षष्ठाष्टक - चतुर्थोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


हरि: ॐ ॥ त्वावत: पाहिन: शिष्यानित्यङ्घ्र्यो: पतितं मुनि: ॥
उत्थाप्यालिङ्ग्य नहुषं मूर्ध्न्यवघ्राय सोsब्रवीत् ॥१॥
ब्राह्मणा: पितरो देवा दुरितात्पान्तु रोदसी ॥
पूषा च मा प्रभवतु दु:शंस: सर्वथा जय ॥२॥
इति प्रस्थापयामास लब्धाशी: सोsपि तं गुरुम् ॥
भक्त्या प्रणम्य श्रीदत्तं संस्मृत्य नहुषोsब्रवीत् ॥३॥
यो निषेकप्रभृत्यद्य यावत्स्नेहाद्ररक्ष माम् ॥
स चात्रिनन्दनो युद्धे जयं दत्त्वाsवतु प्रभु: ॥४॥
सदा सुगोsस्तु पितुमान्पन्था माsवन्तु देवता: ॥
विजये सुभगो मेsस्तु पुनश्चागमनं सुखात् ॥५॥
यं युध्यामाना अवस आह्वयन्तीन्द्र स त्वमित् ॥
यतो बिभेमि मघवंस्ततो मामभयं कुरु ॥६॥
एवमुक्त्वा प्रतस्थेsसौ हन्तु हुण्डासुरं तदा ॥
पुष्पाणि ववृषुर्देवा नेदुर्दुन्दुभयो दिवि ॥७॥
मृगा: प्रदक्षिणं जग्मू राज्ञोsस्य शुभसूचका: ॥
दृष्ट्वा तं विरथं प्राह शक्रोsप्याहूय सारथिम् ॥८॥
साश्वं रथं गृहीत्वा त्वं शीघ्रं सोपस्करं भुवि ॥
नहुषस्य सहायार्थमाहवे गच्छ मातले ॥९॥
इत्याज्ञप्त: स हर्यश्वं गृहीत्वा सायुधं रथम् ॥
नहुषं प्राप्य देवेन्द्रप्रेरितोsस्मीत्युवाच तम् ॥१०॥
सवर्मेषुधिचापास्त्रं सच्छत्रमुकुटध्वजम् ॥
रथमास्थाय हर्यश्वं दिव्यं रथं हुण्डासुरं जहि ॥११॥
तच्छ्रुत्वा नहुषो हृष्टो रथं नत्वाssरुरोह तम् ॥
पायूक्तमन्त्रै: संनद्धो ययौ हन्तुं महासुरम् ॥१२॥
किरीटी कवची छत्री रथी धन्वी सुषारथि: ॥
श्रीदत्तगुप्तो नहुष: शुशुभे खे रविर्यथा ॥१३॥
विज्ञायात्रान्तरेsशोकसुन्दर्या नहुषागमम् ॥
आगत्य प्रेरिता रम्भा दीना नहुषमब्रवीत् ॥१४॥
प्राप्ताsस्म्यशोकसुन्दर्यास्तपस्विन्प्रेरितेह भो: ॥
हुण्डं हत्वा चिरं रुद्धां तामुद्वोढुं त्वमर्हसि ॥१५॥
राजाssह रम्भे गच्छ त्वं ज्ञातं सर्वं मयाssदित: ॥
हते हुण्डासुरे देव्या दर्शनं मे भविष्यति ॥१६॥
इत्युक्ता सा ययौ रम्भा नहुषोsप्यसुरालयम् ॥
अत्रान्तरे सहायार्थं प्रापुर्दैत्यारिसैनिका: ॥१७॥
सिद्धगुह्यकगन्धर्वयक्षविद्याधरोगगै: ॥
कृतं कलकलाशब्दं श्रुत्वा भीतोsसुरोsब्रवीत् ॥१८॥
दूत गच्छागत: कोsसौ कुतोsरि: किंबलोsस्त्यमुम् ॥
ज्ञात्वैहि शीघ्रं यत्नेन युज्येतात: प्रतिक्रिया ॥१९॥
गत्वा दूतोsपि यत्नेन ज्ञात्वैत्याहायुरात्मज: ॥
शूर इन्द्ररथारूढो नहुषो जेय आगत: ॥२०॥
इत्याकर्ण्यासुर: क्रुद्धो भार्यां दासीं च बल्लवम् ॥
हतो न वाsर्भो ब्रूतेति पप्रच्छ स पुन: पुन: ॥२१॥
ते हतो भवता लीढ: सत्यमित्यूचुरासुर: ॥
तर्ह्येवं प्रतिकूलं किं दैवं मे किं करोम्यत: ॥२२॥
इत्युक्त्वाssहूय सकलान्दैत्यान्प्राहोग्रशासन: ॥
सर्वैर्योद्धुं मया सार्धं गन्तव्यं द्रागसंशयम् ॥२३॥
ये भीरवो न यास्यन्ति तान्हन्मीह क्षणार्धत: ॥
इत्यादिश्यासुरान्योद्धुं सन्नद्धोsगात्स तै: सह ॥२४॥
रथी हुण्डो ददर्शैत्य ककुत्स्थं नहुषं रिपुम् ॥
शूरमिन्द्ररथारूढं चण्डार्कमिव दुर्धरम् ॥२५॥
सेनानी: प्रेरयामास युयुधुस्तेsपि दैवतै: ॥
शूलशवत्यृष्टिपरशुप्रासखङ्गेषुभिर्भृशम् ॥२६॥
महारथा महेष्वासा: शरजालैर्निषादिन: ॥
कृतप्रतिकृता दैत्या अकुर्वन्पीडितान्सुरान् ॥२७॥
दृष्ट्वाssर्तान्नहुषो देवान्विष्कार्यैन्द्रं धनू रिपून् ॥
ज्याशब्देनाकरोद्भ्रान्तान्मूर्च्छितान्युयुधे भृशम् ॥२८॥
मुमोच तेषु बाणौघान्स तोयानीव तोयद: ॥
बलिनोsपि खरैर्विद्धा नेशुस्ते नहुपेषुभि: ॥२९॥
न दिवा न निशा यत्र भ्राजते तुमुले तराम् ॥
एक एव रणे वीरो नहुषो ययुधेsरिभि: ॥३०॥
चापांश्चिच्छेद केषांचित्स्यन्दनान्साश्वसारथीन् ॥
बाहूंश्चिच्छेद केषांचिद्भुवि शीर्षाण्यपातयत् ॥३१॥
दैत्यान्कांश्चिद्द्विधा चक्रे कांश्चिन्मध्ये विदारितान् ॥
केचिन्मृता निपतिता भीता: केचिज्जहू रणम् ॥३२॥
हस्तिनो वाजिनो विद्धा मृता भग्ना रथा अपि ॥
असुराणां ववू रक्तस्रवन्त्यो मांसकर्दमा: ॥३३॥
हाहाकारो महानासीद्धुण्डसैन्ये तदा सुरा: ॥
नहुषं मुनयोsप्यूचू राजन्स्वस्त्यस्तु ते जय ॥३४॥
क्षीयमाणबलं दृष्ट्वा शत्रुं च जितकाशिनम् ॥
क्रुद्धो हुण्ड: समभ्येत्य नहुषं प्राह भीमवाक् ॥३५॥
मा गर्ज गर्ज मर्त्योत्थ हुण्डोsस्मीह प्रतापवान् ॥
जीवन्नैष्यसि पश्चात्त्वं सह देवैर्ममाग्रत: ॥३६॥
शास्ता शूरोsस्मि जगतां दु:सहं किं न वेत्सि माम् ॥
जीवनेच्छाsस्ति चेदेहि शरणं मां गतायुध: ॥३७॥
राजाssह सोमवंश्यस्य चरितं क्कापि नेदृशम् ॥
शूरोsसि यदि युध्यस्व वावदूकतयाsत्र किम् ॥३८॥
स्थिरोsस्मि समरे धीरो विद्धि त्वां हन्तुमागतम् ॥
जनन्यो मे प्रसूताया महादु:खं त्वया कृतम् ॥३९॥
मां हन्तुमुद्यतस्यापि तव प्राणहरोsस्म्यहम् ॥
दत्तात्रेयाभिगुप्तोsस्मि को मूढो मां प्रधर्षयेत् ॥४०॥
इत्युक्त्वा निष्ठुरं चापमुद्यम्याकर्णमाशुगान् ॥
संधाय मातलिं प्राह दैत्यचेष्टां प्रदर्शयन् ॥४१॥
मातले पश्य मायावी परिभ्रमति मायया ॥
तमालक्ष्य रथं शीघ्रं वाहयस्वाद्य हन्मि तम् ॥४२॥
इत्युक्त: सम्मुखे तस्य निदधौ मातली रथम् ॥
हुण्डोsप्यपश्यन्नहुषं दुर्धर्षमिव भास्करम् ॥४३॥
तयोर्विक्रमतोरेवं देवर्ष्याश्चर्यकारकम् ॥
कृतप्रतिकृतं युद्धं परस्परजयैषिणो: ॥४४॥
शक्त्यृष्टितोमरासीषुगदाशूलपर्श्वधै: ॥
दिव्यास्त्रमन्त्रितो हुण्डो जघान नहुशं भृशम् ॥४५॥
नहुषोsप्येकबाणेन सर्वांश्चिच्छेद लीलया ॥
अमितान्यपि वाक्यानि सिद्धान्तीकैकवाक्यत: ॥४६॥
नहुषत्यक्तबाणेन छिन्नो भिन्नो महासुर: ॥
रेजे पुष्पितपर्णाभश्चचाल च मुमोह च ॥४७॥
धैर्यं धृत्वा तथाप्युग्रो बाणैराच्छाद्य तं नृपम् ॥
तेने जिघांसया मायां जगर्जोच्चै: पुन: पुन: ॥४८॥
आच्छन्नं नहुषं दृष्ट्वा गर्जमानं च दानवम् ॥
विषादं मुनयो देवा जग्मुरिन्द्रपुरोगमा: ॥४९॥
विषण्णान्वीक्ष्य देवादीन्महाबाहु: प्रतापवान् ॥
दूरीकृत्याssसुरीं मायां संरब्धो युयुधे भृशम् ॥५०॥
छित्त्वा चापं रथं साश्वं शीघ्रं हुण्डस्य सारथिम् ॥
हत्वाsस्मै दर्शयामास्य नहुषो हस्तलाघवम् ॥५१॥
सोsप्यन्यं रथमास्थाय मुक्तवाञ्छक्तिमुल्बणाम् ॥
नहुषेण निरस्ता सा कृत्वा बाणेन खण्डश: ॥५२॥
गुरुं प्रणम्य संस्मृत्य विजयं चात्रिनन्दनम् ॥
धन्वाकर्णं समाकृष्य युगपत्संदधे शरौ ॥५३॥
तिग्मौ तावर्धचन्द्राभौ तद्बाह्वोर्विससर्ज स: ॥
सास्त्रौ कृत्तौ भुजौ ताभ्यां पतितौ भुवि तालवत् ॥५४॥
हुण्ड: कृत्वा महाशब्दं वज्रनिष्पेषनिष्ठुरम् ॥
व्यात्तास्यो रक्तदिग्धाङ्गो नृपमत्तुमधावत ॥५५॥
संधाय द्वौ पुनर्बाणौ तत्पादौ सोsच्छिनद्रुषा ॥
ततोsप्युदास्योरगवद्दुर्वार्य: स नृपं ययौ ॥५६॥
ऐन्द्रीं शक्तिं मुमोचास्मै तया भिन्नो ममार स: ॥
शिष्टा दैत्या हते तस्मिंस्त्रस्ता जग्मू रसातलम् ॥५७॥
तदा पुष्पमुचो देवा: स्वाधिकारान्यथा पुरा ॥
भेजु: सर्वे तदादिष्टा: प्रहृष्टा हतकंटका: ॥५८॥
तमेत्य जयिनं सार्धं रम्भयाsशोकसुन्दरी ॥
प्राहास्मि धर्मपत्नी ते नहुषोपयमस्व माम् ॥५९॥
स प्राहाग्रे वरिष्यामि गुरोर्मे यदि रोचते ॥
तथेत्युक्त्वा रथे तस्य सा रम्भा चास्थिता मुद्रा ॥६०॥
नहुषोsभ्येत्य गुरवे नत्वा सर्वं न्यवेदयत् ॥
हृष्टो वसिष्ठ उद्वाहं सुलग्नेsकारयत्तयो: ॥६१॥
द्रष्टुं प्रस्थापयामास पितरौ नहुषं मुनि: ॥
नत्वा गुरुं रथारूढ: प्रभयाsर्क इव स्त्रिया ॥६२॥
पितरावेत्य तच्छोकं जहार परिसान्त्वयन् ॥
सरथं मातलिं रम्भां स्वर्गाय प्रैरयन्नत: ॥६३॥
प्रभोर्वरं गुरोर्वाक्यं श्रुत्वाssयुश्चेन्दुमत्यपि ॥
रतिस्मरोपमौ दृष्ट्वा स्नुषापुत्रौ ननन्दतु: ॥६४॥
पित्राभिषिक्तो विधिवत्पित्र्यं राज्यं शशास स: ॥
सम्राट् चैन्द्रं पदं भेजे चिरं तेनैव वर्ष्मणा ॥६५॥
वानप्रस्थाविधानेन महिष्याssयु: समं वनम् ॥
उषित्वाsत्रिसुतं ध्यायॅंल्लेभे सायुज्यमक्षयम् ॥६६॥
एवं श्रीदत्तमर्थार्थी भजन्मुक्त: क्रमान्नृप: ॥
तद्भक्तिमहिमा त्वेष कोsपि भक्तो न नश्यति ॥६७॥
अत: कोsप्येकया भक्त्या सकामोsपि भजेत्प्रभुम् ॥
भक्त्यैवेह विनिर्धूतमलो मुक्तिं क्रमाद्व्रजेत् ॥६८॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां श्रीवासुदेव्यामुपासनाकाण्डे षष्ठाष्टके चतुर्थोsध्याय: ॥४॥
॥ इति नहुषेण हुण्डासुरवधपूर्वं अशोकसुन्दरीवरणं नाम षष्ठा० चतु० ॥६।४॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP