षष्ठाष्टक - पञ्चमोsध्याय:
श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "
हरि ॐ ॥ आ त्वावतोsपि सर्वेषां मनोहारि जगद्गुरो ॥
धर्म्यं यशस्यमायुष्यमवाचि चरितत्रयम् ॥१॥
आसीद्राजा यदुर्नाम सोमवंश्यो महामति: ॥
धर्मात्मा नीतिमान्दक्ष: श्रीदत्तार्चनतत्पर: ॥२॥
राज्यं शशास बह्वब्दं कदाचित्पर्यटन्स गाम् ॥
ददर्श निर्भयं दक्षमवधूतं कविं सुधी: ॥३॥
तं नत्वोचे जन: प्राय: श्र्यायु:कीर्त्यृद्धिहेतुक: ॥
पुमर्थानीहते त्वं तु कल्पोsपि न तथा कथम् ॥४॥
तप्यमाने जने कामवह्निनाsपि न तप्यसे ॥
निष्कामोsसि कुतोsकर्ता रोचते चेद्वद प्रभो ॥५॥
इत्युक्तस्तं प्रभु: पुंसा श्रेयसे प्राब्रवीत्परम् ॥
तत्त्वं बुध्द्याश्रितगुरुशिक्षितज्ञानमात्मन: ॥६॥
मदर्चकोsस्यतो राजन्समाधाय मन: श्रृणु ॥
चतुर्विंशतिराचार्या: सन्ति मे बुध्द्युपाश्रिता: ॥७॥
यच्छिक्षयेदृशो भूमा मुक्तसङ्गश्चरे महीम् ॥
वक्ष्ये येभ्यो मया यद्यच्छिक्षितं शीघ्र्मुक्तिदम् ॥८॥
न दैवानुगभूतार्त: क्ष्मेव धीर: सृतेश्चलेत् ॥
सदा परार्थोद्भवेहो नगाच्छिक्षेत्परात्मताम् ॥९॥
प्राणवृत्त्याsक्षिप्तहृद्वाग्विद्भृत्तुष्येन्न गोप्रियै: ॥
तद्भुग्दोषगुणास्पृग्विधर्मासक्तश्च देहग: ॥१०॥
गुणाश्रयो गुणैर्युज्येन्न गन्धैर्वायुवत्स्वदृक् ॥
कालोत्थगुणतेजोsब्भूमयभावस्पृगित्पुमान् ॥११॥
वायूत्थाद्वास्पृक्खवच्चान्तस्थेनाभिदसंगती ॥
भाव्ये सर्वान्वयव्याप्त्या ब्रह्मात्वत्वात्ततात्मन: ॥१२॥
रस्य: स्निग्ध: प्रकृत्याच्छोsज्ञोब्वधाम्ना पुनाति नॄन् ॥
छन्न: स्पष्टोsपि काम्यर्च: प्रागुदग्दात्रघं दहन् ॥१३॥
क्कापि भुङ्क्ते तपस्तेजोदीप्तोsक्षोभ्योsपरिग्रह: ॥
मलास्पृक् सर्वभक्षोsपि ज्ञोsग्निवच्चेन्धसीयते ॥१४॥
तत्तद्रूप: स्वमायोत्थोच्चासत्स्थेशोsग्निहेतिवत् ॥
कालान्नित्येsपि दृश्येते नात्मभूतोद्भवक्षती ॥१५॥
देह: कलावद्विकारी कालेनात्माsव्जवद्ध्रुव: ॥
भात्यात्मा तत्स्थवद्व्यक्तो न स्वस्थो बुध्यतेsर्कवत् ॥१६॥
स्थूलबुध्द्याsर्कवद्गोभिर्गा यथास्वं गुणैर्गुणान् ॥
आदत्ते विसृजत्यत्र सदा योगी न युज्यते ॥१७॥
नातिस्नेहप्रसङ्गाक्तो नश्येद्दीन: कपोतवत् ॥
कश्चित्कपोत: कपोती क्रीडादौ चेरतुर्वने ॥१८॥
प्रेम्णाsशङ्कं मिथो बद्धध्यक्ष्यङ्गौ पाति स श्रमात् ॥
तर्पयन्ती साsसूताsर्भांस्तांस्तौ पुपुषतुर्मुदा ॥१९॥
कदाचिल्लुब्धको नीडाद्बहि:स्थांस्ताञ्छिचाददे ॥
क्रोशन्तीं पतितान् दु:खात्तां तं चापस्मृतिं तथा ॥२०॥
द्वन्द्वराम: प्रियाsशान्तो ग्रुहासक्तो विवन्नर: ॥
क्रान्तापावृतमुक्तिद्वार्नुजन्मच्युत एव स: ॥२१॥
क्काप्यस्त्यैन्द्रियसौख्यं तन्नेच्छेदाजगरोsक्रिय: ॥
यदृच्छयाssप्तं महान्तं ग्रासं वाsल्पं रसारसम् ॥२२॥
भक्षेच्चेन्नाप्तोsनशनो दैवभुक् सर्पवत्स्वपन् ॥
विनिद्रोsक्रियबल्यङ्गधृग्गोमानपि नेहते ॥२३॥
पूर्णो हीनोsप्यजपरो न सर्पति न शुष्यति ॥
ज्ञोsब्धिवत्सिन्धुभिर्निंम्नोsनन्तपारो दुरत्यय: ॥२४॥
सदाsक्षोभ्यो दुर्विगाह्य: प्रसन्नस्तिमिताब्धिवत् ॥
नाsवशोsग्नौ विवन्नश्येत्स्त्रीलीलारूपमोहित: ॥२५॥
गृह्णीयात्सर्वत: सारं रमेन्नैकत्र चाल्पभुक् ॥
संग्रहे नाशबीजेsपि मधुकृद्वन्मुनि: सदा ॥२६॥
बध्येत नाङ्गनास्पर्शाच्छूरैर्हन्येत वेभवत् ॥
अन्योsकात्संचितं लुब्धैर्न भुक्तं नार्पितं धनम् ॥२७॥
भुङ्क्तेsकार्जितगृह्यन्नं प्राग्भिक्षुमधुहेव च ॥
ना बध्येतैणवद्गीतान्नृत्याद्वाsप्यृष्यशृङ्गवत् ॥२८॥
प्रमाथिजिह्वया नैति बडिशैर्मत्स्यवल्लयम् ॥
जय्याल्पभुक्त्या साsसक्त्या जितं सर्वं जिते रसे ॥२९॥
वेश्यैकार्थदकान्ताशा ध्वस्तनिद्रा सुखावहम् ॥
चिन्ताहेतुं हि निर्वेदं गत्वाssत्मस्थं रतार्थदम् ॥३०॥
रामं हित्वा कुवृत्त्याsन्यं भीशुड्मोहदमध्रुवम् ॥
काड्क्षे धिङ् मात्मनात्मानं रमे क्रीत्वाsमुनेति सा ॥३१॥
भत्वा तथाsभूध्द्याशा कं नैराश्यं परमं सुखम् ॥
परिग्रहोsकाय तज्ज्ञोsस्वोsप्यनन्तसुखायते ॥३२॥
सामिषं कुररं हन्ति शूरोsतो व्यामिष: सुखी ॥
मानावमानचिन्तोन: स्वक्रीड: स्वरति: सुखी ॥३३॥
बालवद्धि जडोsज्ञोsर्भश्चात्मानन्दो गुणातिग: ॥
भंक्त्वैकैकं महारावान् रणन्तौ द्वौ कुमार्यपि ॥३४॥
पाण्योर्धृत्वैकैकशङ्खं रह:कृत्येsलभत्सुखम् ॥
कलिर्भूम्नि द्वयोर्वार्ता ह्येकस्तच्छङ्खवच्चरेत् ॥३५॥
एकचार्यप्रमत्तोsल्पवाग्गुहास्थोsगृहो मुनि: ॥
एकोsहिवद्वत्यलक्ष्यो गृहारम्भोsध्रुवात्मन: ॥३६॥
विफलोsकायसर्पोsन्यकृतधाम्न्येधते सुखम् ॥
जितश्वासासनेनेशे वैराग्याभ्यासबद्धहृत् ॥३७॥
संयुक्तं वासनां मुक्त्वा सत्ववृध्द्यैत्यनिन्धनम् ॥
निर्वाणं वेत्यतो नान्तर्बहिस्थं मुनिरात्मदृक् ॥३८॥
यथेष्वितात्मेषुकृन्नो वेदेनं यान्तमग्रत: ॥
प्रेम्णाsप्य्चलहृध्द्यानाद्विष्णो: सारूप्यमेति ना ॥३९॥
प्राग्रूपमुत्स्रुजन्पेशस्कृध्द्यानात्कीटवद्द्रुतम् ॥
यथोर्णनाभिस्ततोर्णाविहार्यन्तेsत्ति तां तथा ॥४०॥
प्राक्खमायासृष्टमेक: संहृत्याsभूत्क्षयेsद्वय: ॥
शक्त्याsखिलाश्रय: सर्वेट् कालेनात्मानुभावत: ॥४१॥
साम्येतसत्वादिशक्ति: प्रधानपुरुषेडज: ॥
व्युपाधि: परमानन्दो मोक्षाख्य: स: परावर: ॥४२॥
गुणात्मिकां स्वमायां स क्षोभयन्स्वानुभावत: ॥
तया सृजति सूत्रं सा त्रिगुणा शक्तिरासृजत् ॥४३॥
विश्वं यस्मिन्प्रोतमेतद्येन संसरते पुमान् ॥
देहात्स्तो बोधवैराग्ये पारक्यात्सोद्भवक्षयात् ॥४४॥
आत्मेष्टभृत्सृष्टबीज: प्रियेच्छुर्नश्यति द्रुवत् ॥
गाव: स्वार्थे सपत्नीवत्तं लुनन्ति हि दुर्लमम् ॥४५॥
मत्वा नृजन्म तद्वित्क्ष्मां चरेन्मुक्तोsनहंकृति: ॥
तच्छ्रुत्वा समचित्तोsभून्मुक्तसङ्गो यदुर्द्रुतम् ॥४६॥
कृतार्चनप्रभावेन संजातत्र्यात्मदर्शन: ॥
तेनैव बोधित: साक्षात्सोsयमात्मेति वेद तम् ॥४७॥
नत्वा त्रीशं तदादिष्टो यदु: स्वैरं चचार गाम् ॥
तद्रूपं पूजयन्विश्वं सत्तास्फूर्त्यन्वितं मितम् ॥४८॥
दत्तप्रसादात्तद्वंशविस्तरोsभूदिहोन्नत: ॥
कृष्णोsज: सकलो वृष्णिकुले भूभारहाsभवत् ॥४९॥
स्वान्तं मत्वा स्वसु: पुत्राद्देवक्यास्तां च तत्पतिम् ॥
वसुदेवं निगृह्यार्भांस्तयो: कंसो जघान षट् ॥५०॥
तद्गर्भ: सप्तमोsजांशो रोहिण्यां मायया व्रजे ॥
क्षिप्त ईशाज्ञया सोsथ बलभद्राभिधोsभवत् ॥५१॥
देवक्या: प्रादुरासाज: स्वधाम्ना प्राह मां व्रजे ॥
नन्दजां चानयहेति पितरं स तथाकरोत् ॥५२॥
कैरपीदं न च ज्ञातं विष्णुमायाप्रभावत: ॥
तत्कन्यां हन्तुमुद्युक्तात्कंसात्साप्युत्पपात खे ॥५३॥
सा माया प्राह रे दुष्ट त्वच्छत्रु: क्कापि वर्धते ॥
तच्छ्रुत्वा दुष्टसङ्गी स बालान्हन्तुं समुद्यत: ॥५४॥
तेनेरिता पूतनैत्य व्रजे स्तन्यमिषाद्विषम् ॥
कृष्णायापाययत्सोपि पपौ तदसुभि: समम् ॥५५॥
बकधेनुकवात्याघकेश्यादीन्कंसचोदितान् ॥
समागतान्स्वनाशार्थं मायार्भोsप्यहनद्धरि: ॥५६॥
धात्रा कृष्णपरीक्षार्थं वत्सपालास्तदग्रत: ॥
नीता: स्वलोकं तद्गर्वं तादृक्सृष्टिकरोsहरत् ॥५७॥
तत्स्नेहबद्धो भगवान्गव्यस्तेयादिलीलया ॥
व्रजस्थान्हर्षयञ्छ्रीदपुत्रशापमपाकरोत् ॥५८॥
ववर्ष कल्पवद्गोष्ठे गर्वितेन्द्रोsपमानत: ॥
गोवर्धनधरोsरक्षत्सप्ताब्दोsपि हरि: स्वकान् ॥५९॥
भक्तिं ज्ञात्वा व्रताद्गोपीरासोल्लासभरो निशि ॥
वेणुध्वन्याहूय सर्वा रमयामास सर्वश: ॥६०॥
यथाssप्तकामोsप्यात्मैको बुद्धिवृत्ती: सहस्रश: ॥
तदन्तस्थो रमयतीवानुरूपस्तथाप्ययम् ॥६१॥
एवमाद्या व्रजे लीला: कृत्वाssनीत: पुरं हरि: ॥
कंसं समल्लं लीलातोsहनद्रेमे च कुब्जया ॥६२॥
यवनं घातयित्वा तु जरासंधबलापहा ॥
निर्माय द्वारकामुग्रं यादवेशं चकार स: ॥६३॥
श्रीरुक्मिणीं स्वयं वव्रे प्रमथ्य तरसा नृपान् ॥
जघान शिशुपालादीन्पाण्डवेभ्योsपरानरीन् ॥६४॥
भौमं हत्वा षोडशस्त्रीसहस्रेशोsभवत्स्वयम् ॥
कृत्वाप्यर्जुनसारथ्यमुत्तीर्य च भुवो भरम् ॥६५॥
स्वकुलं ब्रह्मशापेन मत्तं नाथोsप्यनाशयत् ॥
भूभारोsपि हृतो येन कल्पं धामापि तज्जहौ ॥६६॥
कण्टकं कण्टकेनेव द्वयं चापीशितु: समम् ॥
लोकं सपरिवारोsगाद्भूयोsपि हि दयानिधि: ॥६७॥
स गीताद्यात्मभूतं स्वभक्तोद्धृत्यै निधाय सत् ॥६८॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां वासुदेव्यामुपासनाकाण्डे षष्ठाष्टके पञ्चमोsध्याय: ॥५॥
॥ इति यदवे चतुर्विंशतिगुर्वाप्तज्ञानदानं कृष्णावतारकथनं नाम षष्ठा० पञ्च० ॥६।५॥
N/A
References : N/A
Last Updated : May 07, 2016
TOP