संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:|
अमोघानदीस्तोत्रम्

अमोघानदीस्तोत्रम्

श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह:


नमाम्यमोघफलदामामामामां सरिद्वराम् ।
वन्द्याममोघजलदां वांजूटीनामिकां तथा ॥१॥
संगमश्चोत्तराशां हि वाहिनी सुखदायिनी ।
मातरौ महिमा नो वां तारतम्यविवर्जित: ॥२॥
कार्तिकेयसमापूर्णां माता मोहविनाशिनीम् ।
उमां श्रीशंकरारामां वन्दे लक्ष्मीपतिप्रियाम् ॥३॥
वन्देहमामामुमां च सोमां सोमप्रियां नदीम् ।
त्रिवेणीसंगता: सत्य आत्मदर्शनदानदा: ॥४॥
अत्रिप्रियेव सुखदा मोक्षदातिप्रिया हि न: ।
किं वर्ण्यतेत्राल्पमतिर्वाड्मनोविषयातिगा: ॥५॥
प्रणवादर्शरूपा या तां वन्दे मनसा गिरा ।
कार्तिकामां सोमयुतां स्नानार्थं मम संगताम् ॥६॥
ममत्वादिदोषहरां वन्दे हरिहरात्मिकाम् ।
किं मया प्रार्थ्यते सर्वहृत्स्थां सच्चित्सुखात्मिकाम् ॥७॥
सर्वा पूर्णा च करुणा शेषहृत्स्था शिवप्रिया ।
हरितालिकां सरित्सेव्यां पार्वत्या सहितां नुम: ॥८॥
इदं स्तोत्रं सत्कवित्वदातृ सन्मानसप्रियम् ।
अर्पितं च मया प्रीत्या सर्वहृत्थहरे:पदे ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP