संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मनोबोधः| श्लोक १ ते ५० मनोबोधः श्लोक १ ते ५० श्लोक ५१ ते १०० श्लोक १०१ ते १५० श्लोक १५१ ते २०५ मनोबोधः - श्लोक १ ते ५० संत रामदास महाराजांची मनोबोध अशी रचना आहे, ज्यातून मनावर संस्कार घडविले जातात. Tags : manobodharamdasमनोबोधःरामदाससंस्कृत श्लोक १ ते ५० Translation - भाषांतर श्रीरामदासानुदासःगणेशोऽस्ति यः षड्गुणैश्वर्ययुक्तः तथा शारदा या चतुर्वाक्स्वरूपा ।प्रणम्याऽथ तौ सृष्टिनिर्माणमूलं अनन्तं हितं राममार्गं प्रवक्ष्ये ॥१॥मनो रामभक्तेः पथा यास्यसि त्वं तदा श्रीहरिं प्राप्स्यसे तं स्वभावात् ।जनैर्निन्दितं यत् त्वया तन्न कार्यं नरैः श्लाघितं कर्म यत्नेन सेव्यम् ॥२॥प्रभाते तु यश्चिन्तयेद् रामचंद्रं ततः कीर्तयेत् तद्गुणांश्चारुवाचा ।सदाचारमेनं त्यजेन्नैकचित्तो जगत्यां स एवातिधन्यत्वमेति ॥३॥मनो वासनां दुःखदां संत्यजाशु मनः सर्वदा पापबुद्धिं जहीहि ।मनो मा त्यजाऽज्ञानतो धर्ममार्गं मनस्तिष्ठ सत्सारभूते विचारे ॥४॥मनः पापकर्मादरस्त्याज्य एव मनः सत्यसंकल्प एवानुसेव्यः ।मनः कल्पनां मुञ्च शब्दादिकानां विकाराश्रयेणेह धिग् धिक्त्वमेति ॥५॥मनो माऽस्तु ते क्लेशदः क्रोधलेशो मनो माऽस्तु कामो विकारस्य मूलम् ।मनो मा मदं दुष्टमङ्गीकुरु त्वं मनो माऽस्तु ते मत्सरो मा च दम्भः ॥६॥मनो धार्यमार्येषु मार्गेषु धैर्यं मनो हीनपुंसो वचः क्षाम्यमेव ।मनोज्ञैस्त्वया शीतलैर्वाक्प्रबन्धैः मनः सर्वदा सज्जनास्तोषणीयाः ॥७॥मनो देहपातेऽपि कीर्तिः स्थिरा स्याद् यया तां क्रियां सर्वदेवाऽऽरभस्य ।मनश्चान्दनं सद्गुणं सम्प्रगुह्य त्वया सर्वथा सज्जनाः प्रीणनीयाः ॥८॥मनः पारकीयं वनं मा चिनु त्वम् अतिस्वार्थधीः शिष्यतेऽत्रातिपापा ।सदा पापजन्यं फलं भोग्यमेव यदा नेप्सिताऽऽप्तिस्तदा दुःखमेव ॥९॥मनो रामचन्द्रे सदा प्रीतिरस्तु बलाद् हृद्गतं दुःखजालं निवार्यम् ।त्वया देहदुःखं सुखत्वेन मान्यं रमस्त्वात्मरूपे विचारेण नित्यम् ॥१०॥समस्तैः सुखैः संयुतः कोऽस्ति लोके मनः सद्विचारैः शनैर्निश्चिनुत्वम् ।मनो यत् त्वया संचितं कर्म पूर्वं तदेवेह भोग्यं शुभं वाऽशुभं वा ॥११॥मनो माऽन्तरं दुःखजालस्य देही मनः सर्वथा शोकचिन्ते विसर्ज ।ततो देहबुद्धिं विवेकाद्विहाय विदेहस्थितौ मुक्तिभाग् संरमस्व ॥१२॥मनो ब्रूहि तत् चेत् श्रुतं रावणस्य क्षणेनैव राज्यं समस्तं विनिष्टम् ।त्यजातोऽशुभां वासनं दुःखदात्रीं बलेनैति कालो हठात् पृष्ठलग्नः ॥१३॥मनो देह एषोऽतिपुण्येन लब्धः कृतान्तेन नीतः स एवान्तकाले ।महान्तोऽपि वै मृत्युमार्गेण याता असंख्येय-जीवा जनिं प्राप्य नष्टाः ॥१४॥मनः पश्य ये संस्थिता मृत्युभूमौ वदन्त्यामृतिं तेऽहमेवाहमित्थम् ।चिरं जीवितं मानयन्त्यात्मनोऽज्ञाः क्षणात् ते परित्यज्य सर्वं प्रयान्ति ॥१५॥मृतं बन्धुमालोक्य शोचत्यपार्थः क्षणात् सोऽपि मृत्योः पथा सम्प्रयाति ।यतोऽज्ञस्य नो याति लोभः प्रशान्तिं ततोऽसौ पुनर्देहयोगं प्रयाति ॥१६॥जनो मूढभावेन शोचत्यपार्थं क्षणेनैव भाव्यं भवत्येव नित्यम् ।भवेत् कर्मणा स्वेन पुत्रादियोगो वृथा खिद्यते तद्वियोगेऽल्पबुद्धिः ॥१७॥मनो धारयाशां सदा राघवस्य ततोऽन्यं नरं नैव संकीर्तय त्वम् ।पुराणानि वेदाश्च यं वर्णयन्ति नरः श्लाघ्यतामेति तद्वर्णनेन ॥१८॥मनो मा कदापि त्यज ब्रह्मसत्यं मनोऽसन्मतिं मा कृथाः सर्वथैव ।मनो ब्रूहि सत्यं सदा सद्विचोभिः मनोऽसत् त्यज प्राज्ञ मिथ्येति मत्वा ॥१९॥अतीव श्रमो जायते मातृगर्भे मनस्तन्न कार्यं यतो दुःखभाक् स्यात् ।शिशुः पच्यते जाठरे वह्निकुण्डे तदाऽधःशिराश्चोर्ध्वपात् चातिखिन्नः ॥२०॥मनो जन्म-मृत्यु-प्रदां दुःखदात्रीं धनाऽऽप्त-प्रिया-कामनां संत्यजाशु ।यतो यातना गर्भवासेऽस्त्यसह्या ततो राघवे प्रीतियोगं कुरुष्व ॥२१॥मनो मे हितं कार्यमेतत् त्वयाऽद्य सदा रामपादौ प्रयत्नेन सेव्यौ ।प्रभुर्वायुपुत्रस्य यः ख्यातकीर्तिः जनानुद्धरेत् स त्रिलोकाधिनाथः ॥२२॥मनो रामनाम्नस्त्वयाऽन्यन्न वाच्यं वृथा वाक्प्रबन्धात् सुखं नैति कश्चित् ।क्षणेनायुरग्रे हरत्येव कालः शरीरावसानेऽथ को मोचयेत् त्वाम् ॥२३॥विना रामसेवां श्रमो व्यर्थ एव जनस्य प्रलापो यथा निद्रितस्य ।अतो ब्रूहि वाचा हरेर्नाम नित्यं अहंतां महापापिनी संहराशु ॥२४॥मनस्ते मदुक्तिर्हितैवेति मान्या न चेद् राम-पादाब्ज-लब्धिः कुतस्ते ।सुखाप्ति-क्षणे जायते सौख्यमेव ततः सर्वनाशः स्थिरं नैव किंचित् ॥२५॥कृतः केनचिद् देह-रक्षा-प्रयत्नः स देहः क्षणेनैव कालेन नीतः ।अतस्त्वं मनो रामचंद्रं भजस्व प्रमुञ्चान्तरात् सर्वचिन्तां भवस्य ॥२६॥भवस्यास्य भीत्या मनः किं बिभेषि जहीमां धियं धैर्यमेवावलम्ब्य ।प्रभौ रक्षके रामचन्द्रे शिरःस्थे भयं किं नु ते दण्डहस्तात् कृतान्तात् ॥२७॥मनो दीननाथं प्रभुं चापपाणिं विलोक्याग्रतः कम्पते काल एषः ।जनैर्मद्वचः सत्यमेवेति मान्यं स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥२८॥व्रतं रामचन्द्रस्य तु ख्यातमेतत् स्वभक्तद्विषो मस्तकं ताड्यमेव ।पुरी येन नीता क्षणाद् देवलोकं स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥२९॥प्रभोः सेवक.म् लोकयेत् क्रूरदृष्ट्या स ईदृउग्विधः कोऽस्ति भूम्यामबुद्धिः ।त्रिलोक्यां जना यद्यशो वर्णयन्त स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥३०॥महा संकटान्मोचिता येन देवाः बलेन प्रतापैर्गुणैर्यो वरिष्ठः ।स्मरत्यम्बिका शूलपाणिस्तथा यं स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥३१॥अहल्या शिलीभूतदेहाऽपि येन कृता पादसंस्पर्शतोऽतीव पूता ।श्रुतिर्यद्यशोवर्णने मौनमाप स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥३२॥मनश्चंद्र-सूर्यर्क्षमेर्वादिकं तु वसत्यञ्जसा यत्स्वरूपे समस्तम् ।चिरंजीवतां येन नीतौ स्वदासौ स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥३३॥उपेक्षा न कस्यापि यस्य स्वरूपे इति प्रत्ययो नास्ति मूढस्य चित्ते ।पुराणानि यं विश्वपालं वदन्ति स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥३४॥हृदि स्वे स्थितो यादृशो यस्य भाव वसत्यञ्जसा तादृशस्तत्र देवः ।अनन्यस्य यो रक्षकश्चापपाणिः स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥३५॥हरिः प्राणिनां संनिधौ सर्वदाऽऽस्ते कृपालुः स्वभक्तस्य धैर्यं विलोक्य ।सुखानंद-कैवल्य-दाताऽस्ति यो वै स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥३६॥यथा भास्करश्चक्रवाकस्य गोप्ता तथा संकटेऽस्ति प्रभुः सेवकस्य ।हरेर्भक्तिमाहात्म्यमुद्गीयते ज्ञैः स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥३७॥मनः प्रार्थनां रे शृणु त्वं ममैकां रघूत्तंसरूपं प्रपश्याचलस्त्वम् ।इदं मद्वचस्ते न हेयं कदापि मनो राघवे त्वं निवासं कुरुष्व ॥३८॥पुराणानि वेदाश्च यं वर्णयन्ति समाधानता स्यात् सदा यस्य सङ्गात् ।समर्प्याशु तस्मिन् निजं चञ्चलत्वं मनो राघवे संनिवासं कुरुष्व ॥३९॥मनः प्राप्यते वै सुखं यत्र सर्वम् अतीवादरेणेह तल्लक्षितव्यम् ।विवेकेन दुष्कल्पनां संनिवार् मनो राघवे संनिवासं कुरुष्व ॥४०॥सदैवाटने नो सुखंकिंचिदस्ति श्रमो जायते नो हितं किंचिदेव ।विवेकेन लब्ध्वा घनानन्द-बोधं मनो राघवे संनिवासं कुरुष्व ॥४१॥अलं विस्तरेण ब्रवीम्येकमेव मनो राघवं त्वं स्वकीयं कुरुष्व ।तदीयं व्रतं दीननाथेति श्रुत्वा मनः सज्जन स्वस्वरूपे वस त्वम् ॥४२॥मनः सद्वचो मे त्वया ग्राह्यमेकं हितं कार्यमेवात्मनः सर्वथेति ।कदाप्येह रामेतरं नैव वाच्यं सदाऽऽत्मस्वरूपं निदिध्यासनीयम् ॥४३॥मनो मूढसङ्गे तु मौनं विधेयं कथास्वादरो राघवस्यैव कार्यः ।न रामो गृहे यत्र संत्यज्य तत्तु सुखार्थे सदाऽरण्यवासो विधेयः ॥४४॥समाधानभङ्गो भवेद्यस्य सङ्गात् अहंता तथाऽऽकस्मिकी स्यात्स्वदेहे ।मतिर्यस्य सङ्गात् त्यजेद्रामचन्द्रं तदीयेन सङ्गेन पुंसां सुखं किम् ॥४५॥मनो या गता रामहीना स्ववेला तदायुस्त्वया नाशितं बुद्धिजाड्यात् ।श्रमो रामसेवां विना जीवितं यत् स दक्षोऽत्र यो रामसेवी सदैव ॥४६॥हृदा चिन्तयन् लोचनाभ्यां प्रपश्यन् हरिं भक्तियुक्तो य आस्ते बुधोऽपि ।गुणप्रीतियुक्तश्चरेत् साधनं यः स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥ ४७॥सदा देवकार्ये स्वदेहं युनक्ति सदा यस्य वाग् वक्ति सद्-रामनाम ।वरिष्ठे स्वधर्मे स्थितिर्यस्य नित्यं स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥४८॥सदा वक्ति यद् याति मार्गेण तेन प्रपश्यत्यनेकेषु तो देवमेकम् ।भ्रमस्य क्षयाद् यो भजेद्वासुदेवं स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥४९॥विकारा न कामादयो यस्य चित्ते तपस्वी विरागी स्वयं ब्रह्मचारी ।सदा शान्तचित्तस्तमोलेशहीनः स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥५०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP