समालंकार: - लक्षण १
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अथ समालंकार:-
अनुरूपसंसर्ग: समम् ॥
संसर्ग: पूर्ववहिउविध: । तत्रोत्पत्तिलक्षणस्य संसर्गस्यानुरूपत्वं कारणात्-स्वसमानगुणकार्योत्पत्त्या, यादृशगुणकवस्तु संसर्गस्तादृशगुणोत्पत्त्या, यक्तिं चिदिष्टप्राप्त्यर्थं प्रयुक्तात् कारणात्तत्प्राप्त्या च । उत्कटेष्टान्तरप्राप्तौ तु प्रहर्षणं वक्ष्यते । संयोगादिलक्षणस्यापि संसर्गिणोरन्यतरगुणस्वरूपानु-ग्राह्यान्यतरगुणस्वरूपतयाऽनुरूपत्वम् । एवं चानुरूपसंसर्गत्वेन सामान्य-लक्षणेन सर्वे भेदा: संगृहीता भवन्ति । यथा-
‘ कुवलयलक्ष्मीं हरते तव कीर्तिस्तत्र किं चित्रम् । यस्मान्निदानमस्या लोकनमस्याड् घ्रिपड्कजस्तु भवान् ॥ ’
यथा वा-
‘ मन्त्रार्पितहविर्दीप्तहुताशनतनूभुव: शिखास्पर्शेन पाञ्चाल्या: स्थाने दग्ध: सुयोधन: ॥ ’
पूर्वं कारणकार्यधर्मयो: श्लेषेणैक्यसंपादनम्, इह तु मरण-दाहयोर-भेदाध्यवसानरूपेणातिशयेनेति विशेष: ।
द्वितीयो भेदो यथा-
‘ वडवानकालकूटलक्ष्मीमकरण्यालगणै: सहैधित: । रजनीरमणो भवेन्नृणां न कथं प्राणवियोगकारणम् ॥ ’
लक्ष्मीरप्यत्र मारकत्वेनैव कवेर्विवक्षिता ।
तृतीये यथा-
‘ नितरां धनमाप्रुमर्थिभि: क्षितिप त्वां समुपास्य यत्नत: । निधनं समलम्भि तावकी खलु सेवा जनवाञ्छितप्रदा ॥ ’
[ अत्र मरण-बहुधनयो: श्लेषेणैक्ये बहुधनरूपेष्टात्मना वाञ्छितार्था-प्तिरूपसमालंकारचमत्कार: । ]
N/A
References : N/A
Last Updated : January 17, 2018
TOP