संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:|
अथ विठ्ठलस्तोत्रम्

अथ विठ्ठलस्तोत्रम्

श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह:


वन्दे श्रीरुक्मिणीकान्तं विठ्ठलं भक्तवत्सलम् ।
पुण्डलीकं सुवरदं तममुं सततं भजे ॥२॥
नागभीट् प्राणदाता च पाण्डवानामभीष्टकृत् ।
तन्नामकं सुकमलं सर:कृद्विठ्ठलं नुम: ॥३॥
देवप्रीत्यै देवसरो निर्मितं सर्वपापहृत् ।
तममुं देवदेवेशं नागेशं विठ्ठलं नुम: ॥४॥
स स्वात्मजब्रम्हसुहृत्तमोग्रन्थिविभेदकृत् ।
विदा ज्ञानेन ठानज्ञान् लाति गृण्हाति तं नुम: ॥५॥
नागा: सर्पा: पर्वताश्च तेषां भीर्गरुडेन्द्रत: ।
तत्स्वामी भगवान् विष्णुंर्विठ्ठलस्तं नमाम्यहम् ॥६॥
नागा निरपराधाश्च तद्भीहृत् ज्ञानदेश्वर: ।
तं नागभीड्वासुदेवं विठ्ठलं सततं नुम: ॥७॥
नाग: शेष: पर्वतश्च गोवर्धनगिरि: प्रियौ ।
अतस्तौ भीषदौ यस्माद्विठ्ठलं तं नमाम्याहम् ॥८॥
इति श्रीविठ्ठलस्तोत्रं संपूर्णम्.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP