मालासंस्कार:

प्रस्तुत ग्रंथात मंत्र, व्याख्यान, मराठी अर्थ आणि मंत्रविधान एकत्र मिळाल्याने जिज्ञासूंची तृप्ती पूर्ण होईल असा विश्वास आहे.


तत्तद्रंथेषु लघु: पृथुर्मध्यमश्चेति बहुविधो मालासंस्कारो लिखितो द्दश्यते । तत्र सुगमतया बालानां सुसाध्य: प्रयोग: च० दीपिकायां तंत्रचिंतामणौ च - ‘कुशोदकै: प्चगव्यैर्मालां प्रक्षालयेत्सुधी: । अश्वत्थपत्रनवके मालां संस्थापयेदथ । मातृकास्तत्र विन्यस्य सद्योजातादिपंचभि: । अभिमंत्र्य ततो मंत्रैर्मालां सम्यक्‌ प्रपूजयेत्‌ ।’
इति ।
अथ प्रयोग :--- आचम्येत्यादि नूतनघटिताया मालाया: पूजाजपानुष्ठानार्हतासिद्धयर्थं मालासंस्कारं करिष्ये इति संकल्प्य कुशोदकेन पंचगव्यैश्च मालां प्रक्षाल्य अश्वत्थपत्रनवके संस्थाप्य तस्यामेकपंचाशन्‌ मातृका न्यस्य सद्योजातादिपंचमंत्रैरभिमंत्र्य (सद्योजातं. वामदेवाय, अधोरेभ्योअ, तत्पुरुषाय, ईशान:) ॐ र्‍हीं सिद्धयै नम: । इति पंचाक्षरेण माला मंत्रेण संपूज्य ॐ गं, इति गाणपतं बीजमुच्चार्य मालां प्रार्थयेत्‌ । तदेवं - ॐ गं, अवघं क्रुरु माले त्वां गृहणमि दक्षिणे करे । जपकाले तु सततं प्रसीद मम सिद्धये ॥
इति । केचन सद्योजातादि पंचोपचारसमर्पणमिच्छंति । एवं संस्कृतां मालां जपार्थं नित्यं धारयेत । प्रतिदिनं जपकाले मालां सुगोपितामुद्‌घाटय पूर्वोक्तपंचाक्षरेण मंत्रेण (ॐ र्‍हीं सिद्धयै नम:) मालां संपूज्य ॐ गं अविघं कुरु इति मंत्रेण संप्रार्थ्य मस्तकोपरि धृत्वा ‘र्‍हीं सिद्धयै नम:’ इति नत्वा ॐ महामाले महामाये सर्वशक्तिस्वरूपिणि ।
चतुर्वर्गस्त्वयि न्यस्त: माले त्वं सिद्धिदा भव ॥
इति दक्षिणकरे आदाय वस्त्रेणाच्छाद्य जपेत्‌ । तदुक्तं  वृद्धमनुना - ‘वस्त्रेणाच्छाद्य करं दक्षिणं य: सदा जपेत्‌ । तस्य स्यात्सफलं जाप्यं तद्धीनमफलं स्मृतम्‌ ॥’ इति । दक्षकरेण मालामादाय हृदयस्थकर; सन्‌ देवतां मंत्रार्थं वा चिंतयन्‌ जपेदिति कल्पद्रमे ॥ मेरुलंघने दोषमाह गौतम :--- ‘मेरोश्च मेरुपर्यंतं परिवर्त्य पुन: पुन: । जपे न लंघयेन्मेरुं लंघिते न फलं भवेदिति । गणयेज्जपमन्यग्रो न फलं गणनां विना । जपोत्तरं मालां पुन: ‘ॐ हीं सिद्धयै नम:’ इति नत्वा देवं नत्वा इष्टमंत्रस्य पूर्ववत्‌ षडंगन्यासं विधाय - मालां
गोपयित्वा - गुहयातिगुहयगोप्त्री त्वं गृहाणास्मत्कृतं जपम्‌ । सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ॥ इति भावनया देवस्य देव्या वा वामहस्ते जलं क्षिपेत्‌ इति ॥ इति मालासंस्कारादिविधि: ॥


References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP