व्याजस्तुति अलंकारः - लक्षण २

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अत्र दुश्चरितोत्कीर्तनप्रस्तावे स्तुतिस्तथाभूता निन्दायाम्‍ । अत्र चैक एवार्थ: केनचिदाकारेणादौ स्तुतेर्निन्दाया वा विषयो भूत्वा प्रकरणादिमहिम्रा प्रकारान्तरेण निन्दाया: स्तुतेर्वा विषयो भवति । तत्र यावानंशो बाधितस्तावानेवानेवान्यथात्वेन पर्यवस्यति । अंशान्तरं तु स्वभावेनैवावतिष्ठते । इयं चालंकारान्तरसंकीर्णा यथा-
‘ देव त्वां परित: स्तुवन्तु कवयो लोभेन, किं तावता स्तव्यस्त्वं भवितासि यस्य तरुणश्चापप्रतापोऽधुना ।
क्रोडान्त:कुरुतेतरां वसुमतीमाशा: समालिड्रति द्यां चुम्बत्यमरावतीं च सहसा गच्छत्यगम्यामपि ॥ ’
अत्र चापप्रतापस्य समासोक्त्या विटधौरेयव्यवहाराश्रयत्वप्रतीति: । तन्मूला च निन्दा स्तुतौ पर्यवस्यति ।
यथा वा-
‘ अये राजन्नाकर्णय कुतुकमाकर्णनयन स्फुरन्ती हस्ताम्भोरुहि तव कृपाणी रणमुखे । विपक्षाणां वक्षस्यहह तरुणानां निपतति प्रगल्भा: श्यामानामनुपरतकामा: प्रकृतय: ॥ ’
अत्रार्थान्तरन्यासपोषिता । ननु कथमत्र व्याजस्तुति: । वाच्याभ्या-मेव निन्दास्तुतिभ्यां स्तुतिनिन्दयोर्गम्यत्वे तस्या अभ्युपगमात्‍ । नह्यत्र चापप्रतापस्य केवलस्य केवलवसुमत्याद्यालिड्रनं वाच्यभूतं निन्दास्पदं भवति । समासोक्त्या त्वाविर्भूतो विटव्यवहारो निन्दास्पदमपि न वाच्य:, अपि तु गम्य इति चेत्‍, आमुखप्रतीतपदेन हि प्रतीतावपर्यव-
सितत्वमात्रमत्र विवक्षितम्‍ । न तु वाच्यत्वपर्यन्तम्‍ , गौरवात्‍ । प्रकृते च किं तावता स्तव्यस्त्वमित्यादिना निन्दाया एवोपोद्वलनात्समासोक्ति-साचिव्येन सैव प्रथमं प्ररूढा पश्चाच्च स्तुतिरिति न को‍ऽपि दोष: । एवं च
‘ भाग्यं ते शाल्मलितरो वद किं परिकथ्यते । द्विजै: फलाशया युक्तै: सेव्यसे यदहर्दिवम्‍ ॥ ’
इत्यत्रास्तुतप्रशंसासंकीर्णाप्येषा भवति । एतेन
‘ किं वृत्तान्तै: परगृहागतै: , किं तु नाहं समर्थ-
स्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभाव: । देशे देशे विपणिषु तथा चत्वरे वल्लभा देव कीर्ति: ॥ ’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP