मनोबोधः - श्लोक १५१ ते २०५

संत रामदास महाराजांची मनोबोध अशी रचना आहे, ज्यातून मनावर संस्कार घडविले जातात.


नृभिर्वस्तु संचिन्त्य संचिन्त्य वेद्यं मनो बोध्य सम्बोध्य बुद्धं प्रकार्यम् ।
परं संगमात् सज्जनैः सर्व-सिद्धिः वरो निश्चयो जायते सानुरागात् ॥१५१॥
कृते तत्त्वसंख्यासु चातुर्ययोगेपि अवश्यो परब्रह्मणो हि प्रबोधः ।
मनः सारभूतं तु सत्यं विदूरे समस्तेषु तद् ह्येकमेवाद्वितीयम् ॥१५२॥
विमुष्टैर्न देहेन्द्रियैर्नैव तत्त्वैः समाधानता नैव रागप्रलापैः ।
न योगैर्न यागैर्न वा त्यागभोगैः भवेत् सा तु सङ्गात् स्फुटं सज्जनानाम् ॥१५३॥
महावाक्यबोधात् तथा पञ्चकानां विवृत्या परब्रह्म-दिग्दर्शनं वै ।
द्वितीया-दिने चन्द्रसंदर्शनार्थं यथा वृक्षशाखाङ्गुलीर्निर्दिशन्ति ॥१५४॥
जगत्यां न यद् दृश्यते तद्विलोक्यं समालोच्यते चेत् तदैव स्फुटं स्यात् ।
करे नैव तद् गृह्यते यत्नतोऽपि न तत् सर्वतो विद्यमानं तु गम्यम् ॥१५५॥
अहं ब्रह्म वेद्यीति यो वक्ति सोऽज्ञः क्षमस्तर्कितुं को जगत्याम् अतर्क्यम् ।
अहंताबलाज् ज्ञायते तन्न मूढैः तदालोकिते कोऽस्ति तस्माद् विभिन्नः ॥१५६॥
श्रमो नैकशास्त्रावलोकेऽस्त्यतीव परंत्वेकता-निश्चयो नैव तने ।
विवादात्मकः शास्त्रजन्यो विरोधो मतिर्लीयते प्रत्युताऽऽत्मप्रबोधे ॥१५७॥
श्रुतिः शास्त्रषट्कं तथा धर्मशास्त्रं सहस्राननोऽपि स्वयं शेष-नागः ।
अशक्ता हि तद्वर्णने सर्वथेमे मनो ज्ञानदर्पं ततस्त्वं विमुञ्च ॥१५८॥
अहन्तात्मिका मक्षिका भक्षिता चेद् रुचिर्भोजने तस्य पुंसः कुतः स्यात् ।
अहन्ता हि हृत्स्था न यावत्प्रयाति सुजीर्णं भवेत् ज्ञानमन्नं न तावत् ॥१५९॥
मनो माऽस्तु वादे मतिः खेदकर्त्री द्वैते रुचिः क्रोधकर्त्री च माऽस्तु ।
अहंता मनो यावदन्ते तवास्ते परेभ्यो न हि ज्ञानदाने त्वमर्हः ॥१६०॥
अहंतोदये जायते सर्वदुःखम् मुखादुद्गता ज्ञानवार्ता वृथैव ।
अहंता-लये सर्वतस्ते सुखं स्याद् अहंतां स्वयं तां मनश्चिन्तय त्वम् ॥१६१॥
विवेकेऽप्यहंताबलाद् यात्यनीतिम् अनीत्या जनः श्लाघ्यतां याति लोके ।
परं वेत्ति चित्ते निजं दम्भभावं प्रमाणान्तराण्यस्य बुद्धिर्जहाति ॥१६२॥
दृढो निश्चयो यस्य देहात्मबुद्धौ सुदूरं हितादात्मनः सो नु यातः ।
परित्यज्य तां चात्मबुद्धिः प्रधार्या सदा संगतिः सज्जनानां विधेया ॥१६३॥
मनः कल्पिता द्वैतबुद्धिः प्रहेया प्रधार्या हृदा कल्पनाऽद्वैतरूपा ।
स्वरूपस्थितौ साऽपि यायाद् हृदन्तात् सदा संगतिः सज्जनानां विधेया ॥१६४॥
प्रपञ्चे स्वदेहादि-संचिन्तनात्तु मनो वर्धते लोभ एतान्तरे स्वे ।
अतः श्रीश-भक्त्या प्रवृण्वीत मुक्तिं तदर्थं सदा साधुसंगो विधेयः ॥१६५॥
अहंकार-विस्तार एषोऽस्ति देह- प्रिया-पुत्र-मित्रादिको मोहजन्यः ।
अतोऽहम्भ्रमं जन्महेतुं निरस्येत् तदर्थं सदा साधुसङ्गं विदध्यात् ॥१६६॥
वरो निश्चयः शाश्वतस्यैव कार्यो मनः संशयो दासवाक्याद् विसर्ज्यः ।
क्षणेऽनुक्षणे जन्मसार्थक्यमस्तु तदर्थं सदा साधुसङ्गो विधेयः ॥१६७॥
प्रशान्तां करोत्यात्मवृत्तिं स साधुः दुराशाश्रयाद् दीनतां नोपयाति ।
उपाधिर्हि देहात्म-धी-वृद्धि-कर्त्री कथं सा प्रबाधेत साधुं विरागम् ॥१६८॥
मनोऽनन्त-बोधाय साधुं ह्युपेयाद् अहंकार-विस्तारमेतं निरस्येत् ।
गुणातीततामेत्य चिन्त्यो ह्यनन्तो न देहात्मबुद्धिः कदापीह कार्या ॥१६९॥
त्यजेदात्मबोधेन देहात्मबुद्धिं विवेकेन सद्-वस्तु-योगो विधेयः ।
चिदाकार-वृत्तिः स्वतो नैवभाव्या ततः सर्वदा तत् समन्वेषणीयम् ॥१७०॥
सुगुप्तं स्थितं वस्तु यत्सारभूतम् भवेद् गोचरं चक्षुषोदृर्श्यमात्रम् ।
अदृश्यं गुणाभाव-निर्भासमेतद् अहंताबलान्नैव यत्नेऽपि वेद्यम् ॥१७१॥
स्फुटा वैषयी कल्पना सा त्वविद्या यया ब्रह्म विज्ञायते स सुविद्या ।
बभूव द्विधा साऽऽदिकल्पे हि माया विवेकाद् भवत्यात्मरूपे विलीना ॥१७२॥
प्रवृत्ते हि चिद्-व्योम्न्यहंकार-राहौ चिदाकाशमाच्छादितं दृश्यते वै ।
तमिस्रानिशावद्भवेद्दिग्भ्रमोऽपि विवेकाद् विचाराच्च साक्षात्क्रियेत् तत् ॥१७३॥
न तच्चक्षुषा लक्ष्यते यत्नतोऽपि भवे भक्षिते तेन नो तस्य रक्षा ।
यदक्षय्य-मोक्षं ददात्यक्षयं तद् दयालुः स्वभक्तस्य पक्षं करोति ॥१७४॥
लिखत्येव भाव्यं विधिः सर्वभाले परं तल्ललाटेऽस्ति को लेखकर्ता ।
हरः सर्वसंहारकोऽस्त्यन्तकाले परं शंकरो दह्यतेऽन्ते च केन ॥१७५॥
कृता येन ते द्वादशादित्यदेवा असंख्यातशक्राश्च रुद्रास्तथैव ।
अन्विष्यमाणः स देवो न लभ्यो न विज्ञायते कीदृशः कोऽस्ति मुख्यः ॥१७६॥
न खण्ड्यो न भङ्ग्यो भवेद् देवदेवो न चाल्यो न नाम्यो न वै दीनकल्पः ।
न चादेयरूपो न दृग्गोचरोऽस्ति न विज्ञायतेऽहंतया सर्वगोऽपि ॥१७७॥
प्रियो यस्य यस्तस्य पूज्यः स देवः परं वेत्ति नो देवदेवं तु कश्चित् ।
वसन्त्येव देवा जगत्यामनन्ता रतिर्यत्र तद्-भक्तिरेवाऽस्ति वर्या ॥१७८॥
त्रय्स्ते तु लोका यतः सम्बभूवुः न तं देववर्यं प्रवक्तीह कश्चित् ।
जगत्यां वरिष्ठोऽस्ति देवः सुगुप्तो विना सद्गुरुं नैव दृश्यः कदाचित् ॥१७९॥
गुरुत्वे स्थिताः कोटिशः सन्ति भूमौ अनेकेषु मन्त्रेषु तन्त्रेषु शक्ताः ।
सदा कामकामाः कथा-गीत-कारा नृणां भ्रामका नैव मोक्षप्रदास्ते ॥१८०॥
न वै वञ्चको नाभिचारी न चाढ्यो न वा निन्दको मत्सरी भक्तिहीनः ।
न यत्संगबाधा न वित्तापहारी जगत्यां तु यो ब्रह्मबोधः स साधुः ॥१८१॥
हृदा कामुको निःस्पृहत्वं वदेच्छेद् विना तत्क्रियां वाक्पटुत्वं वृथैव ।
यथा वक्ति तादृक् प्रवृत्तिर्हि यस्य मनः सद्गुरुर्निश्चितव्यः स एव ॥१८२॥
ज्ञानी विवेकी विरक्तश्च भक्तः कृपालुर्मनस्वी क्षमी योगयुक्तः ।
सुदक्षः प्रभुश्चातुरो यश्च विद्वान् भवेत् तस्य सङ्गे समाधान-लाभः ॥१८३॥
अजं यत् तथाऽनागतं चैव यद्धि वचोभिस्तु तज्ज्ञायते सज्जनानाम् ।
अनिर्वाच्यमेवास्ति यत् तच्च वाच्यं मनः सच्चिदानन्दमन्वेषणीयम् ॥१८४॥
निलीनो भवेदादराद् रामरूपे भयातीतता निश्चिता स्वे स्वरूपे ।
कदाप्येह नासाद्यते मार्ग्यमाणः सदैकं भवेद्यन्न तस्मिन् विभेदः ॥१८५॥
मनः संनिधौ ते सदा राघवोऽस्ति मनः सज्जन !मार्गय त्वं हि सत्यम् ।
तवाऽखण्डितो राघवेणास्ति योगो विनिष्कासय स्वान्तरात् तामहंताम् ॥१८६॥
मनः पिण्ड-ब्रह्माण्डयोर्भूतसाम्यं समस्तं त्विदं ब्रह्मरूपे न किंचिद् ।
मनो भाति यद्यत् न तत्तत् सदस्ति सुखे संस्थितिः संगमुत्सृज्य कार्या ॥१८७॥
अहं-पाशमुच्छिद्य विज्ञान-शस्त्रैः विदेहस्थितिर्भक्तितः सेवनीया ।
विरक्तेर्बलात् सर्वनिन्द्यं विवर्ज्य सुखे संस्थितिः सङ्गमुत्सृज्य कार्या ॥१८८॥
पृथिव्यादिकृद् देव आलोकनीयो यदालोकने मुक्तिलाभोऽस्ति सद्यः ।
गुणैः संयुतो निर्गुण सेवनीयः सुखे संस्थितिः सङ्गमुत्सृज्य कार्या ॥१८९॥
स नो कार्यकर्ता न वा सृष्टिभर्ता परायाः परो नो विवर्तेन लिप्तः ।
स वै निर्विकल्पो विकल्प्यैव सेव्यः परित्यज्य सङ्गं सुखं स्थेयमत्र ॥१९०॥
न देहात्मधी-निश्चयो यस्य नष्टो न कल्पान्तकालेऽपि स ज्ञानवान् स्यात् ।
परं ब्रह्म नोऽहंतया वेत्ति कश्चिद् मनोऽज्ञानजां शून्यतां नो जहाति ॥१९१॥
मनःस्पर्शहीनं स्थिरं यत्स्वरूपं अभेदेन चिन्त्यं हि सर्वोत्तमस्य ।
न दृष्टान्तयोग्यं भवेत् तस्य किंचिद् न निःसंगता संगता तत्र सत्या ॥१९२॥
परेशे न विज्ञातताऽज्ञातता वा स नो वर्ण्यते वेदशास्त्रैः पुराणैः ।
अदृश्यो न दृश्यो न साक्षी तयोर्वा श्रुतिर्यस्य नान्तं विजानाति नैव ॥१९३॥
हृदिस्थोऽस्ति कः कीदृशो देववर्यो गुरुः सादरं साधकेनाऽथ पृष्टः ।
परित्यज्य देहं वसत्येष कुत्र प्नर्वासयोग्यं क्व संस्थानमस्य ॥१९४॥
इति प्राह जानीहि देवो हि हृत्स्थो नभोवत्सदा व्यापकोऽप्यप्रलिप्तः ।
न गच्छत्यथो नोपगच्छत्यजस्रं ऋते तेन रिक्तं स्थलं नैव किंचित् ॥१९५॥
नभोविभ्रमद्-रेणुमात्रं स्थलं नो रघूणामधीशेन रिक्तं विभाति ।
प्रवृत्तो हि तद्दर्शने यः स तस्मिन् लयं यात्यलक्ष्यं च लक्ष्यं च लीनम् ॥१९६॥
नभोवद्धि तद् व्यापकं रामरूपं हृदा चिन्तितं स्याद् भवभ्रंशहेतुः ।
विलीना भवेद्देहधीस्तस्य बोधाद् यथेच्छं सुदृष्टेऽपि तृप्तिस्तु नास्ति ॥१९७॥
नभः संस्थितं व्याप्य विश्वं यथेदं तथा राम इत्थं न साम्यं कथंचित् ।
स चास्त्यद्वितीयः स्वभावाद् हि रामः तदर्थं हि व्यर्थं पदं व्यापकेति ॥१९८॥
पुराणं ततं सर्वतो यत्स्वरूपं न तर्कस्य लेशोऽपि यस्मिन्विधेयः ।
निगूढं परंत्वाशु तत्स्यात्सुगम्यं प्रतापाद् गुरोरद्वितीयेतिसंज्ञम् ॥१९९॥
स्वरूपं तु यज्ज्ञायते ज्ञानयोगात् स्फुट साक्षिताऽन्तर्हिता तत्र सर्वा ।
भवेदुन्मनी कुण्ठिता वाक्च सद्यः स एव स्वयं रामदृक् सर्वतो यः ॥२००॥
कदाप्यात्मबोधे द्वितीयं न भाति न वै मानसे द्वैतलेशोऽस्ति किंचित् ।
गतैर्जन्मसंघैः स्वरूपोपलब्धिः विदेहस्थितौ सर्व-काया-निरासः ॥२०१॥
मनो यत्सुगुह्यं त्वया तद्धि लब्धं प्रकार्यस्त्वया रक्षणे तस्य यत्नः ।
दृढप्रत्ययार्थं सदा श्राव्यमेतन् मनः साधुसंगाद्धि धन्यत्वमेषि ॥२०२॥
मनः सर्वसंगं परित्यज्य दूराद् विधेयः सदा सादरं साधुसङ्गः ।
महादुःखभङ्गः सतां संगमेन विना साधनं तेन सन्मार्गलाभः ॥२०३॥
मना सर्व सङ्गापहः साधुसङ्गो मनस्तत्क्षणं मोक्षदः संगमैषः ।
मनः साधकान् मोचयत्येष शीघ्रं मनः सर्वथा द्वैतनाशक्षमोऽयम् ॥२०४॥
मनोबोधमाकर्ण्य दोषाः प्रयान्ति जडाः साधना-योग्यतां चोपयान्ति ।
ततो ज्ञानवैराग्यसामर्थ्यलाभो विमुक्तिस्ततो दासवाक्यप्रतीत्या ॥२०५॥

॥जय जय रधुवीर समर्थ ॥

गुणाभ्राङ्कशीतांशुभिः संमितेऽब्द ततश्चैत्रशुक्लेऽर्कवारे नवम्याम् ।
मनोबोधमेनं तपत्यास्तटस्थो गुरो रामदासस्य दासश्चकार ॥
परं नोऽखिलं तद्यथार्थप्रकाशं सदोषं पुनर्मुद्रणं चाप्ययुक्तम् ।
अतः श्रीसमर्थैरनुप्रेरितेन समग्रं सुसंशोधितं प्रीतयेऽस्तु ॥

आपदामपहर्तारं दातारं सर्वसम्पदाम् । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥

॥श्री राम जय राम जय जय राम ॥


N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP