समालंकार: - लक्षण २
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अत्र व्याजस्तुतौ मुखे धनप्राप्तिरूपस्तुति-स्फूर्तिदशायां समालंकारस्तावदप्रत्यूह एव । मरणप्राप्तिप्रतीतिदशायां तु व्याजस्तुतेरेव पूर्णाड्रतया तया विषमालंकारो बाध्यते ।
यत्तु कुवलयानन्दकृता-
‘ उच्चैर्गजैरटनमर्थयमान एव त्वामाश्रयन्निह चिरादुषितोऽस्मि राजन् । उच्चाटनं त्वमपि लम्भयसे तदेव मामद्य नैव विफला महतां हि सेवा ॥ ’
इत्युदाह्लत्य, ‘ अत्र व्याजस्तुतौ यद्यपि स्तुत्या निन्दाभिव्यक्तिविवक्षायां विषमालंकार:, तथापि प्राथमिकस्तुतिरूपवाच्यकक्षायां समालंकारो न निवार्यते ’ इत्युक्तम् तत्रोदाहरणे मामुच्चाटनं लम्भयसे इति द्विकर्मकत्वं कथम् ? गति-’ आदिसूत्रस्य प्राचीनरीत्या नियमविधित्वपक्षे लभेरण्य-न्तकर्तु: कर्मत्वस्य व्यावर्तनात् । यदा तु-
‘ परत्वादन्तरड्रत्वादुपजीव्यतयापि च । प्रयोज्यस्यास्तु कर्तृत्वं गत्यादेर्विधितोचिता ॥ ’
इति नवीनरीत्या अपूर्वविधित्वमुच्यते, श्रौतं णिजन्तार्थक्तियाया: प्राधान्य-मुत्सृज्याऽऽर्थ पूर्वक्तियाया एव प्राधान्यमनुरुध्यते तदा त्वप्रसक्तिरेवेति ।
उच्चाटन मया लम्भयसे इति तु भाव्यम् । एवमपि लभेर्यथाकथंचिद्नत्य-र्थतां संपाद्य प्रयोग उपपाद्यते, तथापि ‘ प्राथमिककक्षायां समालंकारो न निवार्यते ’ इत्यनेन ‘ द्वितीयकक्षायां विषमालंकारोऽस्तु नाम ’ इत्यागूरितम-
सदेवं । तादृशवैषमस्य निन्दारूपस्य व्याजस्तुतिविषयत्वेन तयापवादस्यैव न्याय्यत्वात् । न च वैपरीत्यम् ’ परिपूर्णचमत्कारभूमेर्व्याजस्तुतेस्त्वया-प्यनपह्लवात् ।
संयोगादिलक्षणस्यानुरूपता द्वेधा-स्तुतिपर्यवसायिनी, निन्दापर्यव-सायिनी च । आद्या यथा-
‘ अनाथ: स्नेहार्द्रां विगलितगति: पुण्यगतिदां पतन्विश्वोद्धर्त्रीं गदविदलित: सिद्धभिषजम् । तृषार्त: पीयूषप्रकारनिधिमत्यन्तशिशुक:
सवित्रीं प्राप्तस्वामहमिह विदध्या: समुचितम् ॥ ’
N/A
References : N/A
Last Updated : January 17, 2018
TOP