संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीदत्तपुराणम्| सप्तमाष्टक| प्रथमोsध्याय: सप्तमाष्टक प्रथमोsध्याय: द्वितीयोsध्याय: तृतीयोsध्याय: चतुर्थोsध्याय: पञ्चमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: अष्टमोsध्याय: सप्तमाष्टक - प्रथमोsध्याय: श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् " Tags : dattagurudattavasudevanand saraswatiगुरूदत्तदत्तवासुदेवानंदसरस्वती अथ कर्मकाण्डम् सुन्दोपसुन्दचरितं नाम सप्तमाष्टके प्रथमोsध्याय: Translation - भाषांतर हरि ॐ ॥ प्रणम्य तं जगद्योनिमनाद्यन्तं त्र्यधीश्वरम् ॥तदीरितो ब्रुवे कर्मकाण्डं तं भक्तिभावनम् ॥१॥अहिंसाद्यष्टगुणयुक् द्विजो नियतकर्मकृत् ॥ब्राह्मं पदमवान्पोति न भूयश्च्यवते तत: ॥२॥भक्तिज्ञानकृतं यत्तच्छ्रुत्युक्तं वीर्यवत्तरम् ॥नि:श्रेयसं कर्मणां हि धार्यते शब्दलक्षणम् ॥३॥स्फुटं वैदिकशब्दार्थ: स्मृत्युक्तं चापि लौकिकम् ॥यस्याकर्मणि दोषस्तं नियतं प्रजनोदितम् ॥४॥तत्संस्कृतत्रिवर्णानां वेदाध्ययनमप्युत ॥पत्याधिक्रियते पत्नी न पृथुक् चान्यथाsन्यवत् ॥५॥मन्त्रपाठश्रवणयोर्दोषश्चास्या व्रतादिके ॥गौश्छेद्यान्त्यस्य वेदोक्त्या त्रपुच्छाद्ये श्रुती श्रुतौ ॥६॥विप्रोक्ताश्रौतमन्त्रैस्तु क्रिया पत्याज्ञया स्त्रिया: ॥स्तेयदोष: प्रोषिते च पत्यौ नैमित्तिके कृते ॥७॥गृहिद्विजस्य नियतमाधानं तु विवाहत: ॥ततो होमौ पार्वणेष्टी चातुर्मास्यं च संभवे ॥८॥पशुसोमो वा तु ते दुर्बाह्मण्यादिहरा यत: ॥सायंप्रातर्भोजनर्तुमतीस्वस्त्रीगमादिकम् ॥९॥परिसंख्यात: संध्यावत्पञ्चयज्ञाश्च पैतृकम् ॥आगन्तुसाधनं त्वत्र वक्ष्येsथो दत्तसंमतम् ॥१०॥प्रियशिष्योsर्जुन: श्रीशमेकदैत्य प्रणम्य तम् ॥पप्रच्छाsप्सु महाशीते प्रात: क्लिश्यन्त्यमी कुत: ॥११॥श्रीदत्त: प्राह राजेन्द्र त्रय्योपायोsयमीरित: ॥विस्मृतात्मस्वरूपाणां सदा नानासुखार्थिनाम् ॥१२॥सत्त्वशुद्धिकरो रम्य: शनैश्चित्तप्रकाशक: ॥माघस्नानादिरूपोsत्र सकामोsप्याशु तारक: ॥१३॥किं शरीरेण पुष्टेन रक्षितेन बलीयसा ॥अनित्येनाशुद्धजेन स्वतोsप्यशुचिनाsमुना ॥१४॥अस्थिस्तंबस्नायुबद्धं रक्तमांसविलेपितम् ॥चर्मबद्धं सुदुर्गन्धं मलमूत्रादिपूरितम् ॥१५॥जराशोकविपव्द्याप्तं तापरोगालयं जरत् ॥नित्यं रजस्वलं सर्वदोषदूषितमातुरम् ॥१६॥परोपतापपापार्तिपरद्रोहादिकारणम् ॥लोलुपं पिशुनं क्रूरं कृतघ्नं क्षणभङ्गुरम् ॥१७॥सच्छिद्रमनुविस्रावि तापसोढादिकारणम् ॥दु:पूरं दुर्धरं दृप्तं तृष्णाव्याप्तं च मोहदम् ॥१८॥निसर्गतोsधर्मरतं दुष्टं जरदनुक्षणम् ॥नानासंबन्धममताहन्ताबन्धादिकारणम् ॥१९॥सदा कामक्रोधलोभनरकद्वारसंस्थितम् ॥कृमिविड्भस्मरूपान्तं परिणामे शुनां हवि: ॥२०॥ईदृशेन शरीरेण बुद्बुदा इव वारिणि ॥जायन्ते च म्रियन्ते च जीवास्तेषां सुदुर्गति: ॥२१॥अत एतादृशे लब्धे शरीरे बहुपुण्यत: ॥यो योजयति धर्मे स दुर्गें तरति नेतर: ॥२२॥मकरस्थे रवौ यो हि शीतर्तोsप्युदिते रवौ ॥स्नाति पापैर्विमुक्त: स क्रमाद्ब्रह्माधिगच्छति ॥२३॥माघमासे रटन्त्याप ईषदभ्युदिते रवौ ॥महापापमपि क्षिप्रं स्नानमात्रात्पुनीमहे ॥२४॥ज्ञानतोsज्ञानतो वापि वाङ्मन:कायजं ह्यघम् ॥स्वल्पं वापि महद्वापि माघस्नानात्प्रणश्यति ॥२५॥एतदर्थं पुरावृत्तं श्रृणु राजर्षिसत्तम ॥ऋचीका नाम कल्याणी ब्राह्मणी भार्गवी शुभा ॥२६॥बालवैधव्यदु:खार्ता तपस्तेपे सुदारुणम् ॥विन्ध्याचले महाक्षेत्रे रेवाsत्रामरकण्टके ॥२७॥महाव्रता तत्र साsभून्नारायणपरायणा ॥सदाचारान्विता नित्यं दुष्टसंसर्गवर्जिता ॥२८॥मित्सत्याल्पवाक् शान्ता जितकामा जितेन्द्रिया ॥सुशीला धर्मनिरता देहशोषणशालिनी ॥२९॥पितृदेवद्विजार्थिभ्यो दत्तमग्नौ तया हुतम् ॥उञ्छवृत्त्या षष्ठभागे भुङ्क्ते सापि यथाविधि ॥३०॥पराकतप्तकृच्छ्रातिकृच्छ्रचान्द्रायणव्रतै: ॥श्रीविष्णुचिन्तनेनैव कालं नयति सर्वदा ॥३१॥संस्नाता: कपिले रेवासंगमे विधिवत्तया ॥षष्टिमाघास्ततो दैवान्मृता तत्रैव सा सुखात् ॥३२॥माघस्नानादिपुण्येन वैकुण्ठं प्राप साsमला ॥क्रीडन्ती सुविमानेन चतुर्युगसहस्रकम् ॥३३॥सुन्दोपसुन्दनाशार्थं विधिनोत्तारिता पुन: ॥विष्णुं प्रार्थ्य ब्रह्मलोके नाम्नाsभूत्सा तिलोत्तमा ॥३४॥रूपलावण्यसौन्दर्यधीचातुर्यप्रभाखनि: ॥स्त्रीरत्नमुत्तमं साsभूद्देवानामपि मोहिनी ॥३५॥विधातुर्निपुणस्यापि साsभवच्चित्तहारिणी ॥न काsप्यप्सरसां मध्ये सौन्दर्यलहरीदृशी ॥३६॥तां सत्कृत्य विधि: प्राह देवि याहि तिलोत्तमे ॥त्रिलोकीकण्टकौ सुन्दोपसुन्दावसुरौ जहि ॥३७॥तथेत्युक्त्वाsथ सा वीणां रणन्त्याप महीतलम् ॥ब्रह्मलोकात्खमार्गेण यत्र तौ दुनजौ स्थितौ ॥३८॥पूर्वमाप्लुत्य रेवाया: पवित्रे निर्मले जले ॥परिधायाम्बरं रक्तं चोलीं विद्युत्प्रभां दृढाम् ॥३९॥सिञ्जन्नूपूरवलयां मुक्तावल्या श्रितस्तनीम् ॥पदे पदे केशपाशपतत्सुमनसं तु ताम् ॥४०॥गायन्तीं सुस्वरं प्रेक्ष्य सुस्निग्धं कोमलं कलम् ॥वल्लकीं वादयन्तीं च दूतो गत्वाsसुरौ जगौ ॥४१॥युवां रत्नभुजौ लोके स्त्रीरत्नं चेदृशं प्रभू ॥गत्वाsशोकवने शीघ्रं पश्यतां काममोहिनीम् ॥४२॥सुन्दोपसुन्दावसुरौ तच्छ्रुत्वैवाशनादिकम् ॥त्यक्त्वा ससीधुपात्रं स्त्रीरत्नकोटीश्च तामितौ ॥४३॥भिन्नदेहावपि पुरा भ्रातरावेकमानसौ ॥तां दृष्ट्वैव तदा जातौ मोहितौ भिन्नमानसौ ॥४४॥भ्रातर्विरम भार्येयं ममैवास्तु वधूत्तभा ॥त्वमेवार्य त्यजैनां मे भार्याsस्त्विति परस्परम् ॥४५॥मत्तेभाविव संरब्धौ गदया तौ परस्परम् ॥जघ्नतु: संप्रहारेण मृतौ द्वावपि तत्क्षणम् ॥४६॥कृत्वैवं देवकार्यं सा ब्रह्मलोकं गता पुन: ॥ब्रह्मा तामाह सत्कृत्य तिष्ठ त्वं सूर्यमण्डले ॥४७॥भुक्त्वा भोगाननेकांस्त्वं सूर्येण सह संचर ॥आकल्पं ब्रह्मसायुज्यं ततो गच्छ ध्रुवं शुभे ॥४८॥इत्युक्त्वा सूर्यलोकं सा गतैवं कृतकृच्छ्रत: ॥उदारेदृक् फलं लेभे तत: किं देहलालनात् ॥४९॥इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यं त्रिकाण्डमण्डितायां संहितायां श्रीवासुदेव्यां कर्मकाण्डे सप्तमाष्टके टीकायां प्रथमोsध्याय: ॥१॥॥ इति सुन्दोपसुन्दचरितं नाम सप्तमाष्टके प्रथमोsध्याय: ॥७।१॥ N/A References : N/A Last Updated : May 07, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP