बृहज्जाबालोपनिषत् - चतुर्थं ब्राह्मणम्
आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic
मानस्तोकेन मन्त्रेण मन्त्रितं भस्म धारयेत् । ऊर्ध्वपुण्ड्रं भवेत्सामं मध्यपुण्ड्रं त्रियायुषम् ॥१॥ त्रियायुषाणि कुरुते ललाटे च भुजद्वये । नाभौ शिरसि हृत्पार्श्वे ब्राह्मणाः क्षत्रियास्तथा ॥२॥ त्रैवर्णिकानां सर्वेषामग्निहोत्रसमुद्भवम् । इदं मुख्यं गृहस्थानां विरजानलजं भवेत् ॥३॥विरजानलजं चैव धार्यं प्रोक्तं महर्षिभिः । औपासनसमुत्पन्नं गृहस्थानां विशेषतः ॥४॥ समिदग्निसमुत्पन्नं धार्यं वै ब्रह्मचारिणा । शूद्राणां श्रोत्रियागारपचनाग्निसमुद्भवम् ॥५॥ अन्येषामपि सर्वेषां धार्यं चैवानलोद्भवम् । यतीनां ज्ञानदं प्रोक्तं वनस्थानां विरक्तिदम् ॥६॥ अतिवर्णाश्रमाणां तु श्मशानाग्निसमुद्भवम् । सर्वेषां देवालयस्थं भस्म शिवाग्निजं शिवयोगिनाम् । शिवालयस्थं तल्लिङ्गलिप्तं वा मन्त्रसंस्कारदग्धं वा ॥तत्रैते श्लोका भवन्ति । तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् । येन विप्रेण शिरसि त्रिपुण्ड्रं भस्मना धृतम् ॥७॥ त्यक्तवर्णाश्रमाचारो लुप्तसर्वक्रियोऽपि यः । सकृत्तिर्यक्त्रिपुण्ड्राङ्कधारणात्सोऽपि पूज्यते ॥८॥ ये भस्मधारणं त्यक्त्वा कर्म कुर्वन्ति मानवाः । तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः ॥९॥ महापातकयुक्तानां पूर्वजन्मार्जितागसाम् । त्रिपुण्ड्रोद्धूलनद्वेषो जायते सुदृढं बुधाः ॥१०॥ येषां कोपो भवेद्ब्रह्मंल्ललाटे भस्मदर्शनात् । तेषामुत्पत्तिसाङ्कर्यमनुमेयं विपश्चिता ॥११॥ येषां नास्ति मुने श्रद्धा श्रौते भस्मनि सर्वदा । गर्भाधानादिसंस्कारस्तेषां नास्तीति निश्चयः ॥१२॥ ये भस्मधारिणं दृष्ट्वा नराः कुर्वन्ति ताडनम् । तेषां चण्डालतो जन्म ब्रह्मन्नूह्यं विपश्चिता ॥१३॥ येषां क्रोधो भवेद्भस्मधारणे तत्प्रमाणके । ते महापातकैर्युक्ता इति शास्त्रस्य निश्चयः ॥१४॥ त्रिपुण्ड्ऱकं ये विनिन्दन्ति निन्दन्ति शिवमेव ते । धारयन्ति च ये भक्त्या धारयन्ति शिवं च ते ॥१५॥ धिग्भस्मरहितं भालं धिग्ग्राममशिवालयम् । धिगनीशार्चनं जन्म धिग्विद्यामशिवाश्रयाम् ॥१६॥ रुद्राग्नेर्यत्परं वीर्यं तद्भस्म परिकीर्तितम् । तस्मात्सर्वेषु कालेषु वीर्यवान्भस्मसंयुतः ॥१७॥ भस्मनिष्ठस्य दह्यन्ते दोषा भस्माग्निसङ्गमात् । भस्मस्नानविशुद्धात्मा भस्मनिष्ठ इति स्मृतः ॥१८॥भस्मसन्दिग्धसर्वाङ्गो भस्मदीप्तत्रिपुण्ड्रकः । भस्मशायी च पुरुषो भस्मनिष्ठ इति स्मृतः ॥१९॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP