समालंकार: - लक्षण ३

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अनाथत्वादिविशिष्टस्य स्नेहार्द्रत्वादिविशिष्टेन संसर्गस्यानुरूपता भागी-रथीस्तुतिपर्यवसायिनी । द्वितीया यथा-
‘ युक्तं सभायां खलु मर्कटानां शाखास्तरूणां मृदुलासनानि । सुभाषितं चीत्कृतिरातिथेयी दन्तैर्नखाग्रैश्च विपाटनानि ॥ ’
अत्राप्रस्तुतगतत्वेन स्थिता निन्दा तदाक्षिप्ते प्रस्तुते पर्यवस्यति । एवं यथा विषमालंकारस्त्रिभेदस्तथा तद्विपरीतभेदत्रययुक्त: समालंकारोऽपि प्रपञ्चित: ।
यत्तु-‘ विरूपकार्यानर्थयोरुत्पत्तिर्विरूपसंघटना च विषमम्‍ ’ इति विषमालंकारं लक्षितवता ,‘ तद्विपर्यय: समम्‍ ’ इति समालंकारं लक्षयि-त्वा- “ तत्पदेनात्र विषमालंकारसंबन्धी विरूपसंघटनारूपश्चरम एव भेदो गृह्यते । तद्विपर्ययस्यैव चारुत्वात्‍ । न त्वाद्यभेदद्वयम्‍ । तद्विपर्ययस्य कारणादनुरूपकार्योत्पत्तिरूपस्य, वाञ्छितार्थप्राप्तिरूपस्य च वस्तुसिद्धतया
चारुताविरहात्‍ । एवं चानुरूपसंघटनात्मक एव समालंकार: । न तु विषमांलकार इव भेदत्रयात्मक: ” इत्यलंकारसर्वस्वकृतोक्तम्‍ । विवेचितं च विमर्शिनीकृता-‘ कारणादनुरूपकार्योत्पत्तिर्हि लोकप्रसिद्धा । नहि तस्या उपनिबन्धश्चारुतामावहति ’ इति । तदुभयमसत्‍ । वस्तुतोऽननुरूपयोरपि कार्यकारणयो: श्लेषादिना धर्मैक्यसंपादनद्वाराऽनुरूपतावर्णने, वस्तुतो-ऽनिष्टस्यापि तेनैवोपायेनेष्टैक्यसंपत्ताविष्टप्राप्तिवर्नने च चारुताया अनुप-दमेव दर्शितत्वात्‍ । तस्मात्सममपि त्रिविधमेव ।

इति रसगंगाधरे समालंकारप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP