उपमालंकारः - लक्षण ८
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अत्र प्राधान्येन व्यड्रये आरोप्यमाणचन्द्रके भ्रान्तिमत्यलंकारे उपपा-दकस्य भालस्थमृगमदपड्कविषयकस्याड्काभेदारोपस्याड्कसादृश्यरूपदोषमूल-कत्वादुपमात्रालंकार: ।
रसोपस्कारिका तु ‘दरदलदरविन्द-’ इत्यत्र प्रागेवोदाह्लता " रसप-देनासंलक्श्यक्रमस्योपलक्षणाद्भावाद्युपस्कारिकाप्यत्रैवान्तर्भाव्या । यथा-
‘ नैवापयाति ह्लदयादधिदेवतेव ’ , ‘ वन्यकुरड्रीव वेपते नितराम्’ इत्यादिषु प्रागुदाह्लतेषु ।
वाच्यवस्तूपस्कारिका यथा-
‘ अमृतद्रवमाधुरीभृत: सुखयन्ति श्रवसी सखे गिर: । नयने शिशिरीकरोतु मे शरदिन्दुप्रतिमं मुखं तव ॥ ’
अत्र नयनशिशिरीकरणरूपे वस्तुनि वाच्ये मुखस्य शरदिन्दूपमोप- स्कारिका ।
वाच्यालंकारोपस्कारिका यथा-
शिशिरेण यथा सरोरुहं दिवसेनामृतरशिममण्डलम् । न मनागपि तन्वि शोभते तव रोषेण तथेदमाननम् ॥’
अत्र वाच्यस्य दीपकस्योपमोपस्कारिका । रसादिस्तु न वाच्य इति प्रागोवाभिहितम् ।
अथ कथमलंकारस्यालंकारान्तरोपस्कार्यत्वमुच्यते । प्रधनस्यैवाल्मका-सादिवदलंकारान्तरोपस्कार्यत्वे न कोऽपि तावदीत विशेध: ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP