त्रिपाद्विभूतिमहानारायणोपनिषत् - तृतीयोऽध्यायः

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic


अथ छात्रस्तथेतिहोवाच । भगवन्देशिक परमतत्त्वज्ञ सविलासमहामूलाऽविद्योदयक्रमः कथितः । तदु प्रपञ्चोत्पत्तिक्रमः कीदृशो भवति । विशेषेण कथनीयः । तस्य तत्त्वं वेदितुमिच्छामि । तथेत्युक्त्वा गुरुरित्युवाच ।यथानादिसर्वप्रपञ्चो दृश्यते । नित्योऽनित्यो वेति संशय्येते । प्रपञ्चोऽपि द्विविधः । विद्याप्रपञ्चश्चाविद्याप्रपञ्चश्चेति । विद्याप्रपञ्चस्य नित्यत्वं सिद्धमेव नित्यानन्द- चिद्विलासात्मकत्वात् । अथ च शुद्धबुद्धमुक्त- सत्यानन्दस्वरूपत्वाच्च । अविद्याप्रपञ्चस्य नित्यत्वमनित्यत्वं वा कथमिति । प्रवाहतो नित्यत्वं वदन्ति केचन । प्रलयादिकं श्रूयमाणत्वादनित्यत्वं वदन्त्यन्ये । उभयं न भवति । पुनः कथमिति । संकोचविकासात्मकमहामायाविलासात्मक एव सर्वोऽप्यविद्याप्रपञ्चः । परमार्थतो न किंचिदस्ति क्षणशून्यानादिमूलाऽविद्याविलासत्वात् । तत्कथमिति । एकमेवाद्वितीयं ब्रह्म । नेह नानास्ति किंचन । तस्माद्ब्रह्मव्यतिरिक्तं सर्वं बाधितमेव । सत्यमेव परंब्रह्म सत्यं ज्ञानमनन्तं ब्रह्म । ततः सविलासमूलाऽविद्योपसंहारक्रमः कथमिति । अत्यादरपूर्वकमतिहर्षेण देशिक उपदिशति । चतुर्युगसहस्राणि ब्रह्मणो दिवा भवति । तावता कालेन पुनस्तस्य रात्रिर्भवति । द्वे अहोरात्रे एकं दिनं भवति । तस्मिन्नेकस्मिन्दिने आसत्यलोकान्तमुदयस्थितिलया जायन्ते । पञ्चदशदिनानि पक्षो भवति । पक्षद्वयं मासो भवति । मासद्वयमृतुर्भवति । ऋतुत्रयमयनं भवति । अयनद्वयं वत्सरो भवति । वत्सरशतं ब्रह्ममानेन ब्रह्मणः परमायुःप्रमाणम् ।तावत्कालस्तस्य स्थितिरुच्यते । स्थित्यन्तेऽण्डविराट्पुरुषः स्वांशं हिरण्यगर्भमभ्येति । हिरण्यगर्भस्य कारणं परमात्मानमण्डपरिपालकनारायणमभ्येति । पुनर्वत्सरशतं तस्य प्रलयो भवति । तदा जीवाः सर्वे प्रकृतौ प्रलीयन्ते । प्रलयं सर्वशून्यं भवति । तस्य ब्रह्मणः स्थितिप्रलयावादिनारायणस्यांशेनावतीर्ण- स्याण्डपरिपालकस्य महाविष्णोरहोरात्रिसंज्ञकौ । ते अहोरात्रे एकं दिनं भवति । एवं दिनपक्षमास- संवत्सरादिभेदाच्च तदीयमानेन शतकोटिवत्सरकालस्तस्य स्थितिरुच्यते । स्थित्यन्ते स्वांशं महाविराट्पुरुषमभ्येति । ततः सावरणं ब्रह्माण्डं विनाशमेति । ब्रह्माण्डावरणं विनश्यति तद्धि विष्णोः स्वरूपम् । तस्य तावत्प्रलयो भवति । प्रलये सर्वशून्यं भवति । अण्डपरिपालकमहाविष्णोः स्थितिप्रलयावादिविराट्पुरुषस्याहोरात्रिसंज्ञकौ ते अहोरात्रे एकं दिनं भवति । एवं दिनपक्षमाससंवत्सरादिभेदाच्च तदीयमानेन शतकोटिवत्सरकालस्तस्य स्थितिरुच्यते । स्थित्यन्ते आदिविराट्पुरुषः स्वांशमायोपाधिकनारायणमभ्येति । तस्य विराट्पुरुषस्य यावत्स्थितिकालस्तावत्प्रलयो भवति । प्रलये सर्वशून्यं भवति । विराट्स्थितिप्रलयौ मूलाविद्याण्डपरिपालक- स्यादिनारायणस्याहोरात्रिसंज्ञकौ । ते अहोरात्रे एकं दिनं भवति । एवं दिनपक्षमाससंवत्सरादिभेदाच्च तदीयमानेन शतकोटिवत्सरकालस्तस्य स्थितिरुच्यते । स्थित्यन्ते त्रिपाद्विभूतिनारायण स्येच्छावशान्निमेषो जायते । तस्मान्मूलाविद्याण्डस्य सावरणस्य विलयो भवति । ततः सविलासमूलविद्या सर्वकार्योपाधिसमन्विता सदसद्विलक्षणानिर्वाच्या लक्षणशून्याविर्भावतिरोभावात्मिकानाद्यखिलकारण- कारणानन्तमहामायाविशेषणविशेषिता परमसूक्ष्ममूलकारणमव्यक्तं विशति । अव्यक्तं विशेद्ब्रह्मणि निरिन्धनो वैश्वानरो यथा । तस्मान्मायोपाधिक आदिनारायणस्तथा स्वस्वरूपं भजति । सर्वे जीवाश्च स्वस्वरूपं भजन्ते । यथा जपाकुसुमसान्निध्याद्रक्तस्फटिक- प्रतीतिस्तदभावे शुद्धस्फटिकप्रतीतिः । ब्रह्मणोपि मायोपाधिवशात्सगुणपरिच्छिन्नादिप्रतीतिरुपाधि- विलयान्निर्गुणनिरवयवादिप्रतीतिरित्युपनिषत् ॥ इत्याथर्वणमहानारायणोपनिषदि मूलाविद्याप्रलयस्वरूपणं
नाम तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP