उपमालंकारः - लक्षण १९
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
धात्वर्थान्वयोऽनुभवसिद्धोऽपलपनीय: स्यात् । कथं तर्हि घटो न पश्य-तीत्यादौ घटाभावं पश्यतीति नान्वयबोध: । धात्वर्थनिष्ठविशेष्यतानिरू-पितप्रकारतासंसर्गेणान्वयबोधं प्रति नञ्जन्योपस्थितिमात्रस्य प्रतिबन्धक-त्वकल्पनात् । धात्वर्थस्य नामार्थभिन्नत्वेन विशेषणं तु द्वयोस्तुल्यम् । तेन पाको न याग इत्यादौ न व्यभिचार: । इत्यलमप्रसक्तविचारेण ।
अथारविन्दतुल्यो भातीत्यत्र कथं धी: । तुल्यपदार्थस्य निपातभिन्न-नामार्थत्वेन धात्वर्थे भेदेनान्वयायोगात् तादृशतुल्यत्वादेर्भानोद्देश्यता-वच्छेदकत्वे भानमात्रविधेयतायां विवक्षितार्थाप्रतीति: । न च तुल्यपदेन
तुल्यंत्वप्रकारको लक्षणयोपस्थापितो ह्मभेदेन धात्वर्थेऽन्वेष्यतीति वाच्यम् । क्रियाविशेषणत्वेनारविन्दतुल्यशब्दस्य नपुंसकत्वापत्तेरिति चेत्, व्याकरणस्य सिद्धानुवादकत्वेन स्तोकं पचतीत्यादिमात्रविषयत्वेन क्रियाव्ययविशेषणानां क्लीबतेष्यते इत्यस्योपपत्ते: । धातोरेव लक्षणया सकलार्थबोधकत्वमितरस्य तात्पर्यग्राहकतेत्यपि केचित् । अरविन्दवत्सु-न्दरमित्यत्र वते: ‘ तेन तुल्यम्- ’
इति विहितस्य सादृश्यवदर्थकस्य सादृश्ये
लक्षणा । तस्य सुन्दरपदार्थैकदेशेन सुन्दरत्वेनान्वयादरविन्दमिव सुन्दर-मित्यत्रेव बोध: । एकत्र शक्त्याऽपरत्र लक्षणया च सादृश्यप्रतिपादना-च्छ्रौत्यार्थी चेति ।
अरविन्दवन्मुखमित्यत्र त्वरविन्दनिरूपितसादृश्यवदभिन्नमिति । अरविन्दवत्सौन्दर्यमस्ये त्यत्रारविन्दशब्दस्यारविन्दसौन्दर्यलाक्षणिकतयारवि-न्दसौन्दर्यनिरूपितसादृयाधिकरणमेतत्संबन्धिसौन्दर्यमिति मुखारविन्द-सौन्दर्ययो: सादृश्यबोधे शाब्दे, तयोरभेदाध्यवसायादभिन्नधर्ममूला
पश्चान्मुखारविन्दयोरपि सादृश्यधी: । अरविन्देन तुल्यमित्यत्र तृतीयार्थो निरूपितत्वम् । तस्य च सादृश्येऽन्वयादरविन्दनिरूपितसादृश्याश्रया-भिन्नमिति । तत्रैव सौन्दर्येणेति धर्मनिर्देशे तृतीयार्थ: प्रयोज्यत्वम् । तेनारविन्दनिरूपितसौन्दर्यप्रयोज्यसाद्रुश्यवदभिन्नमिति । अरविन्दमाननं च सममित्यत्र प्रथमं शब्दात्सादृश्यवदभिन्नमिति बोधे पश्चान्मानसी वैयञ्जनिकी वा परस्परनिरूपितसादृश्यस्य प्रतीति: प्रसिद्धनिरूपित-सादृश्यस्य वा ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP