बृहज्जाबालोपनिषत् -द्वितीयं ब्राह्मणम्

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic


द्वितीयं ब्राह्मणम् ॥२॥
अथ भुसुण्डः कालाग्निरुद्रं विभूतियोगमनुब्रूहीति होवाच विकटाङ्गामुन्मत्तां महाखलां मलिनामशिवादिचिह्नान्वितां पुनर्धेनुं कृशाङ्गां वत्सहीनामशान्तामदुघ्धदोहिनीं निरिन्द्रियां जग्धतृणां केशचेलास्थिभक्षिणीं सन्धिनीं नवप्रसूतां रोगार्तां गां विहाय प्रशस्तगोमयमाहरेद्गोमयं स्वस्थं ग्राह्यं शुभे स्थाने वा पतितमपरित्यज्यात ऊर्ध्वं मर्दयेद्गव्येन गोमयग्रहणं कपिला वा धवला वा अलाभे तदन्या गौः स्याद्दोषवर्जिता कपिलागोर्भस्मोक्तं लब्धं गोभस्म नो चेदन्यगोक्षारं यत्र क्वापि स्थितं च यत्तन्न हि धार्यं संस्कारसहितं धार्यम् । तत्रैते श्लोका भवन्ति । विद्याशक्तिः समस्तानां शक्तिरित्यभिधीयते । गुणत्रयाश्रया विद्या सा विद्या च तदाश्रया ॥१॥गुणत्रयमिदं धेनुर्विद्याभूद्गोमयं शुभम् । मूत्रं चोपनिषत्प्रोक्तं कुर्याद्भस्म ततः परम् ॥वत्सस्तु स्मृतयश्चास्य तत्संभूतं तु गोमयम् । आगाव इति मन्त्रेण धेनुं तत्राभिमन्त्रयेत् ॥३॥गावो भग गावो इति प्राशयेत्तर्पणं जलम् । उपोष्य च चतुर्दश्यां शुक्ले कृष्णेऽथवा व्रती ॥४॥परेद्युः प्रातरुत्थाय शुचिर्भूत्वा समाहितः । कृतस्नानो धौतवस्त्रः पयोर्धं च सृजेच्च गाम् ॥५॥उत्थाप्य गां प्रयत्नेन गायत्र्या मूत्रमाहरेत् । सौवर्णे राजते ताम्रे धारयेन्मृण्मये घटे ॥६॥पौष्करेऽथ पलाशे वा पात्रे गोशृङ्ग एव वा । आदधीत हि गोमूत्रं गन्धद्वारेति गोमयम् ॥७॥अभूमिपातं गृह्णीयात्पात्रे पूर्वोदिते गृही । गोमयं शोधयेद्विद्वान्श्रीर्मे भजतुमन्त्रतः ॥८॥अलक्ष्मीर्म इति मन्त्रेण गोमयं धान्यवर्जितम् । संत्वासिंचामि मन्त्रेण गोमये क्षिपेत् ॥९॥पञ्चानां त्विति मन्त्रेण पिण्डानां च चतुर्दश । कुर्यात्संशोध्य किरणैः सौरकैराहरेत्ततः ॥१०॥निदध्यादथ पूर्वोक्तपात्रे गोमयपिण्डकान् । स्वगृह्योक्तविधानेन प्रतिष्ठाप्याग्निमीजयेत् ॥११॥पिण्डांश्च निक्षिपेत्तत्र आद्यन्तं प्रणवेन तु । षडक्षरस्य सूक्तस्य व्याकृतस्य तथाक्षरैः ॥१२॥स्वाहान्ते जुहुयात्तत्र वर्णदेवाय पिण्डकान् । आघारावाज्यभागौ च प्रक्षिपेद्व्याहृतीः सुधीः ॥१३॥ततो निधनपतये त्रयोविंशज्जुहोति च । होतव्याः पञ्च ब्रह्माणि नमो हिरण्यबाहवे ॥१४॥इति सर्वाहुतिर्हुत्वा चतुर्थ्यन्तैश्च मन्त्रकैः । ऋतंसत्यं कद्रुद्राय यस्य वकङ्कतीति च ॥१५॥एतैश्च जुहुयाद्विद्वाननाज्ञातत्रयं तथा । व्याहृतीरथ हुत्वा च ततः स्विष्टकृतं हुनेत् ॥१६॥होमशेषं तु निर्वर्त्य पूर्णपात्रोदकं तथा । पूर्णमसीति यजुषा जलेनान्येन बृंहयेत् ॥१७॥ब्राह्मणेष्वमृतमिति तज्जलं शिरसि क्षिपेत् । प्राच्यामिति दिशां लिङ्गैर्दिक्षु तोयं विनिक्षिपेत् ॥१८॥ब्रह्मणे दक्षिणां दत्त्वा शान्त्यै पुलकमाहरेत् । आहरिष्यामि देवानां सर्वेषां कर्मगुप्तये ॥१९॥जातवेदसमेनं त्वां पुलकैश्छादयाम्यहम् । मन्त्रेणानेन तं वह्निं पुलकैश्छादयेत्ततः ॥२०॥त्रिदिनं ज्वलनस्थित्यै छादनं पुलकैः स्मृतम् । ब्राह्मणान्भोजयेद्भक्त्या स्वयं भुञ्जीत वाग्यतः ॥२१॥भस्माधिक्यमभीप्सुस्तु अधिकं गोमयं हरेत् । दिनत्रयेण यदि वा एकस्मिन्दिवसेऽथवा ॥२२॥तृतीये वा चतुर्थे वा प्रातः स्नात्वा सिताम्बरः । शुक्लयज्ञोपवीती च शुक्लमाल्यानुलेपनः ॥२३॥शुक्लदन्तो भस्मदिग्धो मन्त्रेणानेन मन्त्रवित् । ॐ तद्ब्रह्मेति चोच्चार्य पौलकं भस्म संत्यजेत् ॥२४॥तत्र चावाहनमुखानुपचारांस्तु षोडश । कुर्याद्व्याहृतिभिस्त्वेवं ततोऽग्निमुपसंहरेत् ॥२५॥अग्निर्भस्मेति मन्त्रेण गृह्णीयाद्भस्म चोत्तरम् । अग्निरित्यादिमन्त्रेण प्रमृज्य च ततः परम् ॥२६॥संयोज्य गन्धसलिलैः कपिलामूत्रकेण वा । चन्द्रकुङ्कुमकाश्मीरमुशिरं चन्दनं तथा ॥२७॥अगरुत्रितयं चैव चूर्णयित्वा तु सूक्ष्मतः । क्षिपेद्भस्मनि तच्चूर्णमोमिति ब्रह्ममन्त्रतः ॥२८॥प्रणवेनाहरेद्विद्वान्बृहतो वटकानथ । अणोरणीयनिति हि मन्त्रेण च विचक्षणः ॥२९॥इत्थं भस्म सुसम्पाद्य शुष्कमादय मन्त्रवित् । प्रणवेन विमृज्याथ सप्तप्रणवमन्त्रितम् ॥३०॥ईशानेति शिरोदेशे मुखं तत्पुरुषेण तु । उरुदेशमघोरेण गुह्यं वामेन मन्त्रयेत् ॥३१॥सद्योजातेन वै पादान्सर्वाङ्गं प्रणवेन तु । तत उद्धूल्य सर्वाङ्गमापादतलमस्तकम् ॥३२॥आचम्य वसनं धौतं ततश्चैतत्प्रधारयेत् । पुनराचम्य कर्म स्वं कर्तुमर्हसि सत्तम ॥३३॥अथ चतुर्विधं भस्म कल्पम् । प्रथममनुकल्पम् । द्वितीयमुपकल्पम् । उपोपकल्पं तृतीयम् । अकल्पं चतुर्थम् । अग्निहोत्रं समुद्भूतं विरजानलजमनुकल्पम् । वने शुष्कं शकृत्संगृह्य कल्पोक्तविधिना कल्पितमुपकल्पं स्यात् । अरण्ये शुष्कगोमयं चूर्णीकृत्य गोमूत्रैः पिण्डीकृत्य यथाकल्पं संस्कृतमुपोपकल्पम् । शिवालयस्थमकल्पं शतकल्पं च । इत्थं चतुर्विधं भस्म पापं निकृन्तयेन्मोक्षं ददातीति भगवान्कालाग्निरुद्रः ॥३४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP