उपमालंकारः - लक्षण १०

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


उपचरितो यथा-
‘शतकोटिकठिणचित्त: सोऽहं तस्या: सुधैकमयमूर्ते: । येनाकारिषि मित्रं स विकलह्लदयो विधिर्वाच्य: ॥’

एषा सीतां विवासितवत: स्वात्मगता रामस्योक्ति: । अत्र काठिन्यं पार्थिवो धर्मश्चिते उपचरित: ।

केवलशब्दात्मको यथा-
‘ यत्र वसन्ति सुमनसि मनुजपशौ च शीलवन्त: सर्वत्र समाना मन्त्रिणो मुनय इव ।’

अत्रोपमानोपमेयगतस्यार्थस्यैकस्याभावाच्छब्द एव धर्म: । एवमेतेषां धर्माणं च संभवति ।

यथा--
‘ श्यामलेनाड्कितं भाले बाले केनापि लक्ष्मणा । मुखं तवान्तरासुप्तभृड्रफुल्लाम्बुजायते ॥’

अत्र भालगताड्क-प्रसुप्तभृड्रो बिम्बप्रतिबिम्बभावमापन्नौ क्यडर्थे आचारेऽनुगामिन्यभेदमापद्य स्थितौ ।

यथा वा-
‘ सिन्दूरारुणवपुषो देवस्य रदाड्‍कुरो गुणाधिपते: । संध्याशोणाम्बरगतनवेन्दुलेखायित: पातु ॥’

अत्र सिन्दूरसंध्याभ्यां गणाधिपगगनाभ्यां च बिम्बप्रतिबिम्बभावमा-पन्नाभ्यां [ धर्माभ्यां ] संपादिताभेदेन विशिष्टधर्मेणाभेदेनावस्थित: क्यड-र्थोऽनुगामी ।

क्कचिद्धेतुहेतुमद्बावेन । यथा--
‘ खल: कापटयदोषेण दूरेणैव विसृज्यते । अपायशड्किभिर्लैर्विषेणाशीविषो यथा ॥’

अत्र कापटयं विषं च बिम्बप्रतिबिम्बतां गतं दूरतो विसर्जनेऽ‍नु-गामिनि हेतु: ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP