अयोध्याकांडम् - काव्य २५१ ते ३००

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


प्रां ज लिं जानकीमाह ब्राह्मणी ब्रह्मवादिनी
` बालापि वत्से ! प्रौढा त्वं दिष्ट्या धर्ममवेक्षसे. ॥२५१॥
प्रि य मेतं त्वमेवं चेद्वत्से ! नित्यमनुव्रता
शुद्धं यशश्च धर्मं च जगत्सु जमवाप्त्यासि. ॥२५२॥
` म म सर्वं प्रियं मातर्जातं त्वत्पाददर्शनात,
कृतकृतास्मि ते दृष्ट्या दुर्लभोऽयमनुग्रहः. ' ॥२५३॥
भा ज नं तां प्रसादस्य ज्ञात्वा सीतामथाब्रवीत्‍,
` इदं दिव्यं वरं माल्यं भूषणान्यंबरं वरम्‍ ॥२५४॥
भा ज नं तां प्रसादस्य ज्ञात्वा सीतामथाब्रवीत्‍
` इदं दिव्यं वरं माल्यं भूषणान्यंबरं वरम्‍ ॥२५५॥
प्र य च्छामि गृहाण त्वमंगरागं च कन्यके !
शोभयिष्यसि गात्राणि सर्वमेतत्सदा नवम्‍. ' ॥२५६॥
स्र ज स्तथांगरागं च वस्त्रमाभूषणानि सा
प्रतिगृह्यांतिके तस्थौ बद्धांजलिरुदारधीः. ॥२५७॥
प्रि य मस्या मुनेः पत्न्याः कर्तुं सीता स्वयंवरम्‍
आत्मनः कथयामास पृष्टं सर्वं सविस्तरम्‍. ॥२५८॥
तां रां मोऽलंकृतां दृष्ट्वा जानकीमनसूयया
जहर्ष लक्ष्मणोऽप्यत्रिं मुनिमापृच्छय निर्ययौ. ॥२५९॥
स म यूरमिवांभोदो मुनिसंघं प्रहर्षयन्‍
वनं विवेश श्रीरामो मनः शुद्धं सतामिव. ॥२६०॥
इति श्रीरामनंदनमयूरविरचिते श्रीमन्मंत्ररामायणेऽयोध्याकांडे विंशतितमो मंत्रः समाप्तः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP