व्याजस्तुति अलंकारः - लक्षण ३

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


इत्यत्र प्राचीनपद्ये “ प्रकान्तापि स्तुतिपर्यवसायिनी निन्दा कीर्तिरिति भणि-त्योन्मूलिता, न तु प्ररोहं गमिता ” इति यत्सर्वस्वकृतोक्तम्‍ । यच्चापि तव्द्या-ख्यायां विमर्शिन्याम्‍ ‘ अनुदाहरणमेवैतत्पद्यं व्याजस्तुते: ’ इति ध्वन्यालोच-नकारोक्तिं कटाक्षेण लक्ष्यीकृत्योक्तं तन्निरस्तम्‍ । ‘ किं वृत्तान्तै: ’ इत्यादिना निन्दाया एव प्रथममुन्नयनात्समासोक्तेरुद्नतेर्वाच्यत्वस्यातन्त्रत्वात्‍ । अन्वय-
क्तमेणादौ वल्लभयैवान्वये तस्याश्च कीर्त्यभिन्नत्वेनावस्थाने सति पश्चात्प्र-करणादिपर्यालोचनवशाद्वयुत्क्रमेणान्वयबोधाच्च । तस्माद्‍ध्वन्यालोच-नकारैरुक्तमुदाहरणं संगतमेव ।
इयं च व्याजस्तुतिर्यस्यैव वस्तुन: स्तुतिनिन्दे प्रथममुपक्रम्यते तस्यैव चेन्निन्दास्तुत्यो: पर्यवसानं भवेत्तदा भवति । वैयधिकरण्ये तु न, इति प्राचामलंकारशास्त्रप्रवर्तकानां समय: । अत एव यत्र शब्देनाभिधीय-
माना स्तुतिर्निन्दा वा बाधितस्वरूपा निन्दायां स्तुतौ च स्वसमर्पणेन पर्यवस्यतीति तैस्तत्र तत्र स्वग्रन्थेषूपनिबद्धम्‍ । एवं च
‘ परोपसर्पणानन्तचिन्तानलशिखाशतै: । अचुम्बितान्त: करणा: साधु जीवीन्त पादपा: ॥ ’
इत्यादिषु सांसारिकजननिन्दापर्यवसायिन्यामपि पादपस्तुतै न व्याज-स्तुतित्वम्‍ , प्रथमप्रतीयमानस्तुतेरबाधितत्वात्‍ । एवं निन्दया स्तुतेर्गम्य-त्वेऽपि । तथा अन्यस्य स्तुत्यान्यस्तुतौ, अन्यनिन्दायां वान्यनिन्दायां गम्यमानायां नास्या अलंकृतेर्विषय: । पूर्वोक्तादेव हेतो: । यथा-
‘ ये त्वां ध्यायन्ति सततं त एव कृतिनां वरा: । मुधा गतं पुराराते भवदन्यधियां जनु: ॥ ”

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP