संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|अयोध्याकांडम्| काव्य १ ते ५० अयोध्याकांडम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० अयोध्याकांडम् - काव्य १ ते ५० प्रत्येक कडव्यातील दुसरे अक्षर वाचा - श्री रा म ज य रा म ज य रा म Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य १ ते ५० Translation - भाषांतर स श्री दशरथो राजा रामाय गुणशालिने उद्यतोsभूद्यौवराज्यं दातुं गुर्वनुमोदितः ॥१॥प रा भ्युदयसद्धेतावभिषेकेsपि वल्लभा विघ्नं चकार कैकेयी मंथराभिन्नधीर्बलात्. ॥२॥स म र्थोsपि नृपः सत्यपाशबद्धोsबलोsभवत्, निर्बंधात्पूर्वदत्तौ सा वरौ जग्राह निर्घृणा. ॥३॥` भ ज तामद्य भरतो यौवराज्यमकंटकम् रामश्चतुर्दस समाश्चीराजिनधरो वनम्. ' ॥४॥अ य शस्करमेवं तत्तस्या आकर्ण्य भाषितम् राजोवाच, ` सुदुर्बुद्धे ! किमिदं ते चिकीर्षितम् ? ॥५॥नि रा गसं प्रियं रामं देवि ! न त्यक्तुमर्हसि मूर्ध्ना स्पृशामि ते पादावि'त्यप्यार्ततरोsब्रवीत्. ॥६॥सा म व्यर्थमभूद्राजा मूर्च्छामसकृदागतः कैकेयीसदने रात्रिं सर्वां दुःखेन सोऽनयत्. ॥७॥द्वि ज श्रेष्ठो वसिष्ठोऽथ सुमंत्रं सचिवोत्तमम्प्रातः प्रोवाच, ` राजानमभिषेकार्थमानय. ' ॥८॥स य यावाशु कैकेयी सदने तं नृपोत्तमम् ददर्श भूमावस्वस्थं पतितं शोकविह्वळम्. ॥९॥प्रां ज लिः स सुमंत्रस्तं स्तुत्वोवाच प्रब्बोधयन्, ` गुरू रामाभिषेकार्थं राजेंद्र ! त्वां प्रतीक्षते. ' ॥१०॥प्रि य मप्याह तं राजा शोकरक्तेक्षणस्तदा,` वाक्यैस्तु खलु मर्माणि मम भूयो निकृतसि. ' ॥११॥स रा जवाक्यं करुणं श्रुत्वा दीनं च तं प्रभुम् दृष्ट्वा बद्धांजलिः किंचित्तस्माद्देशादपाक्रमत्. ॥१२॥स म यज्ञाथ कैकेयी प्राह, ` मंत्रिन् ! समुत्सुकःरामाभिषेकहर्षेण सुतरां जातजागरः. ॥१३॥स श्री मानयमद्यैव राजा निद्रामुपागतः राममानय, भद्रं ते, नात्र कार्या विचारणा. ' ॥१४॥न रा धिपतिपत्न्येत्थमुक्तः स सचिवोऽब्रवीत्,` अश्रुत्वाहं प्रभोर्वाक्यं कथं गच्छामि भामिनि ! ' ॥१५॥तं म हीपतिरप्याह, ` गच्छ, राममिहानय 'इत्युक्तः सचिवः प्राप रामप्रासादमाशुगः. ॥१६॥` त्वां ज गत्याः पतिर्द्रष्टुमिच्छती'त्याह सांजलिः रामोऽपि सीतामापृच्छ्य हृष्टो राजानमभ्यगात्. ॥१७॥अ य थापूर्वरूपस्य स पूर्वं चरणौ पितुःववंदे राघवः पश्चात्कैकेय्याः सुसमाहितः. ॥१८॥स रा जा ` राम ' इत्युक्त्वा बाष्पपर्याकुलेक्षणःशशाक दीनतामाप्तो नेक्षितुं नाभिभाषितुम्. ॥१९॥तं म नुष्येश्वरं दृष्ट्वा तथारूपं भयावहम् रामोऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम् ॥२०॥प्रां ज लिः प्राह कैकेयीं, ` मम वान्यस्य वागसा क्रुद्धः प्रभुस्तदाचक्ष्व मातरेनं प्रसादय. ' ॥२१॥स्व य माहातिधृष्टा सा, ` नायं क्रुद्धो नराधिपःराम ! व्यसनमप्यस्य न च किंचन विद्यते. ॥२२॥रा ज श्रेष्ठः कुमारायं त्वद्भयाद्वक्ति न स्फुटम् प्रियं त्वामप्रियं वक्तुं नास्य वाणी प्रकर्तते. ॥२३॥त्वं य न्मह्यमनेनास्ति स्वयं राम ! प्रतिश्रुतम् तदवश्यं कुरु क्षिप्रं पितुरान्रुण्यमाप्नुहि. ॥२४॥पु रा मह्यं वरं दत्वा स्वयं मामभिपूज्य चस पश्चात्तप्यते राम ! यथान्यः प्राकृतस्तथा. ॥२५॥म म राम ! प्रतिज्ञाय ददानीति वरं प्रभुः स निरर्थं गतजले सेतुं बंधितुमिच्छति. ' ॥२६॥तां श्री मानब्रवीद्गामो, ` मातर्वाक्यात्प्रभोरहम् भक्षयेयं विषं तीक्ष्णं पतेयं पावकेऽर्णवे. ॥२७॥ध रा पतेर्वचो ब्रूहि मातर्यदभिकांक्षितम् करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते. ' ॥२८॥तं म होग्रमतिः प्राह, ` राज्ञा दत्तौ बरौ मम पुरा देवासुरे युद्धे मया गुप्तेन संकटे. ॥२९॥अ ज वंशप्रदीपोऽयं भरतस्याभिषेचनम् तत्र मे याचितो राम ! गमनं तव कानने. ॥३०॥स य द्यसि निदेशे त्वं राज्ञानेन प्रतिश्रुतम् कुर्वरण्यं प्रवेष्टव्यं चतुर्दश समास्त्वया. ॥३१॥त्वं रा जानमृतं कर्तुं जटाचीरधरो भव,सप्त सप्त च वर्षानि दंडकारण्यमाश्रितः. ॥३२॥ग म नं त्वमयोध्याथ कुर्वद्यैव वनं पति, युवराजोऽस्तु भरतः सत्यसंधः पिता तव. ' ॥३३॥स्व ज नप्रियक्रुद्रामःप्रोवा ` चांब ! स्वयं कुतः राज्ञा नाज्ञाप्यते वाचा भरतस्याभिषेचनम्, ॥३४॥प्रि य मस्य भवत्याश्च कर्तुं मातरहं धनम् प्राणान्सीतामपि भ्रात्रे दद्यां त्वत्प्रेरितः सुखम्. ' ॥३५॥भु ज गोवोग्ररूपा सा पुनरूचे, ` ऽगते त्वयि रामायं तव तातो न स्रास्यते भोक्षतेऽपि वा. ॥३६॥श य ने न्यपतद्राजा तच्छ्रुत्वाश्रुपरिप्लुतः`धिक्कष्ट'मिति निश्वस्य कैकेय्या वागिषुक्षतः. ॥३७॥तं रा जानं समुत्थाप्य कैकेय्याभिप्रचोदितः कशयेवाहतो वाजी रामो गंतुं कृतत्वरः. ॥३८॥ता म ब्रवी`दर्थपरो नाहं मातरसंशयम् विद्धि मामृषिभिस्तुल्यं विमलं धर्ममास्थितम्. ॥३९॥या श्री मतोऽस्य प्रीतिः सा मया कार्या निजासुभिः न ह्यतो धर्मचरणं किंचिदस्ति महत्तरम्. ॥४०॥त्वरा वानधुनैवांब ! हवत्या वचनादहम्वने वत्स्यामि विजने वर्षाणि हि चतुर्दश. ॥४१॥क्ष म स्व तावत्कैकेयि ! यावत्ताम पुत्रवत्सलाम् कौसल्यामहमापृच्छय सीतां चानुनयाम्यहम्. ॥४२॥वि ज नं दंडकारण्यं गत एवाहमाज्ञया शुश्रूषस्व नृपं, कष्टं परमं चरमं वयः. ॥४३॥न य विद्धर्मवित्साधुर्भरतो न रतोऽपथि शूश्रूषामस्य सततं यथा कुर्यात्तथा कुरु. ' ॥४४॥स रा मस्य वचः श्रुत्वा भृशं दुःखगतः पिता शोकादशक्रुवन्वक्तुं प्ररुरोद महास्वनम् ॥४५॥न म स्कृत्वा नृपं स्त्रैणं कैकेयीमपि दुर्धियम् रामः प्रदक्षिणीकृत्य मातुरंतिकमाययौ. ॥४६॥तं ज नन्या गृहं यांतं कुपितो लक्ष्मणोऽन्वगात् कैकेयीं तद्वशं तातं हंतुकामो महाबलः. ॥४७॥प्रि य पुत्राथ कौसल्या पतितं पादयोः सुतम् आलिंग्य मूर्ध्न्यवघ्राय ददावाशिषमुत्तमाम्. ॥४८॥वि ज नं दंडकारण्यं प्रस्थितो राघवोऽब्रवीत्,` गमिष्ये वनवासाय मामनुज्ञातुमर्हसि. ॥४९॥प्र य च्छति महाराजो भरताय वसुंधराम्,मां पुनर्दंडकारण्यं विवासयति तापसम्. ॥५०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP