संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीदत्तपुराणम्| चतुर्थाष्टक| द्वितीयोsध्याय: चतुर्थाष्टक प्रथमोsध्याय: द्वितीयोsध्याय: तृतीयोsध्याय: चतुर्थोsध्याय: पञ्चमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: अष्टमोsध्याय: चतुर्थाष्टक - द्वितीयोsध्याय: श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् " Tags : dattagurudattavasudevanand saraswatiगुरूदत्तदत्तवासुदेवानंदसरस्वती अथाष्टाङ्गयोगयोग्याचारयोगचर्या नाम चतुर्थाष्टके द्वितीयोsध्याय: Translation - भाषांतर हरि: ॐ मही महेश योगस्य मयास्थेया कथं वद ॥इति पृष्टोर्जुनेनाह साङ्गं योगं त्र्यधीश्वर: ॥१॥अष्टाङ्गो योग इत्येके षडङ्ग इति चापरे ॥विसंवादो नोभयत्र श्रृणु तत्त्वं ब्रवीमि ते ॥२॥अष्टाङ्गयोगो यमाद्यै: षडङ्गस्त्वावसनादिभि: ॥यमानां नियमानां च स्वभावेन विधानत: ॥३॥आसनादि: षडङ्गोsत: सप्ताङ्गं केचनाब्रुवन् ॥सप्ताङ्गानि समाधिस्तु फलमेवेति तन्मतम् ॥४॥समाधिं द्विविधं मत्वा सविकल्पाविकल्पकम् ॥अङ्गेष्वेकं समादाय द्वितीयं फलमुच्यते ॥५॥सप्ताङ्गत्वेपि चाष्टाङ्गयोगमित्यूचिरे परे ॥शब्दातोsत्रैव भेदोsस्ति नान्यथेति विनिर्णय: ॥६॥यमान्दशादौ संपाद्य नियमांश्च महाव्रत: ॥सुखाल्लब्ध्वासनस्थैर्यं प्राणायामं ततोsभ्यसेत् ॥७॥समे सुखेsजने देशे नि:शब्दे निरुपद्रवे ॥सुखासने समासीनश्चैलाजिनकुशोत्तरे ॥८॥सर्वचिन्तां परित्यज्य धृतिमास्थाय सात्त्विकीम् ॥तत्राभ्यासं प्रकुर्वीत यमवानात्मशुद्धये ॥९॥समं कायशिरोग्रीवं धारयन्नचलं स्थिर: ॥इतस्तातो नैव पश्येत्पश्येद्भ्रूमध्यमेकधी: ॥१०॥पूरकुम्भकरेचात्मप्राणायामाख्याकर्मणि ॥दृढाभ्यास: प्रकर्तव्यो जिते प्राणे जितं मन: ॥११॥वृषावतिबलौ मत्तौ सयुगं संप्रधावत: ॥भवेतां स्ववशे पाशे शृङ्गासक्ते यथैकत: ॥१२॥तथैवेमौ मन:प्राणौ योगाभ्यासेन संयतौ ॥जितेsनयोरेकतरे तौ द्वावपि जितौ खलु ॥१३॥अत्र सत्कर्मभि: केचिच्छुद्धचित्ता महाश्रिय: ॥स्थिरचित्ता मदर्चायां वशप्राणा भवन्ति ते ॥१४॥अङानि धारणादीनि तेsभ्यसन्ति महाव्रता: ॥अन्येsसुयामत: प्राणमनोजयमभीप्सव: ॥१५॥प्राणस्पन्दनिरोधो हि प्राणायाम इतीर्यते ॥इडया प्राणमापूर्यं कुम्भयित्वा पुनर्बहि: ॥१६॥क्षिपेत्पिङ्गलया धीमान्पुन: पूर्ववदाचरेत् ॥विपरीतेन वा युञ्ज्याद्बहिर्वा कुम्भयेत्तथा ॥१७॥पूरो द्वादशमात्राभिर्द्विगुणाभिश्च रेचक: ॥कुम्भश्चतुर्गुणाभिश्च विधेयो बन्धपूर्वक: ॥१८॥यथा यथा प्राणजयो मात्रावृद्धिस्तथा तथा ॥पिण्डशुद्धिस्तया ज्ञेया वातपित्तकफान्तका ॥१९॥नाडीद्वाराणि सर्वाणि निर्मलानि भवन्त्यत: ॥नीरोगो जायते योगी क्रमाभ्यासेन यत्नत: ॥२०॥निर्बीजश्च सबीजश्च प्राणायामो द्विधा मत: ॥निर्बीज: केवलो रोध: सबीजो जपपुक् शुभ: ॥२१॥लीन: स पञ्चविपलद्विपलं ब्रह्मरन्ध्रग: ॥प्राण: सुषुम्णया प्रोक्त: प्राणायाम: स उत्तम: ॥२२॥इन्द्रियाणि जिते प्राणे विषयेभ्य: प्रयत्नत: ॥मनसोपाहरेद्धीर: प्रत्याहार: स उच्यते ॥२३॥यथा संहरतेsङ्गानि सुखात्कूर्मस्तथाप्ययम् ॥अर्थेभ्य: समनस्का गा: प्रत्याहारस्तदोत्तम: ॥२४॥कार्याsथ धार्णा साsपि द्विविधा परिकीर्तिता ॥सगुणाsगुणभेदेन मनस: स्थिरताssत्मनि ॥२५॥ततो ध्यानं त्विदं कार्यं विक्षिप्तं मन आत्मनि ॥अभ्यासेन स्थिरीकुर्यात्पुन: पुनरखेदत: ॥२६॥ध्यानं प्राग्धारणा पश्चात्केsपीच्छन्ति न तद्वरम् ॥ध्यानं ह्युपसमाधीति समाधिर्ध्यानविस्मृति: ॥२७॥द्वादशद्वादशगुणा वृद्धि: प्राणलयस्य या ॥प्राणायामादि चत्वारि योगाङ्गानीति केचन ॥२८॥एवं द्विषड्दिनै: साध्य: समाधिर्द्विविध: स च ॥सविकल्पो निर्विकल्पो धर्ममेघ: स दैवहा ॥२९॥प्राणायामादिभिश्चित्ते सुस्थिरे मननक्षमे ॥योगी विश्रुतवाक्यार्थमननं श्रद्धया चरेत् ॥३०॥परात्मचिन्तनं वेदाविरुद्धाभिश्च युक्तिभि: ॥अखण्डया मनोवृत्त्या मननं तत्प्रचक्षते ॥३१॥समाधि: सविकल्पो यस्तन्निदिध्यासनं विदु: ॥वि९जातीयप्रत्ययस्य निरासेनैव सर्वथा ॥३२॥सजातीयप्रत्ययस्य प्रवाहीकरणं तु यत् ॥अखण्डतैलधारावत्तन्निदिध्यासनं स्मृतम् ॥३३॥तल्लक्ष्मेदं महाबाहो दुर्लभं यत्कुयोगिनाम् ॥तत्त्वमस्यादिवाक्यार्थो विनिर्णीतो यथा पुरा ॥३४॥षड्लिङ्गै: श्रुतिनिर्णीतैर्य: सम्यगवधारित: ॥सुलक्षितो लक्षणया धारणाभिश्च चिन्तित: ॥३५॥युक्तिभिर्मननाख्येन ध्यानेन स्ववशीकृत: ॥योगिनां सोsवतिष्ठेत हृदि रूढतमो यदा ॥३६॥सोsहमात्मा परं ब्रह्म ब्रह्मैवाहं परात्परम् ॥नित्यं ज्ञानमनन्तं यच्छुद्धं बुद्धमनामयम् ॥३७॥आनन्दमद्वयं पूर्णं मनोवाचामगोचरम् ॥इत्यखण्डार्थधीवृत्तिर्दृढा तन्मननं परम् ॥३८॥यदा विस्मृत्य तद्धयानं ध्येयाकारं मनो भवेत् ॥निवातदीपवत्स्वस्थं समाधि: सोsभिधीयते ॥३९॥व्यापकं तत्र चैतन्यं तिष्ठत्येव स्वयंप्रभुम् ॥तदा योगी न वेदेदं बाह्यमाभ्यन्तरं क्वचित् ॥४०॥सूर्यकान्तस्य योगेन तूलोsर्कप्रतिबिम्बित: ॥अग्निरेव भवेत्तद्वज्ज्ञेयमत्रापि नान्यथा ॥४१॥ब्रह्माकारा मनोवृत्ति: केवलं ब्रह्म निष्कलम् ॥विषयीकृत्य हरति केवलं तद्गतं तम: ॥४२॥नष्टे सकार्ये तमसि प्रपञ्चो नैव तिष्ठते ॥एक एवाद्वितीयोsत्र तदा स्वात्मावशिष्यते ॥४३॥या वृत्ति: सैव विज्ञानं कार्यं कृत्वा तत; स्वयम् ॥स्वरूपे लीयते स्वच्छे जले कतकरेणुवत् ॥४४॥घटे भिन्ने घटाकाशो महाकाशो यथा तथा ॥चिद्बिम्बं तु चिदेव स्यादुपाधौ विलयं गते ॥४५॥स्वप्रकाशं परं ब्रह्म कथं हृत्तत्प्रकाशयेत् ॥अत: स्वच्छादर्शगतस्वमुखालोकनोपमम् ॥४६॥स्वच्छधीवृत्तिफलितस्वात्मनोsपि निरीक्षणम् ॥स्वस्यैव नैव मनसो दृश्यस्याचेतनस्य च ॥४७॥अज्ञातस्यैव विषये मनोवृत्ते: प्रयोजनम् ॥द्रष्टव्यं मनसेत्याह सार्थकं तच्छ्रुति: स्वयम् ॥४८॥मनो न मनुते ब्रह्म वागप्यत्र प्रशाम्यति ॥स्वयंप्रभं परं ज्योतिर्नित्यं वाड्मनस: परम् ॥४९॥फलव्याप्यत्वमेवात्र शास्त्रेणास्य निरस्यते ॥ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्यत्वमुच्यते ॥५०॥यावदेवं भवेत्सिद्धं तावद्वृत्तिर्न शाम्यति ॥ज्ञातृज्ञेयविभागोsयं भाति वृत्तौ स्वभावत: ॥५१॥सविकल्पोsयमेव स्यात्समाधिर्भूपसत्तम् ॥वृत्तेर्लयो निर्विकल्प: समाधि: परमो मत: ॥५२॥अविभागं परं ब्रह्म यतस्तत्रानुभूयते ॥इमामेव परां भूमिमारूढो न पुनश्चयवेत् ॥५३॥यदि विघ्ना भवन्त्यत्र युञ्जतो योगिनो मन: ॥तत्रोपायस्त्वयं कार्य: सावधानेन योगिना ॥५४॥सिद्धयोsत्र भवन्त्यष्टावणिमप्रमुखा नृप ॥तदासक्तौ प्रणश्येत योग: संसरते स च ॥५५॥सर्वं तन्नश्वरं विद्वान्न प्रसज्येत कर्हिचित् ॥लये संबोधयेच्चित्तं विक्षिप्तं शमयेत्पुन: ॥५६॥सकषायं सुधीर्जह्यात्समप्राप्तं न चालयेत् ॥ नास्वादयेद्रसं तत्र निस:ङ्ग: प्रज्ञया भवेत् ॥५७॥निवातदीपवच्चित्तो ब्रह्मात्मा शून्यवृत्तिक: ॥कृतकृत्य: क्षीणकर्मा भिन्नहृद्ग्रन्थिसंशय: ॥५८॥प्रारब्धभोक्तात्मारामो जीवन्मुक्तो भवेदियम् ॥योगभूर्महती रूढ एतां मुग्धादिवच्चरेत् ॥५९॥मुग्धोsन्धो बधिरोsजिह्वो योगी पङ्गुर्नपुंसक: ॥स्वात्मदृक् परमानन्दो भवेत्स्वैरगति: सदा ॥६०॥अर्थानामपि सांनिध्ये समर्थोsविकलेन्द्रिय: ॥सुप्तवद्वर्तते नित्यं स योगी मुग्ध ईरित: ॥६१॥तिष्ठतो व्रजतो वास्य योगिनो दृङ् न दूरगा ॥युगमात्रां भुवं त्यक्त्वा योगिराट् सोsन्ध उच्यते ॥६२॥शोकावहं मनोहारि हितं वाप्यहितं वच: ॥न संश्रृणोति श्रुत्वापि स योगी बधिर: स्मृत: ॥६३॥इदमिष्टमिदं नेति योsश्नन्नापि न सज्जते ॥सत्यं हितं मितं ब्रूते योगी सोsजिह्व उच्यते ॥६४॥भिक्षार्थं यस्य गमनं विष्णूत्रोत्सृतयेपि च ॥योजनान्न परं याति स योगी पङ्गुरुच्यते ॥६५॥सद्योजातां कुमारीं यो दृष्ट्वा षोडशवार्षिकीम् ॥वृद्धामपि समां पश्यन्निर्विकार: स षण्ढक: ॥६६॥योगचर्यामिमां प्राप्य श्रित उत्तमभूमिकाम् ॥जीवन्मुक्तो भुक्तदैवो विदेहां मुक्तिमश्नुते ॥६७॥योगादेशमिमं राजन्नाविनीताय बोधय ॥श्रद्दधानाय शिष्याय शंस शुद्धहृदेsर्जुन ॥६८॥इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां वासुदेव्यां उपासनाकाण्डे चतुर्थाष्टके द्वितीयोsध्याय: ॥२॥॥ इति श्रीदत्त० अष्टाङ्गयोगयोग्याचारयोगचर्या नाम चतुर्था० द्वितीयो० ॥४।२॥ N/A References : N/A Last Updated : May 07, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP