पैङ्गलोपनिषत् - प्रथमोऽध्यायः

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic


शुक्लयजुर्वेदीय सामान्य उपनिषत् ॥पैङ्गलोपनिषद्वेद्यं परमानन्दविग्रहम् | परितः कलये रामं परमाक्षरवैभवम् ॥ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते | पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ॐ शान्तिः शान्तिः शान्तिः ॥
अथ ह पैङ्ग़लो याज्ञवल्क्यमुपसमेत्य द्वादशवर्शशुश्रूषापूर्वकं परमरहस्यकैवल्यमनुब्रूहीति पप्रच्छ | स होवाच याज्ञ्नवल्क्यः सदेव सोम्येदमग्र आसीत् | तन्नित्यमुक्तमविक्रियं सत्यज्ञानानन्दं परिपूर्णं सनातनमेकमेवाद्वितीयं ब्रह्म | तस्मिन्मरुशुक्तिकास्थाणुस्फटिकादौ जलरौप्यपुरुषरेखादिवल्लोहितशुक्लकृष्णगुणमयी गुणसाम्यानिर्वाच्या मूलप्रकृतिरासीत् | तत्प्रतिबिम्बितं यत्तत्साक्षिचैतन्यमासीत् | सा पुनर्विकृतिं प्राप्य सत्त्वोद्रिक्ताऽव्यक्ताख्यावरणशक्तिरासीत् | तत्प्रतिबिम्बितं यत्तदीश्वरचैतन्यमासीत् | स स्वाधीनमायः सर्वज्ञः सृष्टिस्थितिलयानामादिकर्ता जगदङ्कुररूपो भवति | स्वस्मिन्विलीनं सकलं जगदाविर्भावयति | प्राणिकर्मवशादेष पटो यद्वत्प्रसारितः प्राणिकर्मक्षयात्पुनस्तिरोभावयति | तस्मिन्नेवाखिलं विश्वं सङ्कोचितपटवद्वर्तते | ईशाधिष्ठितावरणशक्तितो रजोद्रिक्ता महदाख्या विक्षेपशक्तिरासीत् | तत्प्रतिबिम्बितं यत्तद्धिरण्यगर्भचैतन्यमासीत् | स महत्तत्त्वाभिमानी स्पष्टास्पष्टवपुर्भवति | हिरण्यगर्भाधिष्ठितविक्षेपशक्तितस्तमोद्रिक्ताहङ्काराभिधा स्थूलशक्तिरासीत् | तत्प्रतिबिम्बितं यत्तद्विराटचैतन्यमासीत् | स तदभिमानी स्पष्टवपुः सर्वस्थूलपालको विष्णुः प्रधानपुरुषो भवति | तस्मादात्मन आकाशः सम्भूतः | आकाशाद्वायुः | वायोरग्निः | अग्नेरापः | अद्भ्यः पृथिवी | तानि पञ्च तन्मात्राणि त्रिगुणानि भवन्ति | स्रष्टुकामो जगद्योनिस्तमोगुणमधिष्ठाय सूक्ष्मतन्मात्राणि भूतानि स्थूलीकर्तुं सोऽकामयत | सृष्टेः परिमितानि भूतान्येकमेकं द्विधा विधाय पुनश्चतुर्धा कृत्वा स्वस्वेतरद्वितीयांशैः पञ्चधा संयोज्य पञ्चीकृतभूतैरनन्तकोटिब्रह्माण्डानि तत्तदण्डोचितगोलकस्थूलशरीराण्यसृजत् | स पञ्चभूतानां रजोंशांश्चतुर्धा कृत्वा भागत्रयात्पञ्चवृत्त्यात्मकं प्राणमसृजत् | स तेषां तुर्यभागेन कर्मेन्द्रियाण्यसृजत् | स तेषां सत्त्वांशं चतुर्धा कृत्वा भागत्रयसमष्टितः पञ्चक्रियावृत्त्यात्मकमन्तःकरणमसृजत् | स तेषां सत्त्वतुरीयभागेन ज्ञानेन्द्रियाण्यसृजत् | सत्त्वसमष्टित इन्द्रियपालकानसृजत् | तानि सृष्टान्यण्डे प्राचिक्षिपत् | तदाज्ञया समष्ट्यण्डं व्याप्य तान्यतिष्ठन् | तदाज्ञयाहङ्कारसमन्वितो विराट् स्थूलान्यरक्षत् | हिरण्यगर्भस्तदाज्ञया सूक्ष्माण्यपालयत् | अण्डस्थानि तानि तेन विना स्पन्दितुं चेष्टितुं वा न शेकुः | तानि चेतनीकर्तुं सोऽकामयत ब्रह्माण्डब्रह्मरन्ध्राणि समस्तव्यष्टिमस्तकान्विदार्य तदेवानुप्राविशत् | तदा जडान्यपि तानि चेतनवत्स्वकर्माणि चक्रिरे | सर्वज्ञेशो मायालेशसमन्वितो व्यष्टिदेहं प्रविश्य तया मोहितो जीवत्वमगमत् | शरीरत्रयतादात्म्यात्कर्तृत्वभोक्तृत्वतामगमत् | जाग्रत्स्वप्नसुषुप्तिमूर्च्छामरणधर्मयुक्तो घटीयन्त्रवदुद्विग्नो जातो मृत इव कुलालचक्रन्यायेन परिभ्रमतीति ॥
इति प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP