सूतगीता - अथ तृतीयोऽध्यायः
गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.
सामान्यसृष्टिकथनम् ।
सूत उवाच - शिवात्सत्यपरानन्दप्रकाशैकस्वलक्षणात् । आविर्भूतमिदं सर्वं चेतनाचेतनात्मकम् ॥१॥ अद्वितीयोऽविकारी च निर्मलः स शिवः परः । तथाऽपि सृजति प्राज्ञाः सर्वमेतच्चराचरम् ॥२॥ मणिमन्रौषधादीनां स्वभावोऽपि न शक्यते । किमु वक्तव्यमाश्चर्यं विभोरस्य परात्मनः ॥३॥ श्रुतिः सनातनी साध्वी सर्वमानोत्तमोत्तमा । प्राह चाद्वैतनैर्मल्यं निर्विकारत्वमात्मनः ॥४॥ सर्गस्थित्यन्तमप्याह चेतनाचेतनस्य च । अतीन्द्रियार्थविज्ञाने मानं नः श्रुतिरेव हि ॥५॥ श्रुत्यैकगम्ये सूक्ष्मार्थे स तर्कः किं करिष्यति । मानानुग्राहकस्तर्को न स्वतन्त्रः कदाचन ॥६॥ श्रुतिः सनातनी शम्भोरभिव्यक्ता न संशयः । शङ्करेण प्रणीतेति प्रवदन्त्यपरे जनाः ॥७॥ यदा साऽनादिभूतैव तदा मानमतीव सा । स्वतश्च परतो दोषो नास्ति यस्माद्द्विजर्षभाः ॥८॥ स्वतो दोषो न वेदस्य विद्यते सूक्ष्मदर्शने । अस्ति चेद्व्यवहारस्य लोप एव प्रसज्यते ॥९॥ परतश्च न दोषोऽस्ति परस्याभावतो द्विजाः । स्वतो दुष्टोऽपि शब्दस्तु मानमेवाऽऽप्तसङ्गमात् ॥१०॥ इति वार्ताऽपि वार्तैव मुनीन्द्राः सूक्ष्मदर्शने । स्वतो दुष्टः कथं मानं भवत्यन्यस्य सङ्गमात् ॥११॥ यत्सम्बन्धेन यो भावो यस्य प्राज्ञाः प्रसिद्ध्यति । स तस्य भ्रान्तिरेव स्यान्न स्वभावः कथंचन ॥१२॥ जपाकुसुमलौहित्यं विभाति स्फटिके भृशम् । तथाऽपि तस्य लौहित्यं भ्रान्तिरेव न वास्तवम् ॥१३॥ वह्निपाकजलौहित्यमिष्टकायां न वास्तवम् । लौहित्यं तैजसांशस्तु नेष्टकाया निरूपणे ॥१४॥ अन्यत्रान्यस्य धर्मस्तु प्रतीतो विभ्रमो मतः । आप्तापेक्षी तु शब्दस्तु प्रामाण्याय न सर्वथा ॥१५॥ अनाप्तयोगाच्छब्दस्य प्रामाण्यं मुनिपुङ्गवाः । स्वतःसिद्धं तिरोभूतं स्वनाशाय हि केवलम् ॥१६॥ यदा सा शङ्कएरेणोक्ता तदाऽपि श्रुतिरास्तिकाः । प्रमाणं सुतरामाप्ततम एव महेश्वरः ॥१७॥ सर्वदोषविहीनस्य महाकारुणिकस्य च । सर्वज्ञस्यैव शुद्धस्य कथं दोषः प्रकल्प्यते ॥१८॥ सर्वदोषविशिष्टस्य निर्घृणस्य दुरात्मनः । अल्पज्ञस्य च जीवस्य दृष्टाऽनाप्तिर्हि सत्तमाः ॥१९॥ यस्य स्मरणमात्रेण समलो निर्मलो भवेत् । ब्रूत सत्यतपोनिष्ठाः कथं स मलिनो भवेत् ॥२०॥ अतः पक्षद्वयेनापि वेदो मानं न संशयः । वेदोऽनादिः शिवस्तस्य व्यञ्जकः परमार्थतः ॥२१॥ अभिव्यक्तिमपेक्ष्यैव प्रणेतेत्युच्यते शिवः । तस्माद्वेदोपदिष्टार्थो यथार्थो नात्र संशयः ॥२२॥ इह तावन्मया प्रोक्तमद्वितीयः परः शिवः । तथाऽपि तेन सकलं निर्मितं तत्स एव हि ॥२३॥ चित्स्वरूपः शिवश्चेत्यं जगत्सर्वं चराचरम् । तथा सति विरुद्धं तज्जगच्छम्भुः कथं भवेत् ॥२४॥ इत्येवमादिचोद्यस्य द्विजेन्द्रा नास्ति सम्भवः । यत्र वेदविरोधः स्यात्तत्र चोद्यस्य सम्भवः ॥२५॥ चोदनालक्षणे धर्मे न यथा चोद्यसम्भवः । तथा न चोदनागम्ये शिवे चोद्यस्य सम्भवः ॥२६॥ बाध्यबाधकभावस्तु व्याधिभेषजयोर्यथा । शास्त्रेण गम्यते तद्वदयमर्थोऽपि नान्यतः ॥२७॥ ईश्वरस्य स्वरूपे च जगत्सर्गादिषु द्विजाः । अतीन्द्रियार्थेष्वन्येषु मानं नः श्रुतिरेव हि ॥२८॥ अथवा देवदेवस्य सर्वदुर्घटकारिणी । शक्तिरस्ति तया सर्वं घटते माययाऽनघाः ॥२९॥ प्रतीतिसिद्धा सा माया तत्त्वतोऽत्र न संशयः । तया दुर्घटकारिण्या सर्वं तस्योपपद्यते ॥३०॥ सा तिष्ठतु महामाया सर्वदुर्घटकारिणी । वेदमानेन संसिद्धं सर्वं तद्ग्राह्यमेव हि ॥३१॥ चोद्यानर्हे तु वेदार्थे चोद्यं कुर्वन् पतत्यधः । अतः सर्वं परित्यज्य वेदमेकं समाश्रयेत् ॥३२॥ रूपावलोकने चक्षुर्यथाऽसाधारणं भवेत् । तथा धर्मादिविज्ञाने वेदोऽसाधारणः परः ॥३३॥ रूपावलोकनस्येदं यथा घ्राणं न कारणम् । तथा धर्मादिबुद्धेस्तु द्विजास्तर्को न कारणम् ॥३४॥ तस्माद्वेदोदितेनैव प्रकारेण महेश्वरः । अद्वितीयः स्वयं शुद्धस्तथाऽपीदं जगत्ततः ॥३५॥ आविर्भूतं तिरोभूतं स एव सकलं जगत् । वैभवं तस्य विज्ञातुं न शक्यं भाषितुं मया ॥३६॥ स एव साहसी साक्षात्सर्वरूपतया स्थितः । परिज्ञातुं च वक्तुं च समर्थो नापरः पुमान् ॥३७॥ यथाऽयः पावकेनेद्धं भातीव दहतीव च । तथा वेदः शिवेनेद्धः सर्वं वक्तीव भासते ॥३८॥ अयोऽवयवसङ्क्रान्तो यथा दहति पावकः । तथा वेदेषु सङ्क्रान्तः शिवः सर्वार्थसाधकः ॥३९॥ तथाऽपि वेदरहितः स्वयं धर्मादिवस्तुनि । न प्रमाणं विना तेन वेदोऽपि द्विजपुङ्गवाः ॥४० ॥ तस्माद्वेदो महेशेद्धः प्रमाणं सर्ववस्तुनि । अन्यथा न जडः शब्दोऽतीन्द्रियार्थस्य साधकः ॥४१॥ मेरुपार्श्वे तपस्तप्त्वा दृष्ट्वा शम्भुं जगद्गुरुम् । अयमर्थो मया ज्ञातस्ततस्तस्य प्रसादतः ॥४२॥ तदाज्ञयैव विप्रेन्द्राः संहितेयं मयोदिता । अहं क्षुद्रोऽपि युष्माकं महतामपि देशिकः ॥४३॥ अभवं सा शिवस्याऽऽज्ञा लङ्घनीया न केनचित् । शिवस्याऽऽज्ञाबलाद्विष्णुर्जायते म्रियतेऽपि च ॥४४॥ ब्रह्मा सर्वजगत्कर्ता विराट्सम्राट्स्वराडपि । खरोष्ट्रतरवः क्षुद्रा ब्रह्मविष्ण्वादयोऽभवन् ॥४५॥ तस्माद् गुरुत्वं मे विप्रा युज्यते न हि संशयः । शिष्यत्वं चापि युष्माकं स्वतन्त्रः खलु शङ्करः ॥४६॥ महादेवस्य भक्ताश्च तद्भक्ता अपि देहिनः । स्वतन्त्रा वेदविच्छ्रेष्ठाः किं पुनः स महेश्वरः ॥४७॥ स्वातन्त्र्याद्धि शिवेनैव विषं भुक्तं विनाऽमृतम् । ब्रह्मणश्च शिरश्छिन्नं विष्णोरपि तथैव च ॥४८॥ स्वातन्त्र्याद्धि कृतं तेन मुनीन्द्रा ब्रह्मवादिनः । तत्प्रसादान्मया सर्वं विदितं करबिल्ववत् ॥४९॥ प्रसादबलतः साक्षात्सत्यार्थः कथितो मया । प्रसादेन विना वक्तुं को वा शक्तो मुनीश्वराः ॥५०॥ तस्मात्सर्वं परित्यज्य श्रद्धया परया सह । मदुक्तं परमाद्वैतं विद्याद्वेदोदितं बुधः ॥५१॥ विज्ञानेन विनाऽन्येन नास्ति मुक्तिर्न संशयः । अतो यूयमपि प्राज्ञा भवताद्वैतवादिनः ॥५२॥ परमाद्वैतविज्ञानं सिद्धं स्वानुभवेन च । श्रुतिस्मृतिपुराणाद्यैस्तर्कैर्वेदानुसारिभिः ॥५३॥ परमाद्वैतविज्ञानमेव ग्राह्यं यथास्थितम् । नान्यतर्कैश्च हन्तव्यमिदमाम्नायवाक्यजम् ॥५४॥ विनैव परमाद्वैतं भेदं केचन मोहिताः । कल्पयन्ति तदा शम्भुः सद्वितीयो भविष्यति ॥५५॥ आम्नायार्थं महाद्वैतं नैव जानन्ति ये जनाः । वेदसिद्धं महाद्वैतं को वा विज्ञातुमर्हति ॥५६॥ भिन्नाभिन्नतया देवं परमाद्वैतलक्षणम् । कल्पयन्ति महामोहात्केचित्तच्च न सङ्गतम् ॥५७॥ भेदाभेदेऽपि भेदांशो मिथ्या भवति सत्तमाः । भेदानिरूपणादेव धर्म्यादेरनिरूपणात् ॥५८॥ तस्मान्नास्तीश्वरादन्यत्किञ्चिदप्यास्तिकोत्तमाः । द्वितीयाद्वै भयं जन्तोर्भवतीत्याह हि श्रुतिः ॥५९॥ को मोहस्तत्र कः शोक एकत्वमनुपश्यतः । इति चाऽऽह हि सा साध्वी श्रुतिरद्वैतमास्तिकाः ॥६०॥ एकत्वमेव वाक्यार्थो नापरः परमास्तिकाः । स्तुतिनिन्दे विरुध्येते भेदो यदि विवक्षितः ॥६१॥ अतीव शुद्धचित्तानां केवलं करुणाबलात् । परमाद्वैतमाम्नायात्प्रभाति श्रद्धया सह ॥६२॥ शिवभट्टारकस्यैव प्रसादे पुष्कले सति । परमाद्वैतमाभाति यथावन्नान्यहेतुना ॥६३॥ न भाति परमाद्वैतं प्रसादरहितस्य तु । दुर्लभः खलु देवस्य प्रसादः परमास्तिकाः ॥६४॥ अतश्च वेदोदितवर्त्मनैव विहाय वादान्तरजन्मबुद्धिम् । विमुक्तिकामः परमाद्वितीयं समाश्रयेदेव शिवस्वरूपम् ॥६५॥
॥इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां सामान्यसृष्टिकथनं नाम तृतीयोऽध्यायः ॥ ३॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP