मनोबोधः - श्लोक १०१ ते १५०

संत रामदास महाराजांची मनोबोध अशी रचना आहे, ज्यातून मनावर संस्कार घडविले जातात.


न यस्य प्रियं नाम तं शास्ति कालो विकल्पात् कुतर्के गतिर्नारकी स्यात् ।
अतः सादरं नाम संकीर्तितव्यं ततो जायते दोषनाशः स्वभावात् ॥१०१॥
प्रकृत्योररीकृत्य नम्रत्वमेव मनः सज्जनास्तेन संतोषितव्याः ।
स्वदेहं च लोकोपकार्ये नियुज्य भजातिप्रमोदेन साकारमीशम् ॥१०२॥
हरेः कीर्तने तद्गुणप्रीतिरस्तु परब्रह्मबोधे त्वहंता च माऽस्तु ।
धने चान्यदीये तथाऽन्यप्रियायां निरूढोऽभिमानः परित्याज्य एव ॥१०३॥
यथा वक्ति तद्वन्न यस्य प्रवृत्तिः विमूढः स तेनैव लज्जामुपैति ।
मनः केवलं यस्य वाग्विभ्रमोअऽस्ति कथं प्राप्नुयाद् देवदेवं स मूढः ॥१०४॥
विवेकादशुद्धां क्रियां स्वां विहाय विशुद्धां क्रियामादरेणाऽऽचर त्वम् ।
यथा भाषसे तद्वदेवाचर त्वं मनः कल्पनां मुञ्च संसारदात्रीम् ॥१०५॥
समाचर्य संध्यादि नित्यं स्वकर्म विवेकान्मनः स्थापयात्मप्रभ्रष्टम् ।
दया सर्वभूतेषु यस्य प्रवृद्धा सदा भक्तिभावात् स आप्नोति शान्तिम् ॥१०६॥
मनो नैव कार्यः प्रकोपः कदाचित् मनः साधुसङ्गे प्रवृत्तिं कुरुष्व ।
मनो मुञ्च सङ्गं सदा दुर्जनानां मनस्तेन ते मोक्षलाभोऽस्ति सत्यम् ॥१०७॥
मनः सर्वदा साधुसङ्गेन पुंसां भवेद् विक्रियाहानिरीशे च भक्तिः ।
विना सत्क्रियां मास्तु वाचालता ते यतो वादहानिः स संवाद इष्टः ॥१०८॥
वितण्डः सदा त्याज्य एवात्र सर्वैः सुखेनोत्तमैः सद्विवादो विधेयः ।
सुसंवाद एवेह शोकोपहारी यतो वादहानिः स संवाद इष्टः ॥१०९॥
असद्वादहा यः स संवाद एव विवेकेन जेतव्य एवाभिमानः ।
अहंता हि वादे विकारान् करोति यतो वादहानिः स संवाद इष्टः ॥११०॥
हितायैव ते सत्यवागीरितेयं हितायात्मनस्त्वं विचार्याचरात्र ।
हितायैव पाखण्डबुद्धिर्विवर्ज्या यतो वादहानिः स संवाद इष्टः ॥ १११॥
गतं जन्म वक्तुस्तथा श्रोतुरेव विवादः परं नैव शान्तो जनेषु ।
विवादोद्भवः संशयो दम्भकारी यतो वादहानिः स संवाद इष्टः ॥११२॥
हितं विस्मृतं पण्डितैर्वादशौण्डैः अहंताबलाद् राक्षसत्वं गतास्ते ।
परेशाद्विना पण्डितो नास्ति कश्चिद् अतो हे मनस्त्वं त्यज स्वामहंताम् ॥११३॥
परायोपदेशे व्ययो नैव कश्चिद् वृथाऽनुक्षणं वर्धते गर्ववेगः ।
क्रियामन्तरा वाक्पटुत्वं धिगेव मनः सर्वथैवादरान्निश्चिनु त्वम् ॥११४॥
न यो वादभाक् संवदेत् तेन पुंसां विवेकादहंकारलेशोऽपि हेयः ।
वदेद्यत् तदेवाचरेत् सर्वथैव विशुद्धक्रियो भक्तिमार्गेण गच्छेत् ॥११५॥
मुनेः शापजं गर्भवासस्य दुःखं स्वयं योऽम्बरीषस्य जग्राह विष्णुः ।
ददौ चोपमन्युं शिवः क्षीरसिन्धुं स नोपेक्षते देवदेवः स्वभक्तम् ॥११६॥
ध्रुवं बालमज्ञं तथा दैन्यभाजं परं ध्याननिष्ठं विलोक्यानुकम्प्य ।
चकाराचलं यस्तु ताराङ्गणे तं स नोपेक्षते देवदेवः स्वभक्तम् ॥११७॥
गजेन्द्रः सरस्युग्रनक्रेण पादे धृतो विष्णुमेवास्मरत् खिन्नगात्रः ।
हरिस्तत्क्षणदेत्य योऽमोचयत्तं स नोपेक्षते देवदेवः स्वभक्तम् ॥११८॥
द्विजोऽजामिलः पापकर्माऽन्तकाले वदन् पुत्रनाम प्रपेदे विमुक्तिम् ।
अनाथस्य योऽस्त्याश्रयश्चक्रपाणिः स नोपेक्षते देवदेवः स्वभक्तम् ॥११९॥
विधातुर्हितायाभवत् मत्स्यरूपो दधाराचलां कूर्मरूपेण पृष्ठे ।
स्वभक्तान् हि पातुं श्रितो नीचयोनीः स नोपेक्षते देवदेवः स्वभक्तम् ॥१२०॥
महाभक्त-प्रह्लाद-संरक्षणार्थं नृसिंहस्वरूपं प्रपेदे य उग्रम् ।
न यत्संन्निधौ कोऽपि गन्तुं समर्थः स नोपेक्षते देवदेवः स्वभक्तम् ॥१२१॥
ययाचे कृपां वज्रपाणिर्यदा वै तदा वामनोऽभूत् स्वयं चक्रपाणिः ।
तथा भार्गवो यो द्विजार्थं बभूव स नोपेक्षते देवदेवः स्वभक्तम् ॥१२२॥
अहल्या-सती-पक्षपातादरण्यं सिषेवेऽपि देवांश्च बन्धाद्विमोक्तुम् ।
रिपोर्यो ध्वजं प्राहरद् रावणस्य स नोपेक्षते देवदेवः स्वभक्तम् ॥१२३॥
पुरा द्रौपदी-प्रीतये देवदेवः स्वयं तत्क्षणादेव तत्राऽऽविरासीत् ।
कलौ योऽभवन्मौनि-बुद्धस्तथैव स नोपेक्षते देवदेवः स्वभक्तम् ॥१२४॥
अनाथान् स्वभक्तान् परित्रातुमेव कलौ सम्भविष्यत्यसावेव कल्किः ।
श्रुतिर्यद्गुणख्यापने मौनमाप स नोपेक्षते देवदेवः स्वभक्तम् ॥१२५॥
जनानुग्रहार्थं हि लीलावतारा अनेका धृता येन पूर्वं धरण्याम् ।
न तं सेवते यः स एवातिपापो दुरात्मा कुबुद्धिः स चाण्डालरूपः ॥१२६॥
स धन्यो हरेर्नामघोषेण शान्तः तथाऽऽकर्ण्य यस्तत्कथां तत्र लीनः ।
प्रनष्टा कुबुद्धिस्तदीया स्वबोधाद् मनोवासना यस्य रामे विलीना ॥१२७॥
मनो वासना वासुदेवे तवास्तु मनः कामना कामसङ्गे तु माऽस्तु ।
मनः कल्पना ते वृथा नैव कार्या मनः सज्जन !सन्त-सङ्गे रमस्व ॥१२८॥
मनः सद्गति-प्राप्तये साधुसङ्गः ततो नश्यते दुर्मतिर्दुर्जनस्य ।
रतीशो मनःक्षोभकोऽस्तीति मत्वा विधेयः प्रयत्नो बुधैर्निर्ममत्वे ॥१२९॥
मनो माऽस्तु रामं विना ते विकल्पः सदा सत्यसंकल्प एवाऽस्तु चित्ते ।
परित्यज्य जल्पं च लोके सदा त्वं रमाकान्तमेकान्तवृत्या भजस्व ॥१३०॥
जगत्यां जनैः सेव्य एको हि रामः स त्वेकवागेकबाणस्तथैव ।
चरित्रं यदीयं जनोद्धारकं च स सीतापतिः सेव्य आदौ विवेकात् ॥१३१॥
विचार्यैव यो भाषते वर्तते वा तदीयेन सङ्गेन संताप-शान्तिः ।
प्रवाच्यं विचारं विना नैव किंचित् सदा सत्पथा च प्रयातव्यमेव ॥१३२॥
विरक्तिश्च भक्तिश्च विज्ञानयोगः सदाऽऽत्मानुबोधो दृढो यद्-हृदिर्हि ।
सदा दर्शनं स्पर्शनं तस्य पुण्यं तथा भाषणं नाशकं संशयस्य ॥१३३॥
न यस्यास्ति गर्वो सदा वीतरागः क्षमाशान्तियुक्तो दयायां च दक्षः ।
नहि क्षोभलोभौ न दैन्यं च यस्मिन् वसत्यञ्जसा तत्र योगीश्वरत्वम् ॥१३४॥
विधेया मनः संगतिः सज्जनस्य यतो दुर्जनस्यापि धीः शुद्धिमेति ।
सुसद्भाव-सद्बुद्धि-सन्मार्गलाभः ततो निर्भयत्वं करालाच्छ कालात् ॥१३५॥
सदा भीतियुक्तं हि ब्रह्माण्डमेतद् अनन्तं तु तत् साधवश्चाभया वै ।
भवेद् यस्य तद्-ज्ञानतो द्वैतहानिः भयं मानसात् सर्वथा तस्य नष्टम् ॥१३६॥
प्रबोध्येह जीवं प्रयाता हि श्रेष्ठाः तथाप्यज्ञ एवेह जीवोऽस्ति हन्त ।
लयं यस्य नो यात्यहंकार-कर्म न स ज्ञानधिं विन्दतेऽहंतया वै ॥१३७॥
भ्रमात् चिद्-धनं यस्य गुप्तं बभुव मृतिर्जन्मदारिद्र्यमाविर्बभूव ।
विलीना न यस्येह देहात्मबुद्धिः न स ज्ञानधिं विन्दतेऽहंतया वै ॥१३८॥
न वेत्त्यात्मतत्त्वं ततं सर्वतोऽपि जडं मन्यते हन्त दृश्यं ह्यभाग्यः ।
न चाश्रद्धया पुण्यलेशोऽपि यस्य न स ज्ञानधिं विन्दतेऽहंतया वै ॥१३९॥
निजं वस्तु न प्राप्यते स्वप्रमादात् गुणानं हि बन्धोऽत्र दुःखस्य हेतुः ।
भवन्नैव यावद् गुणातीतवृत्तिः निधिर्विद्यतेऽहंतया नैव तावत् ॥१४०॥
अथहास्ति तो ब्रह्मवित् तस्य सेवा तथा वन्दनीयं तदीयाङ्घ्रियुग्मम् ।
विना सद्गुरोरञ्जनं तन्न वेद्यं मनोऽहंतयाऽसौ निधिर्नैव लभ्यः ॥१४१॥
न तद् ज्ञायते ज्ञायते नैव यावद् विमूढस्य संदेह-हानिर्न भूयात् ।
अहंता न यावद् विनिर्याति तावद् बलान्नैव तद् विद्यते लभ्यते न ॥१४२॥
अविद्यावशो मानवो मूढबुद्धिः भ्रमाद् विस्मृतं स्वं हितं नोपयाति ।
यथाऽसम्परीक्ष्यादृतं किन्त्वशुद्धं न तन्नाणकं स्वेप्सितार्थक्रयार्थम् ॥१४३॥
जगत्यां मनः किं नु सत्यं यथार्थं त्वया सादरं तत्तु संशोधनीयम् ।
तथा कुर्वता ब्रह्म-सत्तानुभूतिः ततोऽज्ञानजन्यो भ्रमो नाशमेति ॥१४४॥
सदा दृश्यचिन्तोद्भवं जीवजातं अहंकारतोऽज्ञानता विज्ञतेऽस्य ।
विवेकात् सदा स्व-स्वरूपं हि सेव्यं न हि ब्रह्ममूले जनुर्नैव मृत्युः ॥१४५॥
दृशो गोचरं यन्न सत् तत्कदाचित् अकस्माद् भवेत् तच्च कालेन नश्येत् ।
यतः सर्वनाशः स्थिरं नैव किंचित् मनोऽनन्त-सत्-चित् समन्वेषणीयम् ॥१४६॥
न भङ्ग्यं न छेद्यं न चाल्यं न भ्रंशं स्थितं सर्वतोऽहंतया नैव वेद्यम् ।
न तस्यैकरूपस्य द्वैतं तु सह्यं मनोऽनन्त-सत्-चित् समन्वेषणीयम् ॥१४७॥
स्वयम्भ्वादिरूपेऽपि यन्निर्विकारं श्रुतिर्वर्णने यस्य मौनं प्रपेदे ।
विवेकेन तद्रूपमासादनीय मनोऽनन्त-सत्-चित् समन्वेषणीयम् ॥१४८॥
जगत्यां न यत् चर्मचक्षुर्निरीक्ष्यं जगत्यां तु यद् ज्ञानचक्षुर्विलोक्यम् ।
यदालोकने स्याल्लयो लोकनस्य मनोऽन्वेषणीयं सदानन्दरूपम् ॥१४९॥
न पीतं न शुभ्रं न वा श्याममेतत् न च व्यक्तमव्यक्तरूपं न नीलम् ।
सुविश्वास आप्ते तु मुक्तिप्रदोऽत्र मनोऽन्वेषणीयं सदानन्दरूपम् ॥१५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP