संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:| व्याजस्तुति अलंकारः| लक्षण १ व्याजस्तुति अलंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ व्याजस्तुति अलंकारः - लक्षण १ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण १ Translation - भाषांतर अथ व्याजस्तुति:-आमुखप्रतीताभ्यां निन्दास्तुतिभ्यां स्तुतिनिन्दयो: क्तमेण पर्यवसानं व्याजस्तुति: ।तृतीयातत्पुरुष-कर्मधारयाभ्यां योगार्थद्वयेन द्वयोरपि शब्दार्थत्वम् । आमुखेत्यादिविशेषणेन तयो: पर्यवसानाभावं वदन्बाधितत्वमभिप्रैति ।अत एव नास्या ध्वनित्वम् । ध्वनौ हि निर्बाधेन वाच्येनाऽऽगूरणमहिम्रा-र्थान्तरमवगभ्यते । न चैवं प्रकृते ।आद्या यथा-उर्वीं शासति मय्युपद्रवलव: कस्यापि न स्यादिति । प्रौढं व्याहरतो वचस्तव कथं देव प्रतीमो वयम् । प्रत्यक्षं भवतो विपक्षनिवहैर्द्यामुत्पतद्भि: क्रुधा यद्युष्मत्कुलकोटिमूलपुरुषो निर्भिद्यते भास्कर: ॥ ’अत्र राजवर्णनप्रस्तावे निन्दा बाधिता स्तुतौ पर्यवस्यति ।द्वितीया यथा-‘ किमहं वदामि खल दिव्यमते गुणपक्षपातमभितो भवत: । गुणशालिनो निखिलसाधुजनान्यदहर्निशं न खलु विस्मरसि ॥’ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP