संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीदत्तपुराणम्| सप्तमाष्टक| सप्तमोsध्याय: सप्तमाष्टक प्रथमोsध्याय: द्वितीयोsध्याय: तृतीयोsध्याय: चतुर्थोsध्याय: पञ्चमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: अष्टमोsध्याय: सप्तमाष्टक - सप्तमोsध्याय: श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् " Tags : dattagurudattavasudevanand saraswatiगुरूदत्तदत्तवासुदेवानंदसरस्वती सद्गुर्णा माघस्नानविधिरक्षोप्सरस्संवादकथनं नाम सप्तमाष्टके सप्तमोsध्याय: Translation - भाषांतर हरि: ॐ ॥ निवर्तध्वं भटा: पुण्यकारिभ्य इति दण्डधृक् ॥ब्रूतेsतोsधो न यान्त्येव स्वधर्मेणात्मशोषका: ॥१॥प्रसङ्गेन त्र्यहं स्नानादिपि नाधो व्रजेन्नर: ॥भक्त्या च विधिवत्स्नानात्कथं माघे त्वधोगति: ॥२॥संस्नानादुदितेsर्केsर्धे माघे माघा अघा अपि ॥तस्माद्राजेन्द्र विधिना माघस्नानं चरेन्नर: ॥३॥शुद्धो भूत्वा पुराचम्य संकल्प्य नियतो जले ॥मकरस्थे रवौ माघे गोविन्दाच्युत माधव ॥४॥स्नानेनानेन देवेश शरणं मे भवाच्युत ॥मासमभ्यर्च्य संप्रीत्यै श्रीविष्णोर्नियमांश्चरेत् ॥५॥तिलाज्यहोमो भूशय्या हविष्याशनमर्चनम् ॥विष्णो: कम्बलवस्त्रादिदानं ब्राह्मणभोजनम् ॥६॥प्रत्यहं श्रवणं भक्त्या कीर्तनं सर्वदा हरे: ॥कार्यमुद्यापनं चान्ते शक्त्या भोज्या द्विजातय: ॥७॥तप्ताम्ब्वन्धु: सर: स्रोतो धुनी गङ्गा यथोत्तरम् ॥फलदा यमुनायोगे स्नानाद्गङ्गाधिपुण्यदा ॥८॥ स्नानास्तितासितायोग उत्पतन्ति दिवं नर: ॥सर्वपापहरो धात्रा प्रयागो विहित: पुरा ॥९॥ये माघे मकरस्थेsर्के प्रातर्मज्जन्त्यघा अपि ॥त्रिवेण्यां दिवि भुक्त्वा ते भोगान्यान्ति हरे: पदम् ॥१०॥अत्रैव स्नानत: सिद्धा: कृतार्था अमरा अपि ॥शृण्वेकदाप्सरा काचिन्नाम्ना काञ्चनमालिनी ॥११॥स्नात्वा प्रयागेsभिषेक्तुं यावद्गच्छति शंकरम् ॥मार्गे तदार्द्रवस्त्राया शीकरस्पर्शनाद्विधे: ॥१२॥हिमाद्रिस्थोsसुरो घोरो हिंस्रोsपि सहसाभवत् ॥शान्तात्मा प्राह तां का त्वं कुतस्ते कान्तिरीदृशी ॥१३॥स्वर्गगामिनि सुश्रोणि सुभ्रु पीनोन्नतस्तनि ॥चन्द्रानने विशालाक्षि सुकेशि सुरमोहिनि ॥१४॥क्क यासि कुत आयासि वस्त्रमार्द्रं कुतस्तव ॥केन पुण्येन ते भाति सर्वं तेजोमयं वपु: ॥१५॥त्वद्वस्त्रबिन्दुपातेन कथं क्रूरोsसुरोsप्यहम् ॥शान्तोsभवं वदस्वैतदाश्चर्यं भाति मेsधुना ॥१६॥कोsयं तवाङ्गमहिमा महादेवीति भासि मे ॥क्रूरस्य मेsन्यथा शान्ति: कथं लोकैकसुन्दरि ॥१७॥श्रुत्वाsसुरवचस्तत्तु तुष्टा काञ्चनमालिनी ॥प्राहाप्सरा गतास्म्यद्य प्रयागं कामरूपिणी ॥१८॥सांप्रतं वर्तते माघो महापातकनाशन: ॥स्नात्वार्धेsभ्युदिते सूर्ये त्रिवेण्यामागतास्म्यहम् ॥१९॥आर्द्र: परिकरो मेsद्य सुस्नानाद्गाङ्गतोयत: ॥यास्यामि त्वरया रक्ष: कैलासं पर्वतोत्तमम् ॥२०॥तत्रास्ते पार्वतीनाथ: सर्वदेवनमस्कृत: ॥तं पूजयितुमीशानं त्वरयाम्यधुनाsसुर ॥२१॥त्रिवेण्यम्बुप्रभावेण सद्यस्ते क्रूरता गता ॥ईदृशं पावनं तीर्थं माघमासे विशेषत: ॥२२॥जाताsहं येन चार्वङ्गी तत्पुण्यं ते वदाम्यहम् ॥येन स्वर्गेsप्यहं मान्या रूपलावण्यरञ्जिता ॥२३॥अहं विलासिनी पूर्वं कलिङ्गेशस्य भूभुज: ॥रूपलावण्यैकनिधि: सौन्दर्यमदगर्विता ॥२४॥योषितामपि सर्वासामहमासं शिरोमणि: ॥तत्र मेsनुग्रहाद्राज्ञो भुक्ता भोगा: सुदुर्लभा: ॥२५॥स्वीकृतं तत्पुरं सर्वं मया लावण्यसंपदा ॥चित्राण्यनेकरत्नानि भूषणानि वराणि च ॥२६॥मनोहराणि वासांसि भोगा अपि च सर्वश: ॥भूपान्मयार्जितं सर्वं सदा मोहनरूपया ॥२७॥अनादृता अपि बलाद्रूपसंपत्तिदर्पिता: ॥संसेवन्ते युवानो मे चरणौ कामकिंकरा: ॥२८॥मया ते वञ्चिता: सर्वे सर्वस्वेनैव मायया ॥तेsन्योन्यं सेर्ष्यभावेन घातयन्तोsमिता मृता: ॥२९॥इत्थं कामवशादेव बहुकालो गतोsसुर ॥संप्राप्ते स्थाविरे दैवाद्विवेकोsयं ममाभवत् ॥३०॥न दत्तं न हुतं तप्तं व्रतं नाचरितं मया ॥नाराधितो मया देव: शिव: स्वर्गापवर्गद: ॥३१॥नैव संतर्पिता विप्रा न कृतं प्राणिनां हितम् ॥नाणुमात्रं कृतं पुण्यं सदा मे भोगलुब्धया ॥३२॥चर्मखण्डं पापकुण्डं क्रीतं मे तेन किंसुखम् ॥दुर्वाराधं तत: प्राप्तं दह्यते मेsधुना मन: ॥३३॥नास्यं मेsद्य विवर्णाया: पश्यन्ति मयि ये रता: ॥किं करोमि क्क याम्यद्य शरणं कुधिय: क्क मे ॥३४॥एवं विलप्य बहुशो गत्वा निर्वेदमुत्तमम् ॥दृष्ट्वागमं द्विजं शान्तं शरणं निर्वेदमुत्तमम् ॥३५॥सर्वं निवेदितं तस्मै जन्मप्रभृति यत्कृतम् ॥सुशील: सोsवदत्पापे दुराचारासि यद्यपि ॥३६॥छित्त्वाsसङ्गासिनाssमूलात्संसारद्रुममुन्नतम् ॥सात्त्विकीं धृतिमास्थाय शंकरं शरणं व्रज ॥३७॥आबाल्यं पापसंभूतं निषिद्धाचरणं तव ॥तन्निष्कृत्यै तथाप्यद्य प्रायश्चित्तं वदामि ते ॥३८॥कालिन्द्या सङ्गता गङ्गा यत्र गुप्ता सरस्वती ॥तत्र स्नानेन ते शुद्धिस्त्वं कृतार्था भविष्यसि ॥३९॥न तादृक् पावनं तीर्थं त्रैलोक्ये सद्गतिप्रदम् ॥पापोsपि मुच्यते स्नानमात्रादेवाशुभादिह ॥४०॥स्वल्पं पापं महद्वाsपि मनोवाक्कायजं हि यत् ॥त्रिवेणीस्नानमात्रेण विलयं यात्यसंशयम् ॥४१॥नानेन सदृशं तीर्थं सदृङ् नानेन पावनम् ॥आशु स्वर्गतिदं नेदृक् प्रसिद्धं यच्छ्रुतिष्वपि ॥४२॥नेक्षन्ति दुर्धियोsपीदृगतस्तेषां सुदुर्मति: ॥पारदार्याघतो मुक्त इन्द्रोsपीह श्रृणुष्व तत् ॥४३॥इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां श्रीवासुदेव्यां कर्मकाण्डे सप्तमाष्टके सप्तमोsध्यय: ॥७॥॥ इति सद्गुरुणा माघस्नानविधिरक्षोप्सरस्संवादकथनं नाम सप्त० सप्त० ॥७।७॥ N/A References : N/A Last Updated : May 07, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP