त्रिपाद्विभूतिमहानारायणोपनिषत् - सप्तमोऽध्यायः

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic


अथोपासकस्तदाज्ञया नित्यं गरुडमारुह्य वैकुण्ठवासिभिः सर्वैः परिवेष्टितो महासुदर्शनं पुरस्कृत्य विश्वक्सेनपरिपालितश्चोपर्युपरि गत्वा ब्रह्मानन्दविभूतिं प्राप्य सर्वत्रावस्थिताब्रह्मानन्द- मयाननन्तवैकुण्ठानवलोक्य निरतिशयानन्दसागरो भूत्वात्मारामानन्दविभूतिपुरुषाननन्तानवलोक्य तान्सर्वानुपचारैः समभ्यर्च्य तैः सर्वैरभिपूजित- श्चोपासकस्तत उपर्युपरि गत्वा ब्रह्मानन्दविभूतिं प्राप्यानन्तदिव्यतेजःपर्वतैरलङ्कृतान्परमानन्द- लहरीवनशोभितानसंख्याकानानन्दसमुद्रानतिक्रम्य विविधविचित्रानन्तपरमतत्त्वविभूतिसमष्टिविशेषा- न्परमकौतुकान्ब्रह्मानन्दविभूतिविशेषनतिक्रम्योपासकः परमकौतुकं प्राप॥ ततः सुदर्शनवैकुण्ठपुरमाभाति नित्यमङ्गलमनन्तविभवं सहस्रानन्दप्रकारपरिवेष्टितमयुतकुक्ष्युपलक्षित- मनन्तोत्कटज्वलदरमण्डलं निरतिशयदिव्यतेजोमण्डलं वृन्दारकपरमानन्दं शुद्धबुद्धस्वरूपमनन्तानन्द- सौदामिनीपरमविलासं निरतिशयपरमानन्दपारावार- मनन्तैरानन्दपुरुषैश्चिद्रूपैरधिष्ठितम् । तन्मध्ये च सुदर्शनं महाचक्रम् । चरणं पवित्रं विततं पुराणं येन पूतस्तरति दुष्कृतानि । तेन पवित्रेण शुद्धेन पूता अतिपाप्मानमरातिं तरेम । लोकस्य द्वारमर्चिमत्पवित्रम् । ज्योतिष्मद्भ्राजमानं महस्वत् । अमृतस्य धारा बहुधा दोहमानम् । चरणं नो लोके सुधितां दधातु । अयुतारं ज्वलन्तमयुतारसमष्ट्याकरं निरतिशयविक्रमविलासमनन्त- दिव्यायुधदिव्यशक्तिसमष्टिरूपं महाविष्णोरनर्गलप्रताप- विग्रहमयुतायुतकोटियोजनविशालमनन्तज्वालजालैरलङ्कृतं समस्तदिव्यमङ्गलनिदानमनन्तदिव्यतीर्थानां निजमन्दिरमेवं सुदर्शनं महाचक्रं प्रज्वलति । तस्य नाभिमण्डलसंस्थाने उपलक्ष्यते निरतिशयानन्द- दिव्यतेजोराशिः । तन्मध्ये च सहस्रारचक्रं प्रज्वलति । तदखण्डदिव्यतेजोमण्डलाकारं परमानन्दसौदामिनी- निचयोज्ज्वलम् । तदभ्यन्तरसंस्थाने षट्शतारचक्रं प्रज्वलति । तस्यामितपरमतेजः परमविहारसंस्थानविशेषं विज्ञानघनस्वरूपम् । तदन्तराले त्रिशतारचक्रं विभाति । तच्च परमकल्याणविलासविशेषमनन्तचिदादित्यसमष्ट्याकरम् । तदभ्यन्तरे शतारचक्रमाभाति । तच्च परमतेजोमण्डल- विशेषम् । तन्मध्ये षष्ट्यरचक्रमाभाति । तच्च ब्रह्मतेजःपरमविलासविशेषम् । तदभ्यन्तरसंस्थाने षट्कोणचक्रं प्रज्वलति । तच्चापरिच्छिन्नानन्तदिव्यतेजो- राश्याकरम् । तदभ्यन्तरे महानन्दपदं विभाति । तत्कर्णिकायां सूर्येन्दुवह्निमण्डलानि चिन्मयानि ज्वलन्ति । तत्रोपलक्ष्यते निरतिशयदिव्यतेजोराशिः । तदभ्यन्तरसंस्थाने युअगपदुदिता- नन्तकोटिरविप्रकाशः सुदर्शनपुरुषो विराजते । सुदर्शनपुरुषो महाविष्णुरेव । महविष्णोः समस्तासाधारणचिह्नचिह्नितः । एवमुपासकः सुदर्शनपुरुष ध्यात्वा विविधोपचारैराराध्य प्रदक्षिणनमस्कारान्विधायोपासकस्तेनाभिपूजितस्तदनुज्ञात- श्चोपर्युपरि गत्वा परमानन्दमयानन्तवैकुण्ठानवलोक्योपासकः परमानन्दं प्राप । तत उपरि विविधविचित्रानन्तचिद्विलासविभूति- विशेषानतिक्रम्यानन्तपरमानन्दविभूतिसमष्टिविशेषानन्त- निरतिशयानन्तसमुद्रानतीत्योपासकः क्रमेणाद्वैतसंस्थानं प्राप ॥ कथमद्वैतसंस्थानम् । अखण्डानन्दस्वरूप- मनिर्वाच्यमतिबोधसागरममितानन्दसमुद्रं विजातीयविशेषविवर्जितं सजातीयविशेषविशेषितं निरवयवं निराधारं निर्विकारं निरञ्जनमनन्त- ब्रह्मानन्दसमष्टिकन्दं परमचिद्विलास- समष्ट्याकारं निर्मलं निरवद्यं निराश्रय- मतिनिर्मलानन्तकोटिरविप्रकाशैकस्फुलिङ्गमन- न्तोपनिषदर्थस्वरूपमखिलप्रमाणातीतं मनोवाचामगोचरं नित्यमुक्तस्वरूपमनाधार- मादिमध्यान्तशून्यं कैवल्यं परमं शान्तं सूक्ष्मतरं महतो महत्तरमपरिमितानन्दविशेषं शुद्धबोधानन्दविभूतिविशेषमनन्तानन्दविभूति- विशेषसमष्टिरूपमक्षरमनिर्देश्यं कूटस्थ- मचलं ध्रुवमदिग्देशकालमन्तर्बहिश्च तत्सर्वं व्याप्य परिपूर्णं परमयोगिभिर्विमृग्यं देशतः कालतो वस्तुतः परिच्छेदरहितं निरन्तराभिनवं नित्यपरिपूर्णमखण्डानन्दामृतविशेषं शाश्वतं परमं पदं निरतिशयानन्दानन्ततटित्पर्वताकार- मद्वितीयं स्वयंप्रकाशमनिशं ज्वलति । परमानन्द- लक्षणापरिच्छिन्नानन्तपरंज्योतिः शाश्वतं शश्वद्विभाति । तदभ्यन्तरसंस्थानेऽमितानन्दचिद्रूपाचल- मखण्डपरमानन्दविशेषं बोधानन्दमहोज्ज्वलं नित्यमङ्गलमन्दिरं चिन्मथनाविर्भूतं चित्सारमनन्ताश्चर्यसागरममिततेजोराश्यन्तर्गत- तेजोविशेषमनन्तानन्दप्रवाहैरलङ्कृतं निरतिशयानन्दपारावाराकारं निरुपमनित्यनिरवद्य- निरतिशयनिरवधिकतेजोराशिविशेषं निरतिशयानन्द- सहस्रप्राकारैरलङ्कृतं शुद्धबोधसौधावलि- विशेषैरलङ्कृतं चिदानन्दमयानन्तदिव्यारामैः सुशोभितं शश्वदमितपुष्पवृष्टिभिः समन्ततः सन्ततम् । तदेव त्रिपाद्विभूति वैकुण्ठस्थानं तदेव परमकैवल्यम् । तदेवाबाधितपरमतत्त्वम् । तदेवानन्तो- पनिषद्विमृग्यम् । तदेव परमयोगिभिर्मुमुक्षिभिः सर्वैराशास्यमानम् । तदेव सद्घनम् । तदेव चिद्घनम् । तदेवानन्दघनम् । तदेव शुद्धबोधघनविशेष- मखण्डानन्दब्रह्मचैतन्याधिदेवतास्वरूपम् । सर्वाधिष्ठानमद्वयपरब्रह्मविहारमण्डलं निरतिशयानन्दतेजोमण्डलमद्वैतपरमानन्दलक्षण- परब्रह्मणः परमाधिष्ठानमण्डलं निरतिशय- परमानन्दपरममूर्तिविशेषमण्डलमनन्तपरम- मूर्तिसमष्टिमण्डलं निरतिशयपरमानन्दलक्षण- परब्रह्मणः परममूर्तिपरमतत्त्वविलासविशेषमण्डलं बोधानन्दमयानन्तपरमविलासविभूतिविशेषसमष्टि- मण्डलमनन्तचिद्विलासविभूतिविशेषसमष्टिमण्डल- मखण्डशुद्धचैतन्यनिजमूर्तिविशेषविग्रहं वाचामगोचरानन्तशुद्धबोधविशेषविग्रहमनन्तानन्द- समुद्रसमष्ट्याकारमनन्तबोधाचलैरधिष्ठितं निरतिशयानन्दपरममङ्गलविशेषसमष्ट्याकार- मखण्डाद्वैतपरमानन्दलक्षणपरब्रह्मणः परममूर्ति- परमतेजःपुञ्जपिण्डविशेषं चिद्रूपादित्यमण्डलं द्वात्रिंशद्व्यूहभेदैरधिष्ठितम् । व्यूहभेदाश्च केशवादिचतुर्विंशतिः । सुदर्शनादिन्यासमन्त्राः । सुदर्शनादि यन्त्रोद्धारः । अनन्तगरुडविश्वक्सेनाश्च निरतिशयानन्दाश्च । आनन्दव्यूहमध्ये सहस्रकोटियोजनायतोन्नत- चिन्मयप्रासादं ब्रह्मानन्दमयविमानकोटिभि- रतिमङ्गलमनन्तोपनिषदर्थारामजालसंकुलं सामहंसकूजितैरतिशोभितमानन्दमयानन्तशिखरै- रलङ्कृतं चिदानन्दरसनिर्झरैरभिव्याप्तमखण्डा- नन्दतेजोराश्यन्तरस्थितमनन्तानन्दाश्चर्यसागरं तदभ्यन्तरसंस्थानेऽनन्तकोटिरविप्रकाशातिशय- प्राकारं निरतिशयानन्दलक्षणं प्रणवाख्यं विमानं विराजते । शतकोटिशिखरैरानन्दमयैः समुज्ज्वलति । तदन्तराले बोधानन्दाचलोपर्यष्टाक्षरी- मण्टपो विभाति । तन्मध्ये च चिदानन्दमयवेदिकानन्द- वनविभूषिता । तदुपरि ज्वलति निरतिशयानन्दतेजोराशिः । तदभ्यन्तरसंस्थानेऽष्टाक्षरीपद्मविभूषितं चिन्मयासनं विराजते । प्रणवकर्णिकायां सूर्येन्दु- वह्निमण्डलानि चिन्मयानि ज्वलन्ति । तत्राखण्डानन्द- तेजोराश्यन्तर्गतं परममङ्गलाकारमनन्तासनं विराजते । तस्योपरि च महायन्त्रं प्रज्वलति । निरतिशय- ब्रह्मानन्दपरममूर्तिमहायन्त्रं समस्तब्रह्म- तेजोराशिसमष्टिरूपं चित्स्वरूपं निरञ्जनं परब्रह्म- स्वरूपं परब्रह्मणः परमरहस्यकैवल्यं महायन्त्रमय- परमवैकुण्ठनारायणयन्त्रं विजयते । तत्स्वरूपं कथमिति । देशिकस्तथेति होवाच । आदौ षट्कोणचक्रम् । तन्मध्ये षट्दलपद्मम् । तत्कर्णिकायां प्रणव ॐइति । प्रणवमध्ये नारायणबीजमिति । तत्साध्यगर्भितं मम सर्वाभीष्टसिद्धिं कुरुकुरु स्वाहेति । तत्पद्मदलेषु विष्णुनृसिंहषडक्षर- मन्त्रौ ॐ नमो विष्णवे ऐं क्लीं श्रीं ह्रीं क्ष्मौं फट् । तद्दलकपोलेषु रामकृष्णषडक्षरमन्त्रौ । रां रामाय नमः । क्लीं कृष्णाय नमः । षट्कोणेषु सुदर्शनषडक्षरमन्त्रः । सहस्रार हुं फडिति । षट्कोण- कपोलेषु प्रणवयुक्तशिवपञ्चाक्षरमन्त्रः । ॐ नमः शिवायेति । तद्बहिः प्रणवमालायुक्तं वृत्तम् । वृत्ताद्बहि- रष्टदलपद्मम् । तेषु दलेषु नारायणनृसिंह- अष्टाक्षरमन्त्रौ । ॐ नमो नारायणाय । जयजय नरसिंह । तद्दलसन्धिषु रामकृष्णश्रीकराष्टाक्षरमन्त्राः । ॐ रामाय हुं फट् स्वाहा । क्लीं दामोदराय नमः । उत्तिष्ठ श्रीकरस्वाहा । तद्बहिः प्रणवमालायुक्तं वृत्तम् । वृत्तद्बहिर्नवदलपद्मम् । तेषु दलेषु रामकृष्ण- हयग्रीवनवाक्षरमन्त्राः । ॐ रामचन्द्राय नमॐ । क्लीं कृष्णाय गोविन्दाय क्लीम् । ह्लौं हयग्रीवाय नमो ह्लौं । तद्दलकपोलेषु दक्षिणामूर्तिरीश्वरम् । तद्बहि- र्नारायणबीजयुक्तं वृत्तम् । वृत्तद्बहिर्दशदलपद्मम् । तेषु दलेषु रामकृष्णदशाक्षरमन्त्रौ । हुं जानकी- वल्लभाय स्वाहा । गोपीजनवल्लभाय स्वाहा । तद्दलसन्धिषु नृसिंहमालामन्त्रः । ॐ नमो भगवते श्रीमहानृसिंहाय करालदंष्ट्रवदनाय मम विघ्नात्पचपच स्वाहा । तद्बहिर्नृसिंहैकाक्षरयुक्तं वृत्तम् । क्ष्मौं इत्येकाक्षरम् । वृत्ताद्बहिर्द्वादशदलपद्मम् । तेषु दलेषु नारायण- वासुदेवद्वादशाक्षरमन्त्रौ । ॐ नमो भगवते नारायणाय । ॐ नमो भगवते वासुदेवाय । तद्दलकपोलेषु महाविष्णु- रामकृष्णद्वादशाक्षरमन्त्राश्च । ॐ नमो भगवते महाविष्णवे । ॐ ह्रीं भरताग्रज राम क्लीं स्वाहा । श्रीं ह्रीं क्लीं कृष्णाय गोविन्दाय नमः । तद्बहिर्जगन्मोहन- बीजयुक्तं वृत्तं क्लीं इति । वृत्तद्बहिश्चतुर्दशदलपद्मम् । तेषु दलेषु लक्ष्मीनारायणहयग्रीवगोपालदधिवामन- मन्त्राश्च । ॐ ह्रीं ह्रीं श्रीं श्रीं लक्ष्मीवासुदेवाय नमः । ॐ नमः सर्वकोटिसर्वविद्याराजाय क्लीं कृष्णाय गोपालचूडामणये स्वाहा । ॐ नमो भगवते दधिवामनाय ॐ । तद्दलसन्धिष्वन्नपूर्णेश्वरीमन्त्रः । ह्रीं पद्मावत्यन्नपूर्णे माहेश्वरी स्वाहा । तद्बहिः प्रणवमालायुक्तं वृत्तम् । वृत्ताद्बहिः षोडशदलपद्मम् । तेषु दलेषु श्रीकृष्ण- सुदर्शनषोडशाक्षरमन्त्रौ च । ॐ नमो भगवते रुक्मिणीवल्लभाय स्वाहा । ॐ नमो भगवते महासुदर्शनाय हुं फट् । तद्दलसन्धिषु स्वराः सुदर्शनमालामन्त्राश्च । अ आ इ ई उ ऊ ऋ ॠ लृ लॄ ए ऐ ओ औ अं अः । सुदर्शनमहाचक्राय दीप्तरूपाय सर्वतो मां रक्षरक्ष सहस्रार हुं फट् स्वाहा । तद्बहिर्वराहबीजयुक्तं वृत्तम् । तद्धुमिति । वृत्तद्बहिरष्टादशदलपद्मम् । तेषु दलेषु श्रीकृष्णवामनाष्टादशाक्षरमन्त्रौ । क्लीं कृष्णाय गोविन्दाय गोपीजनवल्लभाय स्वाहा । ॐ नमो विष्णवे सुरपतये महाबलाय स्वाहा । तद्दलकपोलेषु गरुडपञ्चाक्षरीमन्त्रो गरुडमालामन्त्रश्च । क्षिप ॐ स्वाहा । ॐ नमः पक्षिराजाय सर्वविषभूतरक्षः- कृत्यादिभेदनाय सर्वेष्टसाधकाय स्वाहा । तद्बहिर्मायाबीजयुक्तं वृत्तम् । वृत्तद्बहिः पुनरष्टदलपद्मम् । तेषु दलेषु श्रीकृष्णवामनाष्टाक्षरमन्त्रौ । ॐ नमो दामोदराय । ॐ वामनाय नमः ॐ । तद्दलकपोलेषु नीलकण्ठत्र्यक्षरीगरुडपञ्चाक्षरीमन्त्रौ च । प्रें रीं ठः । नमोऽण्डजाय । तद्बहिर्मन्मथबीजयुक्तं वृत्तम् । वृत्तद्बहिश्चतुर्विंशतिदलपद्मम् । तेषु दलेषु शरणागत- नारायणमन्त्रौ नारायणहयग्रीवगायत्री मन्त्रौ च । श्रीमन्नारायणचरणौ शरणं प्रपद्ये श्रीमते नारायणाय नमः । नारायाणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात् । वागीश्वराय विद्महे हयग्रीवाय धीमहि । तन्नो हंसः प्रचोदयात् । तद्दलकपोलेषु नृसिंहसुदर्शनगायत्रीमन्त्राश्च । वज्रनखाय विद्महे तीक्ष्णदंष्ट्राय धीमहि । तन्नो नृसिंहः प्रचोदयात् । सुदर्शनाय विद्महे हेतिराजाय धीमहि । तन्नश्चक्रः प्रचोदयात् । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । तद्बहिर्हयग्रीवैकाक्षरयुक्तं वृत्तं ह्लोह्सौमिति । वृत्ताद्बहिर्द्वात्रिंशद्दलपद्मम् । तेषु दलेषु नृसिंहहयग्रीवानुष्टुभमन्त्रौ उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् । ऋग्यजुःसामरूपाय वेदाहरणकर्मणे । प्रणवोद्गीथवपुषे महाश्वशिरसे नमः । तद्दलकपोलेषु रामकृष्णानुष्टुभमन्त्रौ । रामभद्र महेश्वास रघुवीर नृपोत्तम । भो दशास्यान्तकास्माकं रक्षां देहि श्रियं च मे । देवकीसुत गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः । तद्बहिः प्रणवसंपुटिताग्निबीजयुक्तं वृत्तम् । ॐ रमोमिति । वृत्तद्बहिः षट्त्रिंशद्दलपद्मम् । तेषु दलेषु हयग्रीवषट्त्रिंशदक्षरमन्त्रः पुनरष्टत्रिंशदक्षर मन्त्रश्च । हंसः । विश्वोत्तीर्णस्वरूपाय चिन्मयानन्दरूपिणे । तुभ्यं नमो हयग्रीव विद्याराजाय विष्णवे । सोऽहम् । ह्लौं ॐ नमो भगवते हयग्रीवाय सर्ववागीश्वरेश्वराय सर्ववेदमयाय सर्वविद्यां मे देहि स्वाहा । तद्दलकपोलेषु प्रणवादिनमोन्ताश्च तुर्थ्यन्ताः केशवादिचतुर्विंशतिमन्त्राश्च । अवशिष्टद्वादशस्थानेषु रामकृष्णगायत्रीद्वय- वर्णचतुष्टयमेकैकस्थले । ॐ केशवाय नमः । ॐ नारायणाय नमः । ॐ माधवाय नमः । ॐ गोविन्दाय नमः । ॐ विष्णवे नमः । ॐ मधुसूदनाय नमः । ॐ त्रिविक्रमाय नमः । ॐ वामनाय नमः । ॐ श्रीधराय नमः । ॐ हृषीकेशाय नमः । ॐ पद्मनाभाय नमः । ॐ दामदराय नमः । ॐ सङ्कर्षणाय नमः । ॐ वासुदेवाय नमः । ॐ प्रद्युम्नाय नमः । ॐ अनिरुद्धाय नमः । ॐ पुरुषोत्तमाय नमः । ॐ अधोक्षजाय नमः । ॐ नारसिंहाय नमः । ॐ अच्युताय नमः । ॐ जनार्दनाय नमः । ॐ उपेन्द्राय नमः । ॐ हरये नमः । ॐ श्रीकृष्णाय नमः । दाशरथाय विद्महे सीतावल्लभाय धीमहि । तन्नो रामः प्रचोदयात् । दामोदराय विद्महे वासुदेवाय धीमहि । तन्नः कृष्णः प्रचोदयात्। तद्बहिः प्रणवसंपुटिताङ्कुशबीजयुक्तं वृत्तम् । ॐ क्रोमिति । तद्बहिः पुनर्वृत्तं तन्मध्ये द्वादशकुक्षिस्थानानि सान्तरालानि । तेषु कौस्तुभवनमालाश्रीवत्ससुदर्शनगरुडपद्म- ध्वजानन्तशार्ङ्गगदाशङ्खनन्दकमन्त्राः प्रणवादि- नमओन्ताश्चतुर्थ्यन्ताः क्रमेण । ॐ कौस्तुभाय नमः । ॐ वनमालाय नमः । ॐ श्रीवत्साय नमः । ॐ सुदर्शनाय नमः । ॐ गरुडाय नमः । ॐ पद्माय नमः । ॐ ध्वजाय नमः । ॐ अनन्ताय नमः । ॐ शार्ङ्गाय नमः । ॐ गदायै नमः । ॐ शङ्खाय नमः । ॐ नन्दकाय नमः । तदन्तरालेषु--ॐ विश्वक्सेनाय नमः । ॐआचक्राय स्वाहा । ॐ विचक्राय स्वाहा । ॐ सुचक्राय स्वाहा । ॐ धीचक्राय स्वाहा । ॐ संचक्राय स्वाहा । ॐ ज्वालचक्राय स्वाहा । ॐ क्रुद्धोल्काय स्वाहा । ॐ महोत्काय स्वाहा । ॐ वीर्योल्काय स्वाहा । ॐ द्युल्काय स्वाहा । ॐ सहस्रोल्काय स्वाहा । इति प्रणवादि मन्त्राः । तद्बहिः प्रणवसंपुटितगरुडपञ्चाक्षरयुक्तं वृत्तम् । ॐ क्षिप ॐ स्वाहाम् । ॐ तच्च द्वादशवज्रैः सान्तरालैरलङ्कृतम् । तेषु वज्रेषु ॐ पद्मनिधये नमः । ॐ महापद्मनिधये नमः । ॐ गरुडनिधये नमः । शङ्खनिधये नमः । ॐ मकरनिधये नमः । ॐ कच्छपनिधये नमः । ॐ विद्यानिधये नमः । ॐ परमानन्दनिधये नमः । ॐ मोक्षनिधये नमः । ॐ लक्ष्मीनिधये नमः । ॐ ब्रह्मनिधये नमः । ॐ श्रीमुकुन्दनिधये नमः । ॐ वैकुण्ठनिधये नमः । तत्सन्धिस्थानेषु---- ॐ विद्याकल्पकतरवे नमः । ॐ मुक्तिकल्पकतरवे नमः । ॐ आनन्दकल्पकतरवे नमः । ॐ ब्रह्मकल्पकतरवे नमः । ॐ मुक्तिकल्पकतरवे नमः । ॐ अमृतकल्पकतरवे नमः । ॐ बोधकल्पकतरवे नमः । ॐ विभूतिकल्पकतरवे नमः । ॐ वैकुण्ठकल्पकतरवे नमः । ॐ वेदकल्पकतरवे नमः । ॐ योगकल्पकतरवे नमः । ॐ यज्ञकल्पकतरवे नमः । ॐ पद्मकल्पकतरवे नमः । तच्च शिवगायत्रीपरब्रह्ममन्त्राणां वर्णैर्वृत्ताकारेण संवेष्ट्य । तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् । श्रिअमन्नारायणो ज्योतिरात्मा नारायणः परः । नारायणपरं ब्रह्म नारायण नमोस्तु ते । तद्बहिः प्रणवसंपुटितश्रीबीजयुक्तं वृत्तम् । ॐ श्रीमोमिति । वृत्ताद्बहिश्चत्वारिंशद्दलपद्मम् । तेषु दलेषु व्याहृतिशिरःसंपुटितवेदगायत्री- पादचतुष्टयसूर्याष्टाक्षरमन्त्रौ । ॐ भूः । ॐ भुवः । ॐ सुवः । ॐ महः । ॐ जनः । ॐ तपः । ॐ सत्यम् । ॐ तत्सवितुर्वरेण्यम् । ॐ भर्गो देवस्य धीमहि । ॐ धियो यो नः प्रचोदयात् । ॐ परोरजसे सावदोम् । ॐ आपोज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवरोम् । ॐ घृणिः सूर्य आदित्यः । तद्दलसन्धिषु प्रणवश्रीबीजसंपुटितनारायणबीजं सर्वत्र । ॐ श्रीमं श्रीमोम् । तद्बहिरष्टशूलाङ्कितभूचक्रम् । चक्रान्तश्चक्षुर्दिक्षु हंसःसोहंमन्त्रौ प्रणवसंपुटिता नारायणास्त्रमन्त्राश्च । ॐ हंसः सोहम् । ॐ नमो नारायणाय हुं फट् । तद्बहिः प्रणवमालासंयुक्तं वृत्तम् । वृत्ताद्बहिः पञ्चाशद्दलपद्मम् । तेषु दलेषु मातृका पञ्चाशदक्षरमाला लकारवर्ज्या । तद्दलसन्धिषु प्रणवश्रीबीजसंपुटितरामकृष्णमालामन्त्रौ । ॐ श्रीमों नमो भगवते रघुनन्दनाय रक्षोघ्नविशदाय मधुरप्रसन्नवदनायामिततेजसे बलाय रामाय विष्णवे नमः । श्रीमों नमः कृष्णाय देवकीपुत्राय वासुदेवाय निर्गलच्छेदनाय सर्वलोकाधिपतये सर्वजगन्मोहनाय विष्णवे कामितार्थदाय स्वाहा श्रीमोम् । तद्बहिरष्टशूलाङ्कितभूचक्रम् । तेषु प्रणवसंपुटितमहानीलकण्ठमन्त्रवर्णानि । ॐमों नमो नीलकण्ठाय । ॐ शूलाग्रेषु लोकपालमन्त्राः प्रणवादिनमोन्ताश्चतुर्थ्यन्ताः क्रमेण । ॐ इन्द्राय नमः । ॐ अग्नये नमः । ॐ यमाय नमः । ॐ निरृतये नमः । ॐ वरुणाय नमः । ॐ वायवे नमः । ॐ सोमाय नमः । ॐ ईशानाय नमः । तद्बहिः प्रणवमालायुक्तं वृत्तत्रयम् । तद्बहिर्भूपुरचतुष्टयं चतुर्द्वारयुतं चक्रकोणचतुष्टयमहावज्रविभूषितम् तेषु वज्रेषु प्रणवश्रीबीजसंपुटितामृतबीजद्वयम् । ॐ श्रीं ठं वं श्रीमोमिति । बहिर्भूपुरवीथ्याम् ---- ॐ आधारशक्त्यै नमः । ॐ मूलप्रकृत्यै नमः । ॐ आदिकूर्माय नमः । ॐ अनन्ताय नमः । ॐ पृथिव्यै नमः । मध्यभूपुरवीथ्याम्---- ॐ क्षीरसमुद्राय नमः । ॐ रत्नद्वीपाय नमः । ॐ मणिमण्डपाय नमः । ॐ श्वेतच्छत्राय नमः । ॐ कल्पकवृक्षाय नमः । ॐ रत्नसिंहासनाय नमः । प्रथमभूपुरवीथ्यामों धर्मज्ञानवैराग्यैश्व- र्याधर्माज्ञानावैराग्यानैश्वर्यसत्वरजस्तमोमाया- विद्यानन्तपद्माः प्रणवादिनमोन्ताश्चतुर्थ्यन्ताः क्रमेण । अन्तवृत्तवीथ्यामोमनुग्रहायै नमः । ॐ नमो भगवते विष्णवे सर्वभूतात्मने वासुदेवाय सर्वात्मसंयोग- योगपीठात्मने नमः । वृत्तवकाशेषु----बीजं प्राणं च शक्तिं च दृष्टिं वश्यादिकं तथा । मन्त्रयन्त्राख्यगायत्रीप्राणस्थापनमेव च । भूतदिक्पालबीजानि यन्त्रस्याङ्गानि वै दश । मूलमन्त्रमालामन्त्रकवचदिग्बन्धनमन्त्राश्च । एवंविधमेतद्यन्त्रं महामन्त्रमयं योगधीरान्तैः परमन्त्रैरलङ्कृतं षोडशोपचारैरभ्यर्चितं जपहोमादिना साधितमेतद्यन्त्रं शुद्धब्रह्मतेजोमयं सर्वाभयङ्करं समस्तदुरितक्षयकरं सर्वाभीष्ट- संपादकं सायुज्यमुक्तिप्रदमेतत्परमवैकुण्ठ- महानारायणयन्त्रं प्रज्वलति । तस्योपरि च निरतिशयानन्द- तेजोराश्यभ्यन्तरसमासीनं वाचामगोचरानन्द- तेजोराश्याकारं चित्साराविर्भूतानन्दविग्रहं बोधानन्द- स्वरूपं निरतिशयसौन्दर्यपारावारं तुरीयस्वरूपं तुरीयातीतं चाद्वैतपरमानन्दनिरन्तरातितुरीयनिरतिशय- सौन्दर्यानन्दपारावारं लावण्यवाहिनीकल्लोलतटिद्भासुरं दिव्यमङ्गलविग्रहं मूर्तिमद्भिः परममङ्गलैरुपसेव्यमानं चिदानन्दमयैरनन्तकोटिरविप्रकाशैरनन्तभूषणैरलङ्कृतं सुदर्शनपाञ्चजन्यपद्मगदासिशार्ङ्गमुसलपरिघाद्यै- श्चिन्मयैरनेकायुधगणैर्मूर्तिमद्भिः सुसेवितम् । बाह्यवृत्तवीथ्यां विमलोत्कर्षिणी ज्ञान क्रिया योग प्रह्वी सत्येशाना प्रणवादिनमोन्ताश्चतुर्थ्यन्ताः क्रमेण । श्रीवत्सकौस्तुभवनमालाङ्कितवक्षसं ब्रह्मकल्पवनामृत- पुष्पवृष्टिभिः सन्ततमानन्दं ब्रह्मानन्दरसनिर्भरै- रसंख्यैरतिमङ्गलं शेषायुतफणाजालविपुलच्छत्रशोभितं तत्फणामण्डलोदर्चिर्मणिद्योतितविग्रहं तदङ्गकान्तिनिर्झरैस्ततं निरतिशयब्रह्मगन्धस्वरूपं निरतिशयानन्दब्रह्मगन्ध- विशेषकारमनन्तब्रह्मगन्धाकारसमष्टिविशेषमन्तानन्द- तुलसीमाल्यैरभिनवं चिदानन्दमयानन्तपुष्पमाल्यैर्विराजमानं तेजःप्रवाहतरङ्गतत्परंपराभिर्ज्वलन्तं निरतिशयानन्दं कान्तिविशेषावर्तैरभितोऽनिशं प्रज्वलन्तं बोधानन्दमयानन्त- धूपदीपावलिनिरतिशोभितं निरतिशयानन्दचामरविशेषैः परिसेवितं निरन्तरनिरुपमनिरतिशयोत्कटज्ञानानन्दानन्तगुच्छ- फलैरलङ्कृतं चिन्मयानन्ददिव्यविमानच्छत्रध्वजराजिभि- र्विराजमानं परममङ्गलानन्तदिव्यतेजोभिर्ज्वलन्तमनिशं वाचामगोचरमनन्ततेजोराश्यन्तर्गतमर्धमात्रात्मकं तुर्यं ध्वन्यात्मकं तुरीयातीतमवाच्यं नादबिन्दुकलाध्यात्म- स्वरूपं चेत्याद्यनन्ताकारेणावस्थितं निर्गुणं निष्क्रियं निर्मलं निरवद्यं निरञ्जनं निराकारं निराश्रयं निरतिशयाद्वैत- परमानन्दलक्षणमादिनारायणं ध्यायेदित्युपनिषत् ॥ इत्याथर्वणमहानारायणोपनिषदि परममोक्षस्वरूप- निरूपणद्वारा त्रिपाद्विभूतिपरमवैकुण्ठमहानारायण- यन्त्रस्वरूपनिरूपणं
नाम सप्तमोऽध्यायः ॥ ७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP