इदानीं प्रयोजनं निरूप्यते । यदवगतं सत् स्ववृत्तितया इष्यते तत्प्रयोजनम् ।
तच्च द्विविधम् -मुख्यं गौणं चेति । तत्र सुखदुःखाभावौ मुख्ये प्रयोजने ,
तदन्यतरसाधनं गौणं प्रयोजनम् । सुखं च द्विविधम् -सातिशयं निततिशयं च ।
तत्र सातिशयं सुखं
विषयानुषङ्गजनितान्तःकरणवृत्तितारतम्यकृतानन्दलेशाविर्भावविशेषः ,
"एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति "इत्यादि श्रुतेः ।
निरतिशयं सुखं च ब्रह्मैव , "आनन्दो ब्रह्मेति व्यजानात् , "
"विज्ञानमानन्दं ब्रह्म "इत्यादि श्रुतेः । आनन्दात्मकब्रह्मावाप्तिश्च
मोक्षः , शोकनिवृत्तिश्च , "ब्रह्म वेद ब्रह्मैव भवति , ""तरति
शोकमात्मवित् " इत्यादि श्रुतेः । न तु लोकान्तरावाप्तिः ,
तज्जन्यवैषयिकानन्दो वा मोक्षः , तस्य कृतकत्वेनानित्यत्वे मुक्तस्य
पुनरावृत्त्यापत्तेः । ननु त्वन्मतेऽप्यानन्दावाप्तेरनर्थनिवृत्तेश्च
सादित्वे तुल्यो दोषः , अनादित्वे मोक्षमुद्दिश्य श्रवणादौ
प्रवृत्त्यनुपपत्तिरिति चेत् , न , सिद्धस्यैव ब्रह्मस्वरूपस्य
मोक्षस्यासिद्धत्वभ्रमेण तत्साधने प्रवृत्त्युपपत्तेः ।
अनर्थनिवृत्तिरप्यधिष्ठानभूतब्रह्म - स्वरूपतया सिद्धैव । लोकेऽपि
प्राप्तप्राप्ति -परिहृतपरिहारयोः प्रयोजनत्वं दृष्टमेव । यथा
हस्तगत्विस्मृतसुवर्णादौ "तव हस्ते सुवर्णम् "इत्याप्तोपदेशादप्राप्तमिव
प्राप्नोति । यथा वा वलयितचरणायां स्रजि सर्पत्वभ्रमवतः "नायं सर्पः "
इत्याप्तवाक्यात् परिहृतस्यैव सर्पस्य परिहारः । एवं
प्राप्तस्याप्यानन्दस्य प्राप्तिः , परिहृतस्याप्यनर्थस्य निवृत्तिर्मोक्षः
प्रयोजनं च । स च ज्ञानैकसाध्यः , "तमेव विदित्वाऽतिमृत्युमेति , नान्यः
पन्था विद्यतेऽयनाय "इति श्रुतेः , अज्ञान्ननिवृत्तेः ज्ञानैकसाध्यत्व -
नियमाच्च । तच्च ज्ञानं ब्रह्मात्मैक्यगोचरम् , "अभयं वै जनक प्राप्तोऽसि ,
""तदात्मानमेवावेत् -अहं ब्रह्मास्मि " इत्यादि श्रुतेः ,
"तत्त्वमस्यादिवाक्योत्थं ज्ञानं मोक्षस्य साधनम् "इति नारदीयवचनाच्च ।
तच्च ज्ञानमपरोक्षरूपम् , परोक्षत्वेऽपरोक्षभ्रमनिवर्तक - त्वानुपपत्तेः ।
तच्चापरोक्षज्ञानं "तत्त्वमस्या "दिवाक्यादिति केचित् ,
मनननिदिध्यासनसंस्कृतान्तःकरणादेवेत्येपरे । तत्र पूर्वाचार्याणामाशयः
-संविदापरोक्ष्यं न करणविशेषोत्पत्ति - निबन्धनम् , किन्तु
प्रमेयविशेषनिबन्धनम् इत्युपादितम् । तथा च ब्रह्मणः प्रमातृजीवाभिन्नतया
तद्गोचरं शब्दजन्यमपि ज्ञानमपरोक्षम् । अत एव प्रतर्दनाधिकरणे प्रतर्दनं
प्रति "प्राणोऽस्मि प्रज्ञात्मा , तं मामायुरमृतमुपास्व "इति
इन्द्रप्रोक्तवाक्ये 'प्राण '-शब्दस्य ब्रह्मपरत्वे निश्चिते सति
"मामुपास्व "इत्यशच्छाब्दानुपपत्तिमाशङ्क्य तदुत्तरत्वेन प्रवृत्ते
"शास्त्रदृष्ट्या तूपदेशो वामदेववत् "इत्यत्र सूत्रे शास्त्रीया दृष्टिः
शास्त्रदृष्टिः , "तत्त्वमस्या "दिवाक्यजन्यम् "अहं ब्रह्म " इति ज्ञानं
'शास्त्रदृष्टि '-शब्देनोक्तमिति । अन्येषां त्वेवमाशयः
-करणविशेषनिबन्धनमेवज्ञानानां प्रत्यक्षत्वम् , न विषयविशेषनिबन्धनम् ,
एकस्मिन्नेव सूक्ष्मवस्तुनि पटुकरणापटुकरणयोः
प्रत्यक्षत्वाप्रत्यक्षत्वव्यवहारदर्शनात् । तथ च संवित्साक्षात्वे
इन्द्रियजन्यत्वस्यैव प्रयोजकतया न शब्दजन्यज्ञानस्यापरोक्षत्वम् ।
ब्रह्मसाक्षात्कारेऽपि मनन - निदिध्यासनसंस्कृतं मन एव करणम् ,
"मनसैवानुद्रष्टव्यम् " इत्यादिश्रुतेः ।
मनोऽगम्यत्वश्रुतिश्चासंस्कृतमनोविषया । न चैवं ब्रह्मण
औपनिषदत्वानुपपत्तिः , अस्मदुक्तमनसो वेदजन्यज्ञानानन्तरमेव प्रवृत्ततया
वेदोपजीवित्वात् ; वेदानुपजीविमानान्तरगम्यत्वस्यैव विरोधित्वात् ।
'शास्त्रदृष्टि '-सूत्रमपि ब्रह्मविषयकमानसप्रत्यक्षस्य
शास्त्र[रयोज्यत्वादुपपद्यते । तदुक्तम् - "' अपि संराधने ' सूत्रात्
शास्त्रार्थ ध्यानजा प्रमा । शास्त्रदृष्तिर्मता , तान्तु वेत्ति वाचस्पतिः
परम् ॥" तच्च ज्ञानं पापक्षयात् , स च कर्मानुष्ठानादिति परम्परया कर्मणां
विनियोगः । अत एव "तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन
तपसाऽनाशकेन "इत्यादि श्रुतिः , "कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते
"इत्यादि स्मृतिश्च सङ्गच्छते । एवं श्रवणमनननिदिध्यासनान्यपि
ज्ञानसाधनानि , मैत्रेयीब्राह्मणे "आत्मा वा अरे द्रष्टव्यः "इति
दर्शनमनूद्य तत्साधनत्वेन "श्रोतव्यो मन्तव्यो निदिध्यासितव्यः "इति
श्रवणमनननिदिध्यासनानां विधानात् । श्रवणं नाम वेदान्तानामद्वितीये
ब्रह्मणि त्तत्पर्यावधारणानुकूला मानसी क्रिया । मननं नाम
शब्दावधारितेऽर्थे मानान्तरविरोधशङ्कायां
तन्निराकरणानुकूलतर्कात्मकज्ञानजनको मानसो व्यापारः । निदिध्यासनं नाम
अनादिदुर्वासनया विषयेष्वाकृष्यमाणस्य चित्तस्य विषयेभ्योऽपकृष्य
आत्मविषयकस्थैर्यानुकूलो मानसो व्यापारः । तत्र निदिध्यासनं
ब्रह्मसाक्षात्कारे साक्षात् कारणम् , "ते ध्यानयोगानुगता अपश्यन् ,
देवात्मशक्तिं स्वगुणैर्निगूढाम् " इत्यादि श्रुतेः । निदिध्यासने च मननं
हेतुः , अकृतमननस्यार्थ - दार्ढ्याभावेन तद्विषयकनिदिध्यासनायोगात् । मनने च
श्रवणं हेतुः , श्रवणाभावे तात्पर्यानिश्चयेन शाब्दज्ञानाभावेन
श्रुतार्थविषयकयुक्तत्वायुक्तत्वनिश्च्यानुकूलमननायोगात् । एतानि त्रीण्यपि
ज्ञानोत्पत्तौ कारणानीति केचिदाचार्या ऊचिरे । अपरे तु श्रवणं प्रधानम् ,
मनननिदिध्यासनयोस्तु श्रवणात् पराचीनयोरपि श्रवणफलब्रह्मदर्शननिर्वर्तकतया
आरादुपकारक - तयाऽङ्गत्वमित्याहुः । तदप्यङ्गत्वं न तार्तीयशेषत्वरूपम् ,
तस्य श्रुत्याद्यन्यतमप्रमाणगम्यस्य प्रकृते श्रुत्याद्यभावेऽसम्भवात् ।
तथा हि "ब्रीहिभिर्यजेत , ""दध्ना जुहोति " इत्यादाविव
मनननिदिध्यासनयोरङ्गत्वे न काचित् तृतीया श्रुतिरस्ति । नापि
"बर्हिर्देवसदनं दामि "इत्यादि मन्त्राणां बर्हिःखण्डन -
प्रकाशनसामर्थ्यवत् किञ्च्ल्लिङ्गमस्ति । नापि प्रदेशान्तरपठितस्य
प्रव्र्गस्य "अग्निष्टोमे प्रवृणक्ति "इति वाक्यवत् श्रवणानुवादेन
मनननिदिध्यासनविनियोजकं किञ्चिद्वाक्यमस्ति । नापि "दर्शपूर्णमासाभ्यां
स्वर्गकामो यजेत "इति वाक्यावगतफल - साधनताकदर्शपूर्णमासप्रकरणे
प्रयाजादीनामिव फलसाधनत्वे - नावगतस्य श्रवणस्य प्रकरणे
मनननिदिध्यासनयोराम्नानम् . ननु 'द्रष्टव्यः 'इति दर्शनानुवादेन श्रवणे
विहिते सति फलवत्तया श्रवणप्रकरणे तत्सन्निधावाम्नातयोर्मनननिदिध्यासनयोः
प्रयाजन्यायेन प्रकरणादेवाङ्गतेति चेत् , न , "ते ध्यानयोगानुगता अपश्यन्
"इतादि श्रुत्यन्ते ध्यानस्य दर्शनसाधनत्वेनावगतस्य अङ्गाकाङ्क्ष्यायां
प्रयाजन्ययेन श्रवणमननयोरेवाङ्गत्वापत्तेः । क्रमसमाख्ये च दूरनिरस्ते ।
किञ्च प्रयाजादिष्वङ्गत्वविचारः सप्रयोजनः । पूर्वपक्षे विकृतिषु न
प्रयाजाद्यनुष्ठानम् ; सिद्धान्ते तु तत्रापि तदनुष्ठानमिति । प्रकृते तु
श्रवणं न कस्यचित् प्रकृतिः , येन मनननिदिध्यासनयो -
स्तत्राप्यनुष्ठानमङ्गत्वविचारफलं भवेत् । तस्मान्न तार्तीयशेषत्वं
मनननिदिध्यासनयोः , किन्तु तथा घटादिकार्ये मृत्पिण्डादीनां सहकारिकारणतेति
प्राधान्याप्राधान्यव्यपदेशः , तथा श्रवण - मनननिदिध्यासनानामपीति
मन्तव्यम् । सूचितं चैतद्विवरणाचार्यैः -"शक्तितात्पर्यविशिष्तशब्दावधारणं
प्रमेयावगमं प्रत्यव्यवधानेन कारणं भवति , प्रमाणस्य प्रमेयावगमं
प्रत्यव्यवधानात् । मनननिदिध्यासने तु चित्तस्यप्रत्यगात्मप्रवणता -
संस्कारपरिनिष्पन्न -तदेकाग्रवृत्तिकार्यद्वारेण ब्रह्मानुभवहेतुतां
प्रतिपद्येते इति फलं प्रत्यव्यवहितकारणस्य शक्तितात्पर्यविशिष्ट -
शब्दावधारणस्य व्यवहिते मनननिदिध्यासने तदङ्गे अङ्गीक्रियते । श्रवणादिषु च
मुमुक्षूणामधिकारः , काम्ये कर्मणि फलकामस्याधिकारित्वात् । मुमुक्षायां च
नित्यानित्यवस्तुविवेकस्येहामुत्रार्थफलभोगविरागस्य
शमदमोपरतितितिक्षासमाधानश्रद्धानां च विनियोगः । अन्तरिन्द्रियनिग्रहः शमः ।
बहिरिन्द्रियनिग्रहो दमः । विक्षेपाभाव उपरतिः । शीतोष्णादि - द्वन्द्वशनं
तितिक्षा । चित्तैकाग्रं समाधानम् । गुरुवेदान्तवाक्येषु विश्वासः श्रद्धा
। अत्र 'उपरम '-शब्देन संन्यासोऽभिधीयते ; तथा च संन्यासिनामेव
श्रवणादावधिकारः , इति केचित् । अपरे तु 'उपरम '-शब्दस्य
संन्यासवाचकत्वाभावात् , विक्षेपाभावमात्रस्य गृहस्थेष्वपि सम्भवात् ,
जनकादेरपि ब्रह्मविचारस्य श्रूयमाणत्वात् , सर्वाश्रमसाधारणं
श्रवणादिविधानमित्याहुः । सगुणोपासनमपि
चित्तैकाग्र्यद्वारानिर्विशेषब्रह्मसाक्षात्कारहेतुः । तदुक्तम् -
"निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वरः । ये
मन्दास्तेऽनुकम्प्यन्तेसविशेषनिरूपणैः ॥ वशीकृते मनस्येषां
सगुणब्रह्मशीलनात् । तदेवाविर्भवेत् साक्षादपेतोपाधिकल्पनम् ॥"इति ।
सगुणोपासकानां च अर्चिरादिमार्गेण ब्रह्मलोकगतानां तत्रैव
श्रवणाद्युत्पन्नतत्त्वसाक्षात्काराणां ब्रह्मणा सह मोक्षः । कर्मिणान्तु
धूमादिमार्गेण पितृलोकं गतानामुपभोगेन कर्मक्षये सति
पूर्वकृतसुकृतदुष्कृतानुसारेण ब्रह्मादिस्य्हावरान्तेषु पुनरुत्पत्तिः ।
तथा च श्रुतिः -"रमणीयचरणा रमणीयां योनिमापद्यन्ते , कपूयचरणाः कपूयां
योनिमापद्यन्ते "इति । प्रतिषिद्धानुष्ठायिनां तु रौरवादिनरकविशेषेषु
तत्तत्पापोचित - तीव्रदुःखमनुभूय श्वशूकरादितिर्यग्योनिषु स्थावरादिषु
चोत्पत्तिः , इत्यलं प्रसङ्गागतप्रपञ्चेन । निर्गुणब्रह्मसाक्षात्कारवतस्तु
न लोकान्तरगमनम् , "न तस्य प्राणा उत्क्रामन्ति "इति श्रुतेः , किन्तु
यावत्प्रारब्धकर्मक्षयं सुखदुःखे अनुभूय पश्चादपवृज्यते । ननु "क्षीयन्ते
चास्य कर्माणि तस्मिन् दृष्टे परावरे " इत्यादि श्रुत्या , "ज्ञानाग्निः
सर्वकर्माणि भस्मसात् कुरुते तथा "इत्यादि स्मृत्या च ज्ञानस्य
सकलकर्मक्षयहेतुत्वनिश्चये सति प्रारब्धकर्मावस्थानमनुपपन्नमिति चेत् , न ।
"तस्य तावदेव चिरं यावन्न विमोक्ष्ये , अथ सम्पत्स्ये "इत्यादि श्रुत्या ,
"नाभुक्तं क्षीयते कर्म "इत्यादि स्मृत्या चोत्पादितकार्यकर्म -
व्यतिरिक्तानां सञ्चितकर्मणामेव ज्ञानविनाश्यत्वावगमात् । सञ्चितं
द्विविधम् -सुकृतं दुष्कृतं च । तथा च श्रुतिः - "तस्य पुत्रा दायमुपयन्ति ,
सुहृदः साधुकृत्याम् , द्विषन्तः पापकृत्याम् "इति । ननु
ब्रह्मज्ञानान्मूलाज्ञाननिवृत्तौ तत्कार्यप्रारब्धकर्मणोऽपि निवृत्तेः कथं
ज्ञानिनां देहधारणमुपपद्यते इति चेत् , न ,
अप्रतिबद्धज्ञानस्यैवाज्ञाननिवर्तकतया प्रारब्धकर्मरूप-
प्रतिबन्धकदशायामज्ञाननिवृत्तेरनङ्गीकारात् । नन्वेवमपि
तत्त्वज्ञानादादेकस्य मुक्तौ सर्वमुक्तिः स्यात् , अविद्याया एकत्वेन
तन्निवृत्तौ क्वचिदपि संसारायोगादिति चेत् , न , इष्टापत्तेरित्येके । अपरे
तु एतद्दोषपरिहारायैव "इन्द्रो मायाभिः "इति
बहुवचनश्रुत्यनुगृहीतमविद्यायानानात्व - मङ्गीकर्तव्यमित्याहुः । अन्ये तु
एकैवाविद्या , तस्याश्चाविद्याया जीवभेदेन ब्रह्मस्वरूपावरणशक्तयो नाना ;
तथा च यस्य ब्रह्मज्ञानं तस्य ब्रह्मस्वरूपावरणशक्तिविशिष्टाविद्यानाशः , न
त्वन्यं प्रति , इत्युपगमात् नैकमुक्तौ सर्वमुक्तिः । अत एव
"यावदधिकारमवस्थितिराधिकारिकाणाम् "इत्यस्मिन्नधिकरणे
अधिकारिपुरूषाणामुत्पन्नतत्त्वज्ञानानामिन्द्रादीनां देहधारणा -
नुपपत्तिमाशङ्क्य अधिकारापादकप्रारब्धकर्मसमाप्त्यनन्तरं विदेहकैवल्यमिति
सिद्धान्तितम् । तदुक्तमाचार्यवाचस्पतिमिश्रैः -
"उपसनादिसंसिद्धितोषितेश्वरचोदितम् । अधिकारं समाप्यैते प्रविशन्ति परं
पदम् ॥"इति । एतच्चैकमुक्तो सर्वमुक्तिरिति पक्षे नोपपद्यते ।
तस्मादेकाविद्यापक्षेऽपि प्रतिजीवमावरणभेदोपगमेन व्यवस्थोपपादनीया । तदेवं
ब्रह्मज्ञानान्मोक्षः । स चानर्थनिवृत्तिर्निरतिशय -
ब्रह्मानन्दावाप्तिश्चेति सिद्धं प्रयोजनम् । इति वेदान्तपरिभाषायां
प्रयोजनपरिच्छेदः ।
इदानीं प्रयोजनं निरूप्यते । यदवगतं सत्
स्ववृत्तितया इष्यते तत्प्रयोजनम् । तच्च द्विविधम् -मुख्यं गौणं चेति ।
तत्र सुखदुःखाभावौ मुख्ये प्रयोजने , तदन्यतरसाधनं गौणं प्रयोजनम् । सुखं च
द्विविधम् -सातिशयं निततिशयं च । तत्र सातिशयं सुखं

इति धर्मराज अध्वरीन्द्र विरचिता वेदान्त परिभाषा समाप्ता ॥