संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:| परिणामालंकारः| लक्षण ८ परिणामालंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ परिणामालंकारः - लक्षण ८ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण ८ Translation - भाषांतर अत्र चिरतापार्तं प्रति हरिपादनखचन्द्रसद्भावप्रदर्शनेन तमेव निषेवस्व तन्निषेवणादयं तव ताप: शान्तिमे ष्यतीति परिणामो व्यज्यते ”इति, तत्तु-च्छम् । ‘ आरोप्यमाणस्य विषयात्मकत्वेन प्रकृतकार्योपयोगे परिणाम:’ इति स्वयमेवोक्तम् । तत्र प्रकृतकार्योपयोगमात्रं न परिणामशरीरम् । अपि त विषयिगताया: प्रकृतकार्योपयोगिताया अवच्छेदकीभूतं विषयतादूप्यम् । एवं चात्र नखचन्द्रसद्भावप्रदर्शनेन तन्निषेवणादयं तव ताप: शान्तिमेष्य-तीति प्रकृतोपयोगिताया व्यड्रयत्वेऽपि तदवच्छेदकीभूतस्य विषयिणि विषयतादूप्यरूपस्य परिणामस्य वाक्यवाच्यत्वात् शक्यसंसर्गत्वाद्वा सर्वथैव न व्यड्रयत्वं वक्तुमुचितम् ।इदं तूदाहरणं युक्तम्-‘ इन्दुना परसौन्दर्यसिन्धुना बन्धुना विना । ममायं विषमस्ताप: केन वा शमयिष्यते ।’अत्र वक्तुर्विरहितया व्यज्यमानरमणीवदनाभिन्नत्वेनेन्दुरभिप्रेत: । तेन रूपेणैव तस्य प्रकृतविरहसंतापशमनहेतुत्वात् । न चात्र विषयनिगरणात्मिकातिशयोक्तिर्वक्तुम शक्या, तस्यां ह्यारोप्यमाणाभिन्नत्वेन विषयस्य प्रत्य-यात् । यथा ‘ कमलं कनकलतायाम् ’ इत्यादौ कनकलताऽभिन्नायां वनितायां कमलभिन्नं सुखमिति । इह तु मुखस्य चन्द्राभिन्नत्वेन प्रत्यये न पुनर्विरह-तापशमनरूपप्रकृतकार्यसिद्धिरिति चन्द्रस्यारोप्यमाणस्य मुखरूपविषया-भिन्नत्वं मृग्यम् । तच्च व्यड्रयतायामेव भवतीति परिणामध्वनिरेवायम्, नातिशयोक्ति: । अयं त्वर्थशक्तिमूल: ।शब्दशक्तिमूलपरिणामध्वनिर्यथा-‘ पान्थ मन्दमते किं वा संतापमनुविन्दसि । पयोधरं समाशास्व येन शान्तिमवाप्नुया: ॥’अत्र झगिति तापशमनहेतुत्वेनोपस्थिते पश्चान्मन्दबोधनीयविशेष्यक-स्मरतापवत्तावैशिष्टयबुद्धौ सत्यां सह्लदयस्य तादृशतापशामकरमणीस्तन-रूपविषयतादूप्यबुद्धिर्भवति । दोषाश्चात्रापि पूर्ववदुन्नेया: ।इति रसगड्राधरे परिणामप्रकरणम् । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP