नारायणीय - अध्यायः १२

विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe.


मार्कण्डेयश्चिरायुः स खलु पुनरपि त्वत्परः पुष्पभद्रा तीरे निन्ये तपस्यन्नतुलसुखरतिः षट्तु मन्वन्तराणि ।
देवेन्द्रः सप्तमस्तं सुरयुवतिमरुन्मन्मथैर्मोहयिष्यन् योगोष्मप्लुष्यमाणैर्न तु पुनरशकत्त्वज्जनं निर्जयेत्कः ॥
प्रीत्या नारायणाख्यस्त्वमथ नरसखः प्राप्तवानस्य पार्श्वं तुष्ट्या तोष्टूयमानः स तु विविधवरैर्लोभितो नानुमेने ।
द्रष्टुं मायां त्वदीयां किल पुनरवृणोद्भक्तितृप्तान्तरात्मा मायादुःखानभिज्ञस्तदपि मृगयते नूनमाश्चर्यहेतोः ॥
याते त्वय्याशु वाताकुलजलदगलत्तोतपूर्णातिघूर्णत्सप्तार्णोराशिमग्ने जगति स तु जले सम्भ्रमन्वर्षकोटीः ।
दीनः प्रैक्षिष्ट दूरे वटदलशयनं कञ्चिदाश्चर्यबालं त्वामेव श्यामलाङ्गं वदनसरसिजन्यस्तपादाङ्गुलीकम् ॥
दृष्ट्वा त्वां हृष्टरोमा त्वरितमभिगतः स्प्रष्टुकामो मुनीन्द्रः श्वासेनान्तर्निविष्टः पुनरिह सकलं दृष्टवान्विष्टपौघम् ।
भूयोऽपि श्वासवातैर्बहिरनुपतितो वीक्षितस्त्वत्कटाक्षैर्मोदादाश्लेष्टुकामस्त्वयि पिहिततनौ स्वाश्रमे प्राग्वदासीत् ॥
गौर्या सार्धं तदग्रे पुरभिदथ गतस्त्वत्प्रियप्रेक्षणार्थी सिद्धानेवास्य दत्त्वा स्वयमयमजरामृत्युतादीन्गतोऽभूत् ।
एवं त्वत्सेवयैव स्मररिपुरपि स प्रीयते येन तस्मान्मूर्तित्रय्यात्मकस्त्वं ननु सकलनियन्तेति सुव्यक्तमासीत् ॥
त्र्यंशेऽस्मिन्सत्यलोके विधिहरिपुरभिन्मन्दिराण्यूर्ध्वमूर्ध्वं तेभ्योऽप्यूर्ध्वं तु मायाविकृतिविरहितो भाति वैकुण्ठलोकः ।
तत्र त्वं कारणाम्भस्यपि पशुपकुले शुद्धसत्त्वैकरूपी सच्चिद्ब्रह्माद्वयात्मा पवनपुरपतेपाहि मां सर्वरोगात् ॥
यस्मिन्नेतद्विभातं यत इदमभवद्येन चेदं य एतदयोऽस्मादुत्तीर्णरूपः खलु सकलमिदं भासितं यस्य भासा ।
यो वाचां दूरदूरे पुनरपि मनसां यस्य देवा नुनीन्द्रा नो विद्युस्तत्त्वरूपं किमु पुनरपरे कृष्णतस्मै नमस्ते ॥
जन्माथो कर्म नाम स्फुटमिह गुणदोषादिकं वा न यस्मिन् लोकानामूतेय यः स्वयमनुभजते तानि मायानुसारी ।
बिब्रच्छक्तीररूपोऽपि च बहुतररूपोऽवभात्यद्धुतात्मा तस्मै कैवल्यधाम्ने पररसपरिपूर्णाय विष्णोनमस्ते ॥
नो तिर्यञ्चं न मर्त्यं न च सुरमसुरं न स्त्रियं नो पुमांसं न द्रव्यं कर्म जातिं गुणमपि सदसद्वापि ते रूपमाहुः ।
शिष्टं यत्स्यान्निषेधे सति निगमशतैर्लक्षणावृत्तितस्तत् कृच्छेणावेद्यमानं परमसुखमयं भाति तस्मै नमस्ते ॥
मायायां बिम्बितस्त्वं सृजसि महदहङ्कारतन्मात्रभेदैर्भूतग्रामेन्द्रियाद्यैरपि सकलजगत्स्वप्नसङ्कल्पकल्पम् ।
भूयः संहृत्य सर्वं कमठ इव पदान्यात्मना कालशक्त्या गम्भीरे जायमाने तमसि वितिमिरो भासि तस्मै नमस्ते ॥
शब्दब्रह्मेति कर्मेत्यणुरिति भगवन्काल इत्यालपन्ति त्वामेकं विश्वहेतुं सकलमयतया सर्वथा कल्प्यमानम् ।
वेदान्तैर्यत्तु गीतं पुरुषपरचिदात्माभिधं तत्तु तत्त्वं प्रेक्षामात्रेण मूलप्रकृतिविकृतिकृत्कृष्णतस्मै नमस्ते ॥
सत्त्वेनासत्तया वा न च खलु सदसत्त्वेन निर्वाच्यरूपा धत्ते यासावविद्या गुणफणिमतिवद्विश्वदृश्यावभासम् ।
विद्यात्वं सैव याता श्रुतिवचनलवैर्यत्कृपास्यन्दलाभे संसारारण्यसद्यस्त्रुटनपरशुतामेति तस्मै नमस्ते ॥
भूषासु स्वर्णवद्वा जगति घटशरावादिके मृत्तिकावत् तत्त्वे सञ्चिन्त्यमाने स्फुरति तदधुनाप्यद्वितीयं वपुस्ते ।
स्वप्नद्रष्टुः प्रबोधे तिमिरलयविधौ जीर्णरज्जोश्च यद्वद् विद्यालाभे तथैव स्फुटमपि विकसेत्कृष्णतस्मै नमस्ते ॥
यद्भीत्योदेति सूर्यो दहति च दहनो वाति वायुस्तथान्ये यद्भीताः पद्मजाद्याः पुनरुचितबलीनाहरन्तेऽनुकालम् ।
येनैवारोपिताः प्राङ्निजपदमपि ते च्यावितारश्च पश्चात् तस्मै विश्वं नियन्त्रे वयमपि भवते कृष्णकुर्मः प्रणामम् ॥
त्रैलोक्यं भावयन्तं त्रिगुणमयमिदं त्र्यक्षरस्यैकवाच्यं त्रीशानामैक्यरूपं त्रिभिरपि निगमैर्गीयमानस्वरूपम् ।
तिस्रोऽवस्था विदन्तं त्रियुगजनिजुषं त्रिक्रमक्रान्तविश्वं त्रैकाल्ये भेदहीनं त्रिभिरहमनिशं योगभेदैर्भजे त्वाम् ॥
सत्यं शुद्धं विबुद्धं जयति तव वपुर्नित्यमुक्तं निरीहं निर्द्वन्द्वं निर्विकारं निखिलगुणगणव्यञ्जनाधारभूतम् ।
निर्मूलं निर्मलं तन्निरवधिमहिमोल्लासि निर्लीनमन्तर्निस्सङ्गानां मुनीनां निरुपमपरमानन्दसान्द्रप्रकाशम् ॥
दुर्वारं द्वादशारं त्रिशतपरिमिलत्षष्टिपर्वाभिवीतं संभृआम्यत्क्रूरवेगं क्षणमनु जगदाच्छिद्य सन्धावमानम् ।
चक्रं ते कालरूपं व्यथयतु न तु मां त्वत्पदैकावलम्बं विष्णोकारुण्यसिन्धोपवनपुरपतेपाहि सर्वामयौघात् ॥
विष्णोर्वीर्याणि को वा कथयतु धरणेः कश्च रेणून्मिमीते यस्यैवाङ्घ्रित्रयेण त्रिजगदभिमितं मोदते पूर्णसम्पत् ।
योऽसौ विश्वानि धत्ते प्रियमिह परमं धाम तस्याभियायां तद्भक्ता यत्र माद्यन्त्यमृतरसमरन्दस्य यत्र प्रवाहः ॥
आद्यायाशेषकर्त्रे प्रतिनिमिषनवीनाय भर्त्रे विभूतेर्भक्तात्मा विष्णवे यः प्रादिशति हविरादीनि यज्ञार्चनादौ ।
कृष्णाद्यं जन्म वा महदिह महतो वर्णयेत्सोऽयमेव प्रीतः पूर्णो यशोभिस्त्वरितमभिसरेत्प्राप्यमन्ते पदं तत् ॥
हे स्तोतारःकवीन्द्रास्तमिह खलु यथा चेतयध्वे तथैव व्यक्तं वेदस्य सारं प्रणुवत जननोपात्तलीलाकथाभिः ।
जानन्तश्चास्य नामान्यखिलसुखकराणीति सङ्कीर्तयध्वं हे विष्णोकीर्तनाद्यैस्तव खलु महतस्तत्त्वबोधं भजेयम् ॥
विष्णोः कर्माणि सम्पश्यत मनसि सदा यैः स धर्मानबध्नाद् यानीन्द्रस्यैष भृत्यः प्रियसख इव च व्यातनोत्क्षेमकारी ।
वीक्षन्ते योगसिद्धाः परपदमनिशं पस्य सम्यक्प्रकाशं विप्रेन्द्रा जागरूकाः कृतबहुनुतयो यच्च निर्भासयन्ते ॥
नो जातो जायमानोऽपि च समधिगतस्त्वन्महिम्नोऽवसानं देवश्रेयांसि विद्वान्प्रतिमुहुरपि ते नाम शंसामि विष्णो।
तं त्वां संस्तौमि नानाविधनुतिवचनैरस्य लोकत्रयस्याप्यूर्ध्वं विभ्राजमाने विरचितवसतिं तत्र वैकुण्ठलोके ॥
आपः सृष्ट्यादिजन्याः प्रथममयि विभोगर्भदेशे दधुस्त्वां यत्र त्वय्येव जीवा जलशयनहरेसङ्गता एक्यमापन् ।
तस्याजस्य प्रभोते विनिहितमभवत्पद्ममेकं हि नाभौ दिक्पत्रं यत्किलाहुः कनकधरणिभृत्कर्णिकं लोकरूपम् ॥
हे लोका विष्णुरेतद्भवनमजनयत्तन्न जानीथ यूयं युष्माकं ह्यन्तरस्थं किमपि तदपरं विद्यते विष्णुरूपम् ।
नीहारप्रख्यमायापरिवृतमनसो मोहिता नामरूपैः प्राणप्रीत्यैकतृप्ताश्चरथ मखपरा हन्त नेच्छा मुकुन्दे ॥
मूर्ध्नामक्षणां पदानां वहसि खलु सहस्राणि सम्पूर्य विश्वं तत्प्रोत्क्रम्यापि तिष्ठन्परिमितविवरे भासि चित्तान्तरेऽपि ।
भूतं भव्यं च सर्वं परपुरुषभवान्किञ्च देहेन्द्रियादिष्वाविष्टो ह्युद्गतत्वादमृतसुखरसं चानुभुङ्क्षे त्वमेव ॥
यत्तु त्रैलोक्यरूपं दधदपि च ततोनिर्गतानन्तशुद्धज्ञानात्मा वर्तसे त्वं तव खलु महिमा सोऽपि तावान्किमन्यत् ।
स्तोकस्ते भाग एवाखिलभुवनतया दृश्यते त्र्यंशकल्पं भूयिष्ठं सान्द्रमोदात्मकमुपरि ततो भाति तस्मै नमस्ते ॥
अव्यक्तं ते स्वरूपं दुरधिगमतमं तत्तु शुद्धैकसत्त्वं व्यक्तं चाप्येतदेव स्फुटममृतरसाम्भोधिकल्लोलतुल्यम् ।
सर्वोत्कृष्टामभीष्टां तदिह गुणरमेनैव चित्तं हरन्तीं मूर्तिं ते संश्रयेऽहं पवनपुरपतेपाहि मां कृष्णरोगात् ॥
अग्रे पश्यामि तेजो निबिडतरकलायावलीलोभनीयं पीयूषाप्लावितोऽहं तदनु तदुदरे दिव्यकैशोरवेषम् ।
तारुण्यारम्भरम्यं परमसुखरसास्वादरोमाञ्चिताङ्गैरावीतं नारदाद्यैविलसदुपनिषत्सुन्दरीमण्डलैश्च ॥
नीलाभं कुञ्चिताग्रं घनममलतरं संयतं चारुभङ्ग्या रत्नोत्तंसाभिरामं वलयितमुदयच्चन्द्रकैः पिञ्छजालैः ।
मन्दारस्रङ्निवीतं तव पृथुकबरीभारमालोकयेऽहं स्निग्धश्चेतोर्ध्वपुण्ड्रामपि च सुललितां फालबालेन्दुवीथीम् ॥
हृद्यं पूर्णानुकम्पार्णवमृदुलहरीचञ्चलभ्रूविलासैरानीलस्निग्धपक्ष्मावलिपरिलसितं नेत्रयुग्मं विभोते ।
सान्द्रच्छायं विशालारुणकमलदलाकारमामुग्धतारं कारुण्यालोकलीलाशिशिरितभुवनं क्षिप्यतां मय्यनाथे ॥
उत्तुङ्गोल्लासिनासं हरिमणिमुकुरप्रोल्लसद्गण्डपाली व्यालोलत्य्कर्णपाशाञ्चितमकरमणीकुण्डलद्वन्द्वदीप्रम् ।
उन्मीलद्दन्तपङ्क्तिस्फुरदरुणतरच्छायबिम्बाधरान्तः प्रीतिप्रस्यन्दिमन्दस्मितशिशिरतरं वक्त्रमुद्भासतां मे ॥
बाहुद्वन्द्वेन रत्नोज्ज्वलवलयभृता शोणपाणिप्रवाले नोपात्तां वेणुनालीं प्रसृतनखमयूखाङ्गुलीसङ्गशाराम् ।
कृत्वा वक्त्रारविन्द्रे सुमधुरविकसद्रागमुद्भाव्यमानैः शब्दब्रह्मामृतैस्त्वं शिशिरितभुवनैः सिञ्च मे कर्णवीथीम् ॥
उत्सर्पत्कौस्तुभश्रूततिभिररुणितं कोमलं कण्ठदेशं वक्षः श्रीवत्सरम्यं तरलतरसमुद्दीप्रहारप्रतानम् ।
नानावर्णप्रसूनावलिकिसलयिनीं वन्यमालां विलोलल्लोलम्बां लम्बमानामुरसि तव तथा भावये रत्नमालाम् ॥
अङ्गे पञ्चाङ्करागैरतिशयविकसत्सौरभाकृष्टलोकं लीनानेकत्रिलोकीविततिमपि कृशां बिभ्रतं मध्यवल्लीम् ।
शक्राश्मन्यस्ततप्तोज्ज्वलकनकनिभं पीतचेलं दधानं ध्यायामि दीप्तरश्मिस्फुटमणिरशनाकिङ्गिणीमण्डितं त्वाम् ॥
ऊरू चारू तवोरू घनमसृणरुचौ चित्तचोरौ रमाया विश्वक्षोभं विशङ्क्य ध्रुवमनिशमुभौ पीतचेलावृताङ्गौ ।
आनम्राणां पुरस्तान्न्यसनधृतसमस्तार्थपालीसमुद्गच्छायां जानुद्वियं च क्रमपृथुलमनोज्ञे च जङ्घे निषेवे ॥
मञ्जीरं मञ्जुनादैरिव पदभजनं श्रेय इत्यालपन्तं पादाग्रं भ्रान्तिमज्जत्प्रणतजनमनोमन्दरोद्धारकूर्मम् ।
उत्तुङ्गाताम्रराजन्नखरहिमकरज्योत्स्नया चाश्रितानां सन्तापध्वान्तहत्त्रीं ततिमनुकलये मङ्गलामङ्गुलीनाम् ॥
योगीन्द्राणां त्वदङ्गेष्वधिकसुमधुरं मुक्तिभाजां निवासो भक्तानां कामवर्षद्युतरुकिसलयं नाथते पादमूलम् ।
नित्यं चित्तस्थितं मे पवनपुरपतेकृष्णकारुण्यसिन्धो हृत्वा निःशेषतापान्प्रदिशतु परमानन्दसन्दोहलक्ष्मीम् ॥
अज्ञात्वा ते महत्त्वं यदिह निगदितं विश्वनाथक्षमेथाः स्तोत्रं चैतत्सहस्रोत्तरमधिकतरं त्वत्प्र्सादाय भूयात् ।
द्वेधा नारायणीयं श्रुतिषु च जनुषा स्तुत्यतावर्णनेन स्फीतं लीलावतारैरिदमिह कुरुतामायुरारोग्यसौख्यम्

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP