अयोध्याकांडम् - काव्य ५१ ते १००
महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’
ची रा जिनधरो मातश्चतुर्दश समा वने
वन्येन वृत्तिं कर्ताहं कैकेय्याः प्रियकारणात्. ' ॥५१॥
सा म हत्यप्रिये वाक्ये श्रुत राज्ञ्यतिवत्सला
सहस महसा त्यक्ता पपात भुवि मूर्च्छिता. ॥५२॥
तां श्री मान्मातरं रामः क्षिप्रमुत्थाप्य विह्वलां
सांत्वयामास सौमित्रिमपि तातवधोद्यतम्. ॥५३॥
` परा क्रमस्य वत्सायं न कालः पितुराज्ञया
गमिष्यामि वनं, श्रेयः पुत्रस्यैकं गुरोर्वचः. ' ॥५४॥
` रा म मामहिताचारा कैकेयी दुर्वचः सदा
श्रावयिष्यति तन्नाहं सोढुं शक्ता कथंचन. ॥५५॥
व्र ज तस्तव मां त्यक्त्वा नैष्टुर्यं भविता परम्
वत्स ! त्वया विना नाहं जीविष्यामि प्रसीद मे. ॥५६॥
न य मामपि धर्मज्ञ ! यशस्ते भवितानघ ! '
इत्यादि करुणं श्रुत्वा रामो मातरमब्रवीत्, ॥५७॥
` त्वं रा ज्ञि ! राज्ञि कैकेय्या हृदि दुर्वागिषुक्षते
मया च रहिते वृद्धे न प्रेम शिथिलीकुरु. ॥५८॥
प्र म दानां कुलीनानां पत्युर्नान्या गतिर्हिता. '
एवमुक्त्वासकृद्रामो नत्वा पादौ विनिर्गतः. ॥५९॥
स ज गामाथ निलयं सीताया रघुसत्तमः
कृतस्वस्त्ययनो मात्रा तां च कृत्वा प्रदक्षिणम् ॥६०॥
` प्रि य सत्तम ! न च्छत्रं न बालव्यजने सिते
कुतः स्तुतस्त्वं नासी ' ति कांतं पप्रच्छ जानकी. ॥६१॥
` रा ज पुत्रि ! महावंशप्रभवे धर्मचारिणि !
शृणु तत्रभवांस्तातः प्रव्राजयति मां वने. ॥६२॥
प्रि य या खलु कैकेय्या पुरा दत्तौ वरौ प्रभुः
याचितस्तत्र चैकेन भरतस्याभिषेचनम्. ॥६३॥
ची रा जिनभृतोऽन्येन मम प्रव्राजनं वने
चतुर्दश हि वर्षाणि वस्तव्यं दंडके मया. ॥६४॥
प्र म दे ! काननं याते मयि तापससेविते
व्रतोपवासपरया भवितव्यं त्वयानघे ! ॥६५॥
स श्री मान्कल्यमुत्थाय पिता मम जनेश्वरः
वंदितव्यस्त्वया माता कौसल्याश्चान्यमातरः. ॥६६॥
तौ रा जपुत्रौ भरतशत्रुघ्नौ मम सुप्रियौ
भ्रातृपुत्रसमौ देवि ! द्रष्टव्यौ प्रीतये मम ॥६७॥
न म नागपि कर्तव्यं विप्रैयं भरतस्य ते,
स हि राजा च वैदेहि! देशस्य च कुलस्य च. ' ॥६८॥
सा ज गत्यात्मजा क्रुद्धा प्रणयादिदमब्रवीत्
` आर्यपुत्र ! पिता माता भ्राता पुत्रस्तथा स्नुषा, ' ॥६९॥
नि य मादुपजीवंति स्वं स्वं भाग्यं न चेतरत्
भर्तुर्भाग्यं तु नार्येका प्राप्नोति पुरुषर्षभ ! ॥७०॥
वी रा तश्चामहादिष्टा गुरुभिस्त्वमिव ध्रुवम्
न पिता नात्मजो मता स्त्रीणामेकः पतिर्गतिः. ॥७१॥
त्व म द्यैव वनं दुर्गं प्रस्थितो यदि राघव !
अग्रतस्ते गमिष्यामि मृद्गंती कुशकंटकान्. ' ॥७२॥
` ग ज गामिनि ! मा मैवं वद, दुःखतरं वनम्
इत्युवाचासकृद्रामो न नेतुमकरोन्मनः. ' ॥७३॥
` न य मां वीर ! विश्रब्धः पापं मयि न विद्यते,
यदि नेच्छसि मां नेतुं मरिश्ब्यामि, त्वया विना. ॥७४॥
रा ज कन्येति शोकार्ता विलप्य करुणं बहु,
पतिमालिंग्य बाहुभ्यां कंठे चुक्रोश सस्वरम्, ॥७५॥
` आय ताक्षि ! प्रिये ! त्वाऽहं सह नेष्यामि सर्वथा
त्वं हातुं न मया शक्या प्रीतिरात्मवता यथा. ॥७६॥
व रा रोहे ! ऽद्य सर्वस्वं क्षिप्रं ब्राह्मणसात्कुरु. '
इत्युक्ता जानकी पत्या कृतवत्यखिलं तथा. ॥७७॥
प्र म थाधिपतेः साक्षाद्धनेश इव भक्तिमान्
रामस्य चरणौ गाढं निपीड्योवाच लक्ष्मणः ॥७८॥
` भोः श्री मन् रामभद्रार्य ! स्वानुगं नय मामपि**'
इत्युक्तवंतं सौमित्रिं कौसल्येयोऽबवीदिदम् ॥७९॥
` धी रा र्यव्रत ! वत्स ! त्वं मम प्राणसमः सखा
कौसल्यां च सुमित्रां च वद कोऽत्र भरिष्यति ? ' ॥८०॥
त म यं प्राह, ` कौसल्यां सुमित्रां भरतः स्वयम्
तवैव तेजसा राम ! पूजयिष्यत्यसंशयम् ॥८१॥
ते ज सा तं वधिष्यामि नो चेदत्र न संशयः
कौसल्या बिभृयादार्या सहस्त्रं मद्विधानपि. ॥८२॥
न य ज्ञा स्वस्य मातुश्च मम सा भरणक्षमा,
यस्याः सहस्त्रं ग्रामाणां संप्राप्तमुपजीविभिः ॥८३॥
श रा सनं समादाय खनित्रपिटकाधरः
अग्रतेस्ते गमिष्यामि पंथानं तव दर्शयन्. ॥८४॥
श्र म आर्य ! न मेऽरण्ये हविता दयया तव
अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते. ' ॥८५॥
` व्र ज वत्साशु पृच्छ त्वं सर्वमेव सुहृज्जनम्
ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम् ॥८६॥
सा य कासनरत्नेसी कवचेऽक्षयसायकौ
तूणावाचार्यगेहस्थमानयैतद्धनं वरम्. ' ॥८७॥
स ज ग्राहायुधं सर्वं गुरुमागत्य लक्ष्मणः
रामाय दर्शयामास पुनस्तं राघवोऽब्रवीत् ॥८८॥
` स्व य मद्य धनं यन्मे त्वया सह परंतप !
द्विजेभ्यो दातुमिच्छामि लक्ष्मणानुमतेन ते ॥८९॥
ध रा सुरवरं वत्स ! सुयज्ञं गुरुनंदनम्
त्वमानयायांश्चाश्वत्र सर्वान् वत्सोपजीविनः ' ॥९०॥
तं म हर्षिसुतं गत्वा सौमित्रिः प्राह, ` मंदिरम्
सखे ! सुयज्ञ ! रामस्य पश्य दुष्करकारिणः. " ॥९१॥
स श्री मत्सदनं प्रपतः शीघ्रं सौमित्रिणा सह
तं नत्वा पूजयामास ससीतो लक्षमणाग्रजः. ॥९२॥
हा रा दिभिरलंकारै रामस्तं प्रत्यपूजयत्
तत्पत्न्यै प्रददौ सीता स्वभूषाः शीलभूषणा. ॥९३॥
स म स्तमन्यद्विप्रेभ्यो धनं रामः सलक्ष्मणः
प्रददावुपजीविभ्यः सीतापि प्रीतमानसा. ॥९४॥
तौ ज ग्मतुरथो द्रष्टुं पितरं सीतया सह,
पद्भ्यामेव महासत्त्वौ सुमुखौ सीतया सह. ॥९५॥
व य स्यपौरप्रमुखो जनः सर्वोऽपि राघवौ
जानकीं च तथा दृष्ट्वा बभूवातीव विह्वळः. ॥९६॥
न रा नार्योऽपि राजानं कैकेयी हृशदुःखिताः
गर्हयामासुरत्यंतं श्रीरामस्तवनादृताः. ॥९७॥
` स म र्थं पालनेऽस्माकं रामं राजीवलोचनम्
गच्छंतमनुगच्छामो वयमि'त्यब्रुवन् जनाः. ॥९८॥
स ज नन्या गृहं गत्वा दृष्ट्वा पितरमाकुलम्
सुमंत्रं राघवः प्राह ` पितुराख्याहि मामि'ति ॥९९॥
न य ज्ञः स सुमंत्रस्तं संबोध्य प्राह भूपतिम्,
` द्वारि तिष्ठत्ययं रामस्त्वामिदानीं दिदृक्षते. ॥१००॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP