मालाविचार:

प्रस्तुत ग्रंथात मंत्र, व्याख्यान, मराठी अर्थ आणि मंत्रविधान एकत्र मिळाल्याने जिज्ञासूंची तृप्ती पूर्ण होईल असा विश्वास आहे.


अथ श्रीसूक्तानुष्ठाने परिगणनमन्यथा सिद्धं भवति तथापि सर्वत्र सामान्यत: मंत्रानुष्ठाने जपविधौ परिगणनार्थं मालाग्रहणस्यापेक्षितत्वात्‌ तद्विपये किंचिदुच्यते । पूर्वोक्तं जपस्थानं विनिश्चित्य संमार्जनादिना संस्कृत्य तत्र - ‘हरिणव्याघ्रयोश्चर्म कुशवेत्रकटं भवम्‌ । कर्पाअसपट्टोर्णवस्त्रमच्छिद्रास्फुटितं भवेत ॥ त्रयं वा द्वयमेकं वा भिन्नजातीयकं स्मृतम्‌ ॥’ एषामन्यतमं चैकं द्वे त्रीणि वऽऽसमानि प्रसार्य - तत्र ‘आसनं जपमध्ये तु न विमुंचेत्‌ कदाचन’ इति नियमात्‌ स्वस्तिकासनपद्मासनादि सुखसाध्यमासनं बद्‌ध्वा जाचमनादि
पूर्वांगं विधाय जपकाले मलाग्नहणं कुर्यात्‌ । सा च माला त्रिधोक्ता सौभाग्यकल्पद्रुमे - ‘वर्णमाला बीजमाला करमालेति सा त्रिधा । अकारादिक्षकारान्तं पंचाशद्विंदुसंयुतम्‌ । मेरुं कृत्वा क्षकारं वै चानुलोमविलोमत: । शतसंख्या भवेदेवं यावदिष्टयपं चरेत्‌ ॥’
इति । मंत्रोच्चारादौ अंते वा एकमेकमक्षरमुच्चार्य परिगणनं कुर्यात्‌ ।
अंते क्षकारं केवलमुच्चारयेत्‌ । मेरुरूपत्वात्‌ तस्य । इति वर्णमाला ॥


References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP