऽवेक्ष्य तां रामसमीपं सत्वरं ययौ. ॥२४०॥आश्र म स्थां तदा सीतामभिचक्राम रावणः क्षिप्रभंतरमासाद्य परिव्राजकवेषधृक्. ॥२४१॥रक्षो ज वेनाससाद तां ताभ्यां रहितां वने वियुक्तां चंद्रसूर्याभ्यां संध्यामिव महत्तमः. ॥२४२॥सभ य स्तत्क्षणे वातो निश्चलोऽभूद् द्रुंमव्रजः स्तिमितं गंतुमारेभे गोदावर्यपि तद्भयात्. ॥२४३॥तां रा ज कन्यां कामार्तः प्रशशंस दशाननः,‘ मनो हरसि रूपेण नदीकूलमिवांभसा. ॥२४४॥सुव य स्ते विशालाक्षि ! श्रीर्वा त्वमथवा रतिः अत्यद्भुतभिदं रूपं क्कापि दृष्टं नहीदृशम्. ॥२४५॥का त्वं रा मे ! वने सिंहव्याघ्रराक्षससेविते,ब्रूह्यहं श्रोतमिच्छामि नाम वृत्तं च देवि ! ते. ’ ॥२४६॥पूज्यं म र्त्याशनं मत्वा भिक्षुमाश्रममागतम् कथयामास वैदेही निजवृत्तमशेषतः. ॥२४७॥‘ मम श्री मान् दशरथः श्वशुरो, जनकः पिता, रामो दाशरथिर्भर्ता, वनवासो गुरोर्गिरा. ॥२४८॥न घो रा रण्यवासो मे भयदः पत्युरोजसा आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम्. ॥२४९॥वस्तु म त्र त्वया शक्यं, गोत्रं नाम च किं तव एकश्च दंडकारण्ये किमर्थं चरसि द्विज ! ’ ॥२५०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP