एवं निरूपितानां प्रमाणानां प्रामाण्यं द्विविधम् -
व्यावहारिकतत्त्वावेदकत्वं पारमार्थिकतत्त्वावेदकत्वं चेति । तत्र
ब्रह्मस्वरूपावगाहिप्रमाणव्यतिरिक्तानां सर्वप्रमाणानामाद्यं प्रामाण्यम्
तद्विषयाणां व्यवहारदशायां बाधाभावात् । द्वितीयन्तु जीवब्रह्मैक्यपराणां
"सदेव सोम्येदमग्र आसीत् " इत्यादिनां "तत्त्वमसि "इत्यन्तानाम् तद्विषयस्य
जीवपरैक्यस्य कालत्रयाम्बाध्यत्वात् । तच्चैक्यं 'तत्त्वं
'-पदार्थज्ञानाधीन- ज्ञानमिति प्रथमं 'तत् '-पदार्थो लक्षणप्रमाणाभ्यां
निरूप्यते । तत्र लक्षणं द्विविधम् -स्वरूपलक्षणं तटस्थलक्षणं चेति । तत्र
स्वरूपमेव लक्षणं स्वरूपलक्षणम् । यथा सत्यादिकं ब्रह्मस्वरूपलक्षणम्
"सत्यं ज्ञानमनन्तं ब्रह्म ,""आनन्दो ब्रह्मेति व्यजानात् "इत्यादिश्रुतेः ।
ननु स्वस्य स्ववृत्तित्वाभावे कथं लक्षणत्वमिति चेत् न स्वस्यैव
स्वापेक्षया धर्मिधर्म - भावल्पनया लक्ष्यलक्षणत्वसम्भवात् । तदुक्तम्
-"आनन्दो विषयानुभवओ नित्यत्वं चेति सन्ति धर्माः अपृथक्त्वेऽपि चैतन्यात्
पृथगिवावभासन्ते "इति । तटस्थलक्षणं नाम यावल्लक्ष्यकालमनवस्थितत्वे सति
यद्व्यावर्तकं तदेव । यथा गन्धवत्वं पृथिवीलक्षणम् महाप्रलये परमाणुषु
उत्पत्तिकाले घटादिषु च गन्धाभावात् । प्रकृते च जगज्जन्मादिकारणत्वम् ।
अत्र 'जगत् '-पदेन कार्यजातं विवक्षितम् । कारणत्वं च कर्तृत्वम्
अतोऽविद्यादौ नातिव्याप्तिः । कर्तृत्वं च तत्तदुपादान -
गोचरापरोक्षज्ञानचिकिर्षाकृतिमत्वम् । ईश्वरस्य तावदुपादानगोचरा -
परोक्षज्ञानसद्भावे -"यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः ।
तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते । "इत्यादिश्रुतिर्मानम् ।
तादृशचिकीर्षासद्भावे च "सोऽकामयत बहु स्यां प्रजायेय
"इत्यादिश्रुतिर्मानम् । तादृशकृतौ च "तन्मनोऽकुरुत "इत्यादिवाक्यम् ।
ज्ञानेच्छाद्यन्यतमगर्भं लक्षणत्रितयं विवक्षितम् अन्यथा
व्यर्थविशेषणापत्तेः । अत एव जन्मस्थितिध्वंसानामन्यतमस्यैव लक्षणे प्रवेशः
। एवं च लक्षणानि नव सम्पद्यन्ते । ब्रह्मणो जगज्जन्मादिकरणत्वे च 'यतो वा
इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रय्न्त्यभिसंविशन्ति
"इत्यादिश्रुतिर्मानम् । यद्वा निखिलजगदुपादानत्वं ब्रह्मणो लक्षणम् ।
उपादानत्वं च जगदध्यासाधिष्ठानत्वम् जगदाकारेण परिणममानमायाधिष्ठानत्वं वा ।
एतादृशमेवोपादानत्वमभिप्रेत्य "इदं सर्वं यदयमात्मा " "सच्च त्यच्चाभवत्
""बहु स्यां प्रजायेय "इत्यादिश्रुतिषु ब्रह्मप्रपञ्चयोस्तादात्म्यव्यपदेशः
। "घटः सन् ""घटो भाति " "घत इष्टः "इत्यादिलौकिकव्यपदेशोऽपि
सच्चिदानन्दरूप- ब्रह्मैक्याध्यासात् ।
नन्वानन्दात्मकचिदध्यासाद्घटादेरिष्टत्वव्यवहारे दुःखस्यापि तत्राध्यासात्
तस्यापीष्टत्वव्यवहारापत्तिरिति चेत् न "आरोपे सति निमित्तानुसरणम् न तु
निमित्तमस्तीत्यारोपः "इत्यभ्युपगमेन दुःखादौ सच्चिदंशाध्यासेऽपि
आनन्दांशाध्यासाभावात् । जगति नामरूपांशद्वयव्यवहारस्तु
अविद्यापरिणामात्मकनामरूपसम्बन्धात् । तदुक्तम् - "अस्ति भाति प्रियं रूपं
नाम चेत्यंशपञ्चकम् । आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ॥"इति ॥
अथ जगतो जन्मक्रमो निरूपते । तत्र सर्गाद्यकाले परमेश्वरः
सृज्यमानप्रपञ्चवैचित्र्यहेतुप्राणिकर्मसहकृतोऽपरिमितानिरूपित -
शक्तिविशेषविशिष्टमायासहितः सन् नामरूपात्मकनिखिलप्रपञ्चं प्रथं
बुद्धावाकलय्य "इदं करिष्यामि "इति सङ्कल्पयति "तदैक्षत बहु स्यां प्रजायेय
""सोऽकामयत बहु स्यां प्रजायेय "इत्यादि श्रुतेः । तत आकाशादीनि
पञ्चभूतान्यपञ्चीकृतानि तन्मात्रपदप्रतिपाद्यान्युत्पद्यन्ते । तत्राकाशस्य
शब्दो गुणः वायोस्तु शब्दस्पर्शौ तेजसस्तु शब्दस्पर्शरूपाणि अपां तु
शब्दस्पर्शरूपरसाः पृथिव्यास्तु शब्दस्पर्शरूपरसगन्धाः । न तु
शब्दस्याकाशमात्रगुणत्वं वाय्वादावपि तदुपलम्भात् । न चासौ भ्रमः
बाधकाभावात् । इमानि भूतानि त्रिगुणमायाकार्याणि त्रिगुणानि । गुणाः
सत्त्वरजस्तमांसि । एतैश्च सत्त्वगुणोपेतैः पञ्चभूतैर्व्यस्तैर्यथाक्रमं
श्रोत्रत्वक्चक्षू - रसनघ्राणानि प्ञ्चज्ञानेन्द्रियाणि जायन्ते । एतैरेव
सत्त्वगुणोपेतैः पञ्च - भूतैर्मिलितैर्मनोबुद्ध्याहङ्कारचित्तनि जायन्ते ।
श्रोत्रादीनां पञ्चानां क्रमेण दिग्वातार्कवरुणाश्विनोधिष्टातृदेवताः । मन
आदीनां चतुर्णा क्रमेण चन्द्रचतुर्मुखशङ्कराच्युता अधिष्ठातृदेवताः ।
एतैरेव रजोगुणोपेतैः पञ्चभूतैर्यथाक्रमं वाक्पाणिपादपायूपस्थाख्यानि
कर्मेन्द्रियाणि जायन्ते । तेषां च क्रमेण
वह्नीन्द्रोपेन्द्रमृत्युप्रजापतयोऽधिष्ठातृ - देवताः । रजोगुणोपेतैः
पञ्चभूतैरेव मिलितैः पञ्च वायवः प्राणापनव्यानोदान - समानाख्या जायन्ते ।
तत्र प्राग्गमनवान् वायुः प्राणो नासादिस्थानवर्ती । अर्वाग्गमनवानपानः
पाय्वादिस्थानवर्ती । विष्वगमनवान् व्यानः अखिलशरीरवर्ती ।
ऊर्ध्वगमनवानुत्क्रमणवायुरुदानः कण्ठस्थानवर्ती । अशितपीतान्नादिसमीकरणकरः
समानः नाभिस्थानवर्ती । तैरेव तमोगुणोपेतैरपञ्चीकृतभूतैः पञ्चीकृतभूतानि
जायन्ते । "तासां त्रिवृतं त्रिवृतमेकैकां करवाणि "इति श्रुतेः
पञ्चीकरणोपलक्षणर्थत्वात् । पञ्चीकरणप्रकारश्चेत्थम् -आकाशमादौ द्विधा
विभज्य तयोरेकं भागं पुनश्चतुर्धा विभज्य तेषां चतुर्णामंशानां वाय्वादिषु
चतुर्षु भूतेषु संयोजनम् । एवं वायुं द्विधा विभज्य तयोरेकं भागं
पुनश्चतुर्धा विभज्य तेषां चतुर्णामांशानामाकाशादिषु संयोजनम् । एवं तेज
आदीनामपि । तदेवमेकैकभूतस्यार्धं स्वांशात्मकम् अर्धान्तरं
चतुर्विधभूतमयमिति पृथिव्यादिषु स्वांशाधिक्यात् पृथिव्यादिव्यवहारः ।
तदुक्तम् -"वैशेष्यात्तु तद्वादस्तद्वादः "इति ।
पूर्वोक्तैरपञ्चीकृतभूतैत्लिङ्गशरीरं परलोकयात्रानिर्वाहकं
मोक्षपर्यन्तस्थायि मनोबुद्धिभ्यामुपेतं ज्ञानेन्द्रियपञ्चक -
कर्मेन्द्रियपञ्चक -प्राणदिपञ्चकसंयुक्तं जायते । तदुक्तम् -
"पञ्चप्राणमनोबुद्धिदशेन्द्रिय्समन्वितम् । अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं
भोगसाधनम् ॥"इति । तच्च द्विविधम् -परमपरं च । परं हिरण्यगर्भलिङ्गशरीरम्
अपरमस्मदादिलिङ्गशरीरम् । तत्र हिरण्यगर्भलिङ्गशरीरम् महत्तत्त्वम्
अस्मदादिलिङ्गशरीरं चाहङ्कार इत्याख्यायते । एवं तमोगुणयुक्तेभ्यः
पञ्चीकृतभूतेभ्यो भूम्यन्तरिक्षस्वर्मह -
र्जनतपःसत्यात्मकस्योर्ध्वलोकसप्तकस्य अतलवितलसुतल-
तलातलरसातलमहातलपातालाख्यस्य अधोलोकसप्तकस्य ब्रह्माण्डस्य
जरायुजाण्डजस्वेदजोद्भिज्जाख्यचतुर्विधस्थूलशरीराणां चोत्पत्तिः । तत्र
जरायुजानि जरायुभ्यो जातानि मनुष्यपश्वादिशरीराणि ।
अण्डजान्यण्डेभ्योजातानि पक्षिपन्नगादिशरीराणि । स्वेदजानि स्वेदाज्जातानि
यूकमशकादिशरीराणि । उद्भिज्जानि भूमिनुद्भिद्य जातानि वृक्षादीनि ।
वृक्षादीनामपि पापफलभोगायतनत्वेन शरीरत्वम् । तत्र परमेश्वरस्य
पञ्चतन्मात्राद्युत्पत्तौ सप्तदशावयवोपेत - लिङ्गशरीरोत्पत्तौ
हिरण्यगर्भस्थूलशरीरोत्पत्तौ च साक्षात् कर्तृत्वम्
इतरनिखिलप्रपञ्चोत्पत्तौ च हिरण्यगर्भादिद्वारा "हन्ताहमिमास्तिस्रौ देवता
अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि "इति श्रुतेः । हिरण्यगर्भो
नाम मूर्तित्रयादन्यः प्रथमो जीवः । "स वै शरीरी प्रथमः स वै पुरुष उच्यते
। आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥" "हिरण्यगर्भः समवर्तताग्रे
"इत्यादिश्रुतेः । एवं भूतभौतिकसृष्टिर्निरूपिता । इदानीं प्रलयो निरूप्यते
। प्रलयो नाम त्रैलोक्यविनाशः । स च चतुर्विधः -नित्यः प्राकृतो नैमित्तिक
आत्यन्तिकश्चेति । तत्र नित्यः प्रलयः सुषुप्तिः तस्याः
सकलकार्यप्रलयरूपत्वात् । धर्माधर्म - पूर्वसंस्काराणां च तदा
कारणात्मनाऽवस्थानम् । तेन सुप्तोत्थितस्य न सुखदुःखाद्यनुपपत्तिः न वा
स्मरणानुपपत्तिः । न च सुषुप्तौ अन्तःकरणस्य विनाशे
तदधीनप्राणादिक्रियानुपपत्तिः वस्तुतः श्वासाद्यभावेऽपि तदुपलब्धेः
पुरुषान्तरविभ्रममात्रत्वात् सुप्तशरीरोपलम्भवत् । न च एवं सुप्तस्य
परेतादविशेषः सुप्तस्य हि लिङ्गशरीरं संस्कारात्मनाऽत्रैव वर्तते परेतस्य
तु लोकान्तरे इति वैलक्षण्यात् । यद्वा अन्तःकरणस्य द्वे शक्ति
-ज्ञानशक्तिः क्रियाशक्तिश्चेति । तत्र ज्ञानशक्तिविशिष्टान्तःकरणस्य
सुषुप्तऊ विनाशः न तु क्रियाशक्तिविशिष्टस्य इति प्राणद्यवस्थानमविरुद्धम् ।
"यदा सुप्तः स्वप्नं न कञ्चन पश्यति अथास्मिन् प्राण एवैकधा भवति अथैनं
वाक् सर्वैर्नामभिः सहाप्येति ""सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति
"इत्यादिश्रुतिरुक्तसुषुप्तौ मानम् । प्राकृतप्रलयस्तु
कार्यब्रह्मविनाशनिमित्तकः सकलकार्यविनाशः । यदा तु
प्रागेवोत्पन्नब्रह्मसाक्षात्कारस्य कार्य ब्रह्मणो ब्रह्माण्डाधिकार -
लक्षणप्रारब्धकर्मसमाप्तौ विदेहकैवल्यात्मिका परा मुक्तिः तदा
तल्लोकवासिनामप्युत्पन्नब्रह्मसाक्षात्काराणां ब्रह्मणा सह विदेहकैवल्यम् ।
"ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः
प्रविशन्ति परं पदम् ॥"इति स्मृतेः । एवं स्वलोकवासिभिः सह कार्यब्रह्मणि
मुच्यमाने तदधिष्ठितब्रह्माण्ड तदन्तर्वर्तिनिखिललोक \
तदन्तर्वर्तिस्थावरादीनां भौतिकानां भूतानां च प्रकृतौ मायायां लयः न तु
ब्रह्मणि बाधरूपविनाशस्यैव ब्रह्मनिष्ठत्वात् अतः प्राकृत इत्युच्यते ।
कार्यब्रह्मणो दिवसावसाननिमित्तकः त्रैलोक्यमात्रप्रलयः नैमित्तिकप्रलयः ।
ब्रह्मदिवसश्चतुर्युगसहस्रपरिमितकालः "चतुर्युगसहस्राणि ब्रह्मणो
दिनमुच्यते "इत्यादिवचनात् । प्रलयकालोऽपि दिवसकालपरिमितः रात्रिकालस्य
दिवसकालतुल्यत्वात् । प्राकृतप्रलये नैमित्तिकप्रलये च पुराणवचनानि
प्रमाणानि । "द्विपरार्धे त्वतिक्रान्ते ब्रह्मणह् परमेष्ठिनः । तदा
प्रकृतयः सप्त कल्यन्ते प्रलयाय हि ॥ एष प्राकृतिको राजन् प्रलयो यत्र
लीयते । " इति वचनं प्राकृतप्रलये मानम् । "एष नैमित्तिकः प्रोक्तः प्रलयो
यत्र विश्वसृक् । शेतेऽनन्तासने नित्यमात्मसात्कृत्य चाखिलम् । " इति वचनं
नैमित्तिकः प्रलये मानम् । तुरीयप्रलयस्तु ब्रह्मसाक्षात्कारनिमित्तकः
सर्वमोक्षः । स चैकजीववादे युगपदे नानाजीववादे तु क्रमेण । "सर्व एकीभवन्ति
"इत्यादिश्रुतेः । तत्राद्यास्त्रयोऽपि लयाः कर्मोपरमनिमित्ताः तुरीयस्तु
ज्ञानोद्यनिमित्तो लयोऽज्ञानेन सहैवेति विशेषः । एवं चतुर्विधप्रलयो
निरूपितः । तस्यदानीं क्रमो निरूप्यते । भूतानां भौतिकानां च न
कारणलयक्रमेण लयः कारणलयसमये कार्याणामाश्रयमन्तरेणावस्थानानुपपत्तेः
किन्तु सृष्टिक्रमविपरीतक्रमेण । तत्तत्कार्यनाशे तत्तज्जनकादृष्टनाशस्यैव
प्रयोजकतया उपादाननाशस्याप्रयोजकत्वात् । अन्यथा न्यायमतेऽपि महाप्रलये
पृथिवीपरमाणुगतरूपरसादेरविनाशापत्तेः । तथा च पृथिव्या अप्सु अपां तेजसि
तेजसो वायौ वायोराकाशे आकाशस्य जीवाहङ्कारे तस्य हिरण्यगर्भाहङ्कारे तस्य
चाविद्यायाम् -इत्येवंरूप एव प्रलयः । तदुक्तं विष्णुपुराणे -
"जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते । तेजस्यापः प्रलीयन्ते तेजो
वायौ प्रलीयते ॥ वायुश्च लीयते व्योम्नि तच्चाव्यक्ते प्रलीयते । अव्यक्तं
पुरुषे ब्रह्मनिष्कले सम्प्रलीयते "इति । एवंविधप्रलयकारणत्व.म् ' तत् '
-पदार्थस्य ब्रह्मणस्तटस्थलक्षणम् । ननु वेदान्तैर्ब्रह्मणि जगत्कारणत्वेन
प्रतिपाद्यमाने सति सप्रप्ञ्चं स्यात् अन्यथा
सृष्टिवाक्यानामप्रामाण्यापत्तिरिति चेत् न । न हि सृष्टिवाक्यानां सृष्टौ
तात्पर्यम् किन्तु अद्वये ब्रह्मण्येव । तत्प्रतिपत्तौ कथं सृष्टेरुपयोगः ।
इत्थम् -यदि सृष्टिमनुपन्यस्य प्रपञ्चस्य वायौ प्रतिषिद्धस्य रूपस्येव
ब्रह्मणोऽन्यत्रावस्थानशङ्कायां न निर्विचिकित्समद्वितीयत्वं प्रतिपादितं
स्यात् । ततः सृष्टिवाक्याद्ब्रह्मोपादेयत्वज्ञाने सति उपादानं विना
कार्यस्यान्यत्र सद्भावशङ्कायां निरस्तायां "नेति नेति " इत्यादिना
ब्रह्मण्यपि तस्यासत्त्वोपपादनेन प्रपञ्चस्य तुच्छत्वावगमे
निरस्तनिखिलद्वैतविभ्रममखण्डं सच्चिदानन्दैकरस्ं ब्रह्म सिद्धतीति परम्परया
सृष्टिवाक्यानामपि अद्वितीये ब्रह्मण्येव तात्पर्यम् ।
उपासनाप्रकरणपठितसगुणब्रह्मवाक्यानां च
उपासनाविध्यपेक्षितगुणारोपमात्रपरत्वम् न गुणपरत्वम् ।
निर्गुणप्रकरणपठितानां सगुणवाक्यानान्तु निषेधवाक्या -
पेक्षितनिषेध्यसमर्पकत्वेन विनियोग इति न किञ्चिदपि
वाक्यमद्वितीयब्रह्मप्रतिपादनेन विरुध्यते । तदेवं स्वरूपतटस्थलक्षणलक्षितं
' तत् ' पदवाच्यमीश्वरचैतन्यं मायाप्रतिबिम्बरूपमिति केचित् । तेषामयमाशयः
-जीवपरमेश्वर - साधारणं चैतन्यमात्रं बिम्बम् तस्यैव
बिम्बस्याविद्यात्मिकायां मायायां प्रतिबिम्बमीश्वरचैतन्यम् अन्तःकरणेषु
प्रतिबिम्बं जीवचैतन्यम् "कार्योपाधिरयं जीवः कारणोपदिरीश्वरः "इति श्रुतेः
। एतन्मते जलाशयगतशरावजलगतसूर्यप्रतिबिम्बयोरिव जीवपरमेश्वरयोर्भेदः ।
अविद्यात्मकोपाधेर्व्यापकतया तदुपाधिकेश्वरस्यापि व्यापकत्वम् ।
अन्तःकरणस्य परिच्छिन्नतया तदुपाधिकजीवस्यापि परिच्छिन्नत्वम् ।
एतन्मतेऽविद्याकृतदोषा जीव इव परमेश्वरेऽपि स्युः उपाधेः
प्रतिबिम्बपक्षपातित्वात् इत्यस्वरसात् बिम्बात्मकमीश्वरचैतन्यमित्यपरे ।
तेषामयमाशयः -एकमेव चैतन्यं बिम्बत्वाक्रान्तमीश्वरचैतन्यम्
प्रतिबिम्बत्वाक्रान्तं जीवचैतन्यम् । बिम्बप्रतिबिम्बकल्पनोपाधिश्चैक -
जीववादे अविद्या अनेकजीववादे तु अन्तःकरणान्येव । अविद्यान्तः -
करणरूपोपाधिप्रयुक्तो जीवपरभेदः । उपाधिकृतदोषाश्च प्रतिबिम्बे जीव एव
वर्तन्ते न तु बिम्बे परमेश्वरे उपाधेः प्रतिबिम्बपक्षपातित्वात् । एतन्मते
च गगनसूर्यस्य जलादौ भासमानप्रतिबिम्बसूर्यस्येव जीवपरयोर्भेदः । ननु
ग्रीवस्थमुखस्य दर्पणप्रदेश इव बिम्बचैतन्यस्य परमेश्वरस्य
जीवप्रदेशेऽभावात् तस्य सर्वान्तर्यामित्वं न स्यादिति चेत् , न ।
साभ्रनक्षत्र- स्याकाशस्य जलादौ प्रतिबिम्बितत्वे बिम्बभूतमहाकाशस्यापि
जलादिप्रदेश- सम्बन्धदर्शनेन परिच्छिन्नाबिम्बस्य
प्रतिबिम्बदेशासम्बन्धित्वेऽप्य- परिच्छिन्नब्रह्मबिम्बस्य
प्रतिबिम्बदेशसम्बन्धाविरोधात् । न च रूपहीनस्य ब्रह्मणो न
प्रतिबिम्बसम्भवः, रूपवत एव तथात्वदर्शनात्, इति वाच्यम् ; नीरूपस्यापि
रूपस्य प्रतिबिम्ब- दर्शनात् । न च नीरूपस्य द्रव्यस्य
प्रतिबिम्बाभावनियमः, आत्मनो द्रव्यत्वाभावस्य उक्तत्वात् । "एकधा बहुधा
चैव दृश्यते जलचन्द्रवत् ।" "यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना
बहुधैकोऽनुगच्छन् ।" इत्यादिवाक्येन ब्रह्मप्रतिबिम्बाभावानुमानस्य
बाधितत्वाच्च । तदेवं "तत्"-पदार्थो निरूपितः । इदानीं "त्वम्"-पदार्थो
निरूप्यते । एकजीववादेऽविद्याप्रतिबिम्बो जीवः , अनेकजीववादे तु
अन्तःकरणप्रतिबिम्बः । स च जाग्रत्स्वप्न- सुषुप्तिरूपावस्थात्रयवान् ।
तत्र जाग्रद्दशा नाम इन्द्रियजन्यज्ञानावस्था, अवस्थान्तरे इन्द्रियाभावात्
नातिव्याप्तिः । इन्द्रियजन्यज्ञानं च अन्तःकरणवृत्तिः ,
स्वरूपज्ञानस्यानादित्वात् । सा चान्तःकरणवृत्तिरावरणाभिभवार्था इत्येकं
मतम् । तथा हि-अविद्योपहितचैतन्यस्य जीवत्वपक्षे घटाद्यधिष्ठान- चैतन्यस्य
जीवरूपतया जीवस्य सर्वदा घटादिभानप्रसक्तौ घटाद्यवच्छिन्नचैतन्यावरकमज्ञानं
मूलाविद्यापरतन्त्रमवस्थ- पदवाच्यमभ्युपगन्तव्यम् । एवं सति न सर्वदा
घटादेर्भानप्रसङ्गः, अनावृतचैतन्यसम्बन्धस्यैव भानप्रयोजकत्वात् । तस्य
चावरणस्य सदातनत्वे कदाचिदपि घटभानं न स्यादिति तद्भङ्गे वक्तव्ये,
तद्भङ्गजनकं न चैतन्यमात्रम् , तद्भासकस्य तदनिवर्तकत्वात् , नापि
वृत्त्युपहितं चैतन्यम् , परोक्षस्थलेऽपि तन्निवृत्त्यापत्तेरिति
परोक्षव्यावृत्तवृत्तिविशेषस्य, तदुपहितचैतन्यस्य वा, आवरणभञ्जकत्वम् , इति
आवरणाभिभवार्था वृत्तिरुच्यते । सम्बन्धार्था वृत्तिरित्यपरं मतम् ।
तत्राविद्योपाधिकोऽपरिच्छिन्नो जीवः । स च घटादिप्रदेशे विद्यमानोऽपि
घटाद्याकारापरोक्षवृत्तिविरहदशायां न घटादिकमवभासयति, घटादीना समं
सम्बन्धाभावात् , तत्तदाकारवृत्तिदशायां तु भासयति, तदा सम्बन्धसत्त्वात् ।
ननु अविद्योपाधिकस्यापरिच्छिन्नस्य जीवस्य स्वत एव समस्तवस्तुसम्बधस्य
वृत्तिविरहदशायां सम्बन्धाभावाभि- धानमसङ्गतम् , असङ्गत्वदृष्ट्या
सम्बन्धाभावाभिधाने च वृत्त्यनन्तरमपि सम्बन्धो न स्यात् , इति चेत् ,
उच्यते । न हि वृत्तिविरहदशायां जीवस्य घटादिना सह सम्बन्धसामान्यं
निषेधामः । किन्तर्हि ? घटादिभानप्रयोजकं सम्बन्धविशेषम् । स च
सम्बन्धविशेषो विषयस्य जीवचैतन्यस्य च व्यङ्ग्य- व्यञ्जकतालक्षणः
कादाचित्कस्तत्तदाकारवृत्तिनिबन्धनः । तथा हि -तैजसमन्तःकरणं
स्वच्छद्रव्यत्वात् स्वत एव जीवचैतन्याभिव्यञ्जनसमर्थम् । घटादिकस्तु न
तथा, अस्वच्छ- द्रव्यत्वात् । स्वाकारवृत्तिसंयोगदशायान्तु
वृत्त्यभिभूतजाड्य- धर्मकतया
वृत्त्युत्पादितचैतन्याभिव्य्ञ्जनयोग्यतश्रयतया च वृत्त्युदयानन्तरं
चैतन्यमभिव्यनक्ति । तदुक्तं विवरणे -"अन्तःकरणं हि स्वस्मिन्निव
स्वसंसर्गिण्यपि घटादौ चैतन्याभिव्यक्तियोग्यतामापादयति " इति । दृष्टं
चास्वच्छद्रव्यस्यपि स्वच्छद्रव्यसम्बन्धदशायां प्रतिबिम्बग्राहित्वम् ।
तथा कुड्यादेर्जलादिसंयोगदशायां मुखादि- प्रतिबिम्बग्राहिता ।
घटादेरभिव्यञ्जात्वं च तत्प्रतिबिम्बग्राहित्वम् , चैतन्यस्याभिव्यक्तत्वं च
तत्र प्रतिबिम्बितत्वम् ।
एवंविधाभिव्यञ्जकत्वसिद्ध्यर्थमेववृत्तेरपरोक्षस्थले बहिर्निर्गमनाङ्गीकार ।
परोक्षस्थले तु वह्न्यादेर्वृत्तिसंसर्गाभावेन चैतन्यानभिव्यञ्जकतया
नापरोक्षत्वम् । एतन्मते च विषयाणामपरोक्षत्वं चैतन्याभिव्यञ्जकत्वमिति
द्रष्टव्यम् । एवं जीवस्यापरिच्छिन्नत्वेऽपि वृत्तेः सम्बन्धार्थत्वं
निरूपितम् । इदानीं परिच्छिन्नत्वपक्षे सम्बधार्थत्वं निरूप्यते । तथा हि -
अन्तःकरणोपाधिको जीवः । तस्य न घटाद्युपादानता, घटादिदेशसम्बन्धात् ।
किन्तु ब्रह्मैव घटाद्युपादानम् , तस्य मायोपहितस्य सकलघटाद्यन्वयित्वात् ।
अत एव ब्रह्मणः सर्वज़्' नता । तथा च जीवस्य घटाद्यधिष्ठानब्रह्मचैतन्या-
भेदमन्तरेण घटाद्यवभासासम्भवे प्राप्ते , तदवभासाय घटाद्यधिष्ठानब्रह्म-
चैतन्याभेदसिद्ध्यर्थं घटाद्याकारवृत्तिरिष्यते । ननु वृत्त्यापि कथं
प्रमातृचैतन्यविषयचैतन्ययोरभेदः सम्पाद्यते, घटानःकरणरूपोपाधिभेदेन
तदवच्छिन्नचैतन्ययो - रभेदासम्भवात् , इति चेत् , ने ।
वृत्तेर्बहिर्देशनिर्गमनाङ्गीकारेण वृत्त्यन्तःकरणविषयाणामेकदेशस्थत्वेन
तदुपधेयभेदाभावस्य उक्तत्वात् । एवमपरोक्षस्तहले वृत्तेर्मतभेदेन विनियोग
उपपादितः । इन्द्रियाजन्यविषयगोचरापरोक्षान्तःकरणवृत्त्यवस्था स्वप्नावस्था
। जाग्रदवस्थाव्यावृत्त्यर्थम् "इन्द्रियाजन्ये "ति । अविद्यावृत्तिमत्यां
सुषुप्तावतिव्याप्तिवारणाय "अन्तःकरणे "ति । सुषुप्तिर्नाम अविद्या -
गोचराविद्यावृत्त्यवस्था ।
जाग्रत्स्वप्नयोरविद्याकारवृत्तेरन्तःकरणवृत्तित्वान्न तत्रातिव्याप्तिः ।
अत्र केचिन्मरणभूर्छयोरवस्थान्तरत्वमाहुः, अपरे तु सुषुप्तावेव
तयोरन्तर्भावमाहुः । तत्र तयोरवस्थात्रयान्तर्भावबहिर्भावयोः "त्वं
"-पदार्थनिरूपणे उपयोगाभावात् न तत्र प्रयत्यते । तस्य मायोपाध्यपेक्षया
एकत्वम् , अन्तःकरणोपाध्यपेक्षया च नानात्वं व्यवह्रियते । एतेन
जीवस्याणुत्वं प्रत्युक्तम् , "बुद्धेर्गुणेन चैवं ह्याराग्रमात्रो
ह्यवरोऽपि दृष्टः । " इत्यादौ जीवस्य "बुद्धि
"-शब्दवाच्यान्तःकरणपरिणामोपाधिकस्य परमाणुत्वश्रवणात् । स च जीवः
स्वयम्प्रकाशः , स्वप्नावस्थामधिकृत्य "अत्रायं पुरुषः स्वयं ज्योतिः "इति
श्रुतेः । अनुभवरूपश्च , "प्रज्ञानघन एव " इत्यादिश्रुतेः । "अनुभवामि "इति
व्यवहारस्तु वृत्ति प्रतिबिम्बित- चैतन्यमादाय उपपद्यते । एवं "त्वं
"-पदार्थो निरूपितः । अधुना 'तत् -त्वम् "-पदार्थयोरैक्यं
महावाक्यप्रतिपाद्य - मभिधीयते । ननु "नाहमीश्वरः "इत्यादिप्रत्यक्षेण ,
किञ्चिज्ज्ञत्वसर्वज्ञत्वादिविरुद्धधर्माश्रयत्वादिलिङ्गेन , "द्वा सुपर्णा
"इत्यादिश्रुत्या - "द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः
सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥" इत्यादिस्मृत्या च
जीवपरभेदस्यावगतत्वेन "तत्त्वमस्या "- दिवाक्यम् "आदित्यो यूपः , ""यजमानः
प्रस्तरः " इत्यादिवाक्यवदुपचरितार्थमेव, इति चेत् , न । भेदप्रत्यक्षस्य
सम्भावितकरणदोषस्यासम्भावितदोषवेदजन्यज्ञानेन बाध्यमानत्वात् । अन्यथा
चन्द्रगताधिकपरिमाणग्राहिज्योतिः - शास्त्रस्य
चन्द्रप्रादेशग्राहिप्रत्यक्षेण बाधापत्तेः । पाकरक्ते घटे "रक्तोऽयम् , न
श्यामः "इतिवत् "सविशेषणे हि " इति न्यायेन जीवपरभेदग्राहिप्रत्यक्षस्य
विशेषणीभूतधर्म - भेदविषयत्वाच्च । अत एव नानुमानमपि प्रमाणम् ,
आगमविरोधात् , मेरुपाषाणमयत्वानुमानवत् । नाप्यागमान्तरविरोधः ।
तत्परातत्परवाक्ययोस्तत्परवाक्यस्य बलवत्वेन लोकसिद्धभेदानुवादि -"द्वा
सुपर्णौ "त्यादि - वाक्यापेक्षया
उपक्रमोपसंहाराद्यवगताद्वैततात्पर्यविशिष्टस्य "तत्त्वमस्या "दिवाक्यस्य
प्रबलत्वात् । न च जीवपरैक्ये विरुद्धधर्माश्रयत्वानुपपत्तिः , शीतस्यैव
जलस्यौपाधिकौष्ण्याश्रयत्ववत् स्वभावतो निर्गुणस्यैव
जीवस्यान्तःकरणाद्युपाधिक - कर्तृत्वाद्याश्रयत्वप्रतिभासोपपत्तेः । यदि च
जलादावौष्ण्यमारोपितम् , तदा प्रकृतेऽपि तुल्यम् । न च सिद्धान्ते
कर्तृत्वस्य क्वचिदप्यभावा - दारोप्यप्रमाहितसंस्काराभावे कथमारोपः , इति
वाच्यम् , लाघवेनारोप्यविषयकसंकारत्वेनैव तस्य हेतुत्वात् । न च
प्राथमिकारोपे का गतिः , कर्तृत्वाद्यध्यासप्रवाहस्यानादित्वात् । तत्र
'तत्त्वम् '-पदवाच्ययोर्विशिष्टयोरैक्यायोगेऽपि
लक्ष्यस्वरूपयोरैक्यमुपपादितमेव । अत एव तत्प्रतिपादक - "तत्त्वमस्या
"दिवाक्यानामखण्डार्थत्वम् , "सोऽयम् " इत्यादिवाक्यवत् । न च
कार्यपराणामेव प्रामाण्यम् , "चैत्र , पुत्रस्ते जातः "इत्यादौ सिद्धेऽपि
सङ्गतिग्रहात् । एवं सर्वप्रमाणाविरुद्धं
श्रुतिस्मृतीतिहासपुराणप्रतिपाद्यं जीवपरैक्यं वेदान्तशास्त्रस्य विषय इति
सिद्धम् । इति वेदान्तपरिभाषायां विषयपरिच्छेदः ।