संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:| परिणामालंकारः| लक्षण ३ परिणामालंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ परिणामालंकारः - लक्षण ३ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण ३ Translation - भाषांतर वाचकेभ्यो नद्यादिशब्देभ्य: परस्यास्तृतीयाया अभेदार्थकत्वाच्छेखरादेश्च तदन्वयित्वात्कथं नात्र परिणाम इति चेत्, न । विषयाभिन्नत्वेन विष-यिणो भानेऽपि तेन रूपेण तस्यानुपयोगात् । द्विर्भाव: पुष्पकेतोरिति पद्येऽपि कोविदानन्दजनन-जगदुत्कर्षौ कथ्येते राज्ञो नृसिंहस्य । तत्र कोविदानन्दजनकत्वमपि राज्ञ आरोप्यमाणद्वितीयमन्मथादितादूप्येण यथा संभवति न तथा केवलस्वरूपेण । तथाहि-अहो नयनानामस्मदीयानां साफल्यं यदयमपरो मन्मथोऽस्माभिरालोक्यत इति मन्यमानानां तेषां नयनानन्दस्तावत्पुष्पकेतुनैवोपपाद्यते, न तु राज्ञा । एवमपरोऽयं कल्पतरु-श्चिन्तामणिर्द्वितीय: कर्ण इन्द्रश्व भूगतोऽयमन्यो दारिद्यमस्माकं परिहरि-ष्यति । हरि: खल्वयं संसार्म हरिष्यतीत्यभिमानाज्जायमानस्तेषामानन्दो-ऽप्यारोप्यमाणै: कल्पवृक्षापिभिरेवेति न विषयात्मना विषयिण उपयोग:, अपि तु स्वात्मनैवेति कुत्रास्ति परिणाम: ? ।अलंकारसर्वस्वकारस्तु-‘ आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणाम:, ’ इति सूत्रयित्वा ‘ आरोप्यमाणं रूपके प्रकरणोपयोगित्वाभावाप्तकृतोपर ञ्जकत्वेनैव केवलेनान्वयं भजते । परिणामे तु प्रकृतात्मतयारोप्यमाण-स्योपयोग इति प्रकृतमारोप्यमाणतया परिणमति’ इति व्याख्यातवान् । अत्रापि चिन्त्यते-आरोप्यमाणस्य प्रकृतोपयोग इत्यस्य प्रकृतकार्ये उपयोग आहोस्वित्प्रकृतविषयात्मतया उपयोगोऽर्थ: ? न तावदाद्य: । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP